भागवत पुराण · अध्याय 10.79
भ्प्_10.79.001।0 श्री-शुक उवाच
ततः पर्वण्य् उपावृत्ते प्रचण्डः पांशु-वर्षणः ।
भीमो वायुर् अभूद् राजन् पूय-गन्धस् तु सर्वशः
ततो ऽमेध्य-मयं वर्षं बल्वलेन विनिर्मितम् ।
अभवद् यज्ञ-शालायां सो ऽन्वदृश्यत शूल-धृक्
तं विलोक्य बृहत्-कायं भिन्नाञ्जन-चयोपमम् ।
तप्त-ताम्र-शिखा-श्मश्रुं दंष्ट्रोग्र-भ्रु-कुटी-मुखम्
सस्मार मूषलं रामः पर-सैन्य-विदारणम् ।
हलं