भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.82

10.82.001

भ्प्_10.82.001।0 श्री-शुक उवाच
अथैकदा द्वारवत्यां वसतो राम-कृष्णयोः ।
सूर्योपरागः सु-महान् आसीत् कल्प-क्षये यथा

10.82.002

तं ज्ञात्वा मनुजा राजन् पुरस्ताद् एव सर्वतः ।
समन्त-पञ्चकं क्षेत्रं ययुः श्रेयो-विधित्सया

10.82.003

निःक्षत्रियां महीं कुर्वन् रामः शस्त्र-भृतां वरः ।
नृपाणां रुधिरौघेण यत्र चक्रे महा-ह्रदान्

10.82.004

ईजे च भगवान् रामो यत्रास्पृष्टो ऽपि कर्मणा ।
लोकं सङ्ग्राहयन्न् ईशो यथान्यो ऽघापनुत्तये

10.82.005

महत्यां तीर्थ-यात्रायां तत्रागन् भारतीः प्रजाः ।
वृष्णयश् च तथाक्रूर- वसुदेवाहुकादयः

10.82.006

ययुर् भारत तत् क्षेत्रं स्वम् अघं क्षपयिष्णवः ।
गद-प्रद्युम्न-साम्बाद्याः सुचन्द्र-शुक-सारणैः ।
आस्ते ऽनिरुद्धो रक्षायां कृतवर्मा च यूथ-पः

10.82.007

ते रथैर् देव-धिष्ण्याभैर् हयैश् च तरल-प्लवैः ।
गजैर् नदद्भिर् अभ्राभैर् नृभिर् विद्याधर-द्युभिः

10.82.008

व्यरोचन्त महा-तेजाः पथि काञ्चन-मालिनः ।
दिव्य-स्रग्-वस्त्र-सन्नाहाः कलत्रैः खे-चरा इव

10.82.009

तत्र स्नात्वा महा-भागा उपोष्य सु-समाहिताः ।
ब्राह्मणेभ्यो ददुर् धेनूर् वासः-स्रग्-रुक्म-मालिनीः

10.82.010

राम-ह्रदेषु विधि-वत् पुनर् आप्लुत्य वृष्णयः ।
ददः स्व्-अन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिर् अस्त्व् इति

10.82.011

स्वयं च तद्-अनुज्ञाता वृष्णयः कृष्ण-देवताः ।
भुक्त्वोपविविशुः कामं स्निग्ध-च्छायाङ्घ्रिपाङ्घ्रिषु

10.82.012

तत्रागतांस् ते ददृशुः सुहृत्-सम्बन्धिनो नृपान् ।
मत्स्योशीनर-कौशल्य- विदर्भ-कुरु-सृञ्जयान्

10.82.013

काम्बोज-कैकयान् मद्रान् कुन्तीन् आनर्त-केरलान् ।
अन्यांश् चैवात्म-पक्षीयान् परांश् च शतशो नृप ।
नन्दादीन् सुहृदो गोपान् गोपीश् चोत्कण्ठिताश् चिरम्

10.82.014

अन्योन्य-सन्दर्शन-हर्ष-रंहसा प्रोत्फुल्ल-हृद्-वक्त्र-सरोरुह-श्रियः ।
आश्लिष्य गाढं नयनैः स्रवज्-जला हृष्यत्-त्वचो रुद्ध-गिरो ययुर् मुदम्

10.82.016

स्त्रियश् च संवीक्ष्य मिथो ऽति-सौहृद- $ स्मितामलापाङ्ग-दृशो ऽभिरेभिरे &अम्प्;
स्तनैः स्तनान् कुङ्कुम-पङ्क-रूषितान् % निहत्य दोर्भिः प्रणयाश्रु-लोचनाः ॥ भ्प्_10.82.015* ॥
ततो ऽभिवाद्य ते वृद्धान् यविष्ठैर् अभिवादिताः ।
स्व्-आगतं कुशलं पृष्ट्वा चक्रुः कृष्ण-कथा मिथः

10.82.017

पृथा भ्रातॄन् स्वसॄर् वीक्ष्य तत्-पुत्रान् पितराव् अपि ।
भ्रातृ-पत्नीर् मुकुन्दं च जहौ सङ्कथया शुचः

10.82.018

भ्प्_10.82.018।0 कुन्त्य् उवाच
आर्य भ्रातर् अहं मन्ये आत्मानम् अकृताशिषम् ।
यद् वा आपत्सु मद्-वार्तां नानुस्मरथ सत्तमाः

10.82.019

सुहृदो ज्ञातयः पुत्रा भ्रातरः पितराव् अपि ।
नानुस्मरन्ति स्व-जनं यस्य दैवम् अदक्षिणम्

10.82.020

भ्प्_10.82.020।0 श्री-वसुदेव उवाच
अम्ब मास्मान् असूयेथा दैव-क्रीडनकान् नरान् ।
ईशस्य हि वशे लोकः कुरुते कार्यते ऽथ वा

10.82.021

कंस-प्रतापिताः सर्वे वयं याता दिशं दिशम् ।
एतर्ह्य् एव पुनः स्थानं दैवेनासादिताः स्वसः

10.82.022

भ्प्_10.82.022।0 श्री-शुक उवाच
वसुदेवोग्रसेनाद्यैर् यदुभिस् ते ऽर्चिता नृपाः ।
आसन्न् अच्युत-सन्दर्श- परमानन्द-निर्वृताः

10.82.023

भीष्मो द्रोणो ऽम्बिका-पुत्रो गान्धारी स-सुता तथा ।
स-दाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः

10.82.024

कुन्तीभोजो विराटश् च भीष्मको नग्नजिन् महान् ।
पुरुजिद् द्रुपदः शल्यो धृष्टकेतुः स काशि-राट्

10.82.025

दमघोषो विशालाक्षो मैथिलो मद्र-केकयौ ।
युधामन्युः सुशर्मा च स-सुता बाह्लिकादयः

10.82.026

राजानो ये च राजेन्द्र युधिष्ठिरम् अनुव्रताः ।
श्री-निकेतं वपुः शौरेः स-स्त्रीकं वीक्ष्य विस्मिताः

10.82.027

अथ ते राम-कृष्णाभ्यां सम्यक् प्राप्त-समर्हणाः ।
प्रशशंसुर् मुदा युक्ता वृष्णीन् कृष्ण-परिग्रहान्

10.82.028

अहो भोज-पते यूयं जन्म-भाजो नृणाम् इह ।
यत् पश्यथासकृत् कृष्णं दुर्दर्शम् अपि योगिनाम्

10.82.031

यद्-विश्रुतिः श्रुति-नुतेदम् अलं पुनाति $ पादावनेजन-पयश् च वचश् च शास्त्रम् &अम्प्;
भूः काल-भर्जित-भगापि यद्-अङ्घ्रि-पद्म- % स्पर्शोत्थ-शक्तिर् अभिवर्षति नो ऽखिलार्थान् ॥ भ्प्_10.82.029* ॥
तद्-दर्शन-स्पर्शनानुपथ-प्रजल्प- $ शय्यासनाशन-सयौन-सपिण्ड-बन्धः &
तद्-दर्शन-स्पर्शनानुपथ-प्रजल्प- $ शय्यासनाशन-सयौन-सपिण्ड-बन्धः &
येषां गृहे निरय-वर्त्मनि वर्ततां वः % स्वर्गापवर्ग-विरमः स्वयम् आस विष्णुः ॥ भ्प्_10.82.030*
0 श्री-शुक उवाच
नन्दस् तत्र यदून् प्राप्तान् ज्ञात्वा कृष्ण-पुरोगमान् ।
तत्रागमद् वृतो गोपैर् अनः-स्थार्थैर् दिदृक्षया

10.82.032

तं दृष्ट्वा वृष्णयो हृष्टास् तन्वः प्राणम् इवोत्थिताः ।
परिषस्वजिरे गाढं चिर-दर्शन-कातराः

10.82.033

वसुदेवः परिष्वज्य सम्प्रीतः प्रेम-विह्वलः ।
स्मरन् कंस-कृतान् क्लेशान् पुत्र-न्यासं च गोकुले

10.82.034

कृष्ण-रामौ परिष्वज्य पितराव् अभिवाद्य च ।
न किञ्चनोचतुः प्रेम्णा साश्रु-कण्ठौ कुरूद्वह

10.82.035

ताव् आत्मासनम् आरोप्य बाहुभ्यां परिरभ्य च ।
यशोदा च महा-भागा सुतौ विजहतुः शुचः

10.82.036

रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् ।
स्मरन्त्यौ तत्-कृतां मैत्रीं बाष्प-कण्ठ्यौ समूचतुः

10.82.037

का विस्मरेत वां मैत्रीम् अनिवृत्तां व्रजेश्वरि ।
अवाप्याप्य् ऐन्द्रम् ऐश्वर्यं यस्या नेह प्रतिक्रिया

10.82.039

एताव् अदृष्ट-पितरौ युवयोः स्म पित्रोः $ सम्प्रीणनाभ्युदय-पोषण-पालनानि &अम्प्;
प्राप्योषतुर् भवति पक्ष्म ह यद्वद् अक्ष्णोर् % न्यस्ताव् अकुत्र च भयौ न सतां परः स्वः ॥ भ्प्_10.82.038*

10.82.040

0 श्री-शुक उवाच
गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं $ यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतं शपन्ति &
गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं $ यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतं शपन्ति &
दृग्भिर् हृदी-कृतम् अलं परिरभ्य सर्वास् % तद्-भावम् आपुर् अपि नित्य-युजां दुरापम् ॥ भ्प्_10.82.039* ॥
भगवांस् तास् तथा-भूता विविक्त उपसङ्गतः ।
आश्लिष्यानामयं पृष्ट्वा प्रहसन्न् इदम् अब्रवीत्

10.82.041

अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया ।
गतांश् चिरायिताञ् छत्रु- पक्ष-क्षपण-चेतसः

10.82.042

अप्य् अवध्यायथास्मान् स्विद् अकृत-ज्ञाविशङ्कया ।
नूनं भूतानि भगवान् युनक्ति वियुनक्ति च

10.82.043

वायुर् यथा घनानीकं तृणं तूलं रजांसि च ।
संयोज्याक्षिपते भूयस् तथा भूतानि भूत-कृत्

10.82.044

मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते ।
दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः

10.82.045

अहं हि सर्व-भूतानाम् आदिर् अन्तो ऽन्तरं बहिः ।
भौतिकानां यथा खं वार् भूर् वायुर् ज्योतिर् अङ्गनाः

10.82.046

एवं ह्य् एतानि भूतानि भूतेष्व् आत्मात्मना ततः ।
उभयं मय्य् अथ परे पश्यताभातम् अक्षरे

10.82.047

भ्प्_10.82.047।0 श्री-शुक उवाच
अध्यात्म-शिक्षया गोप्य एवं कृष्णेन शिक्षिताः ।
तद्-अनुस्मरण-ध्वस्त- जीव-कोशास् तम् अध्यगन्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc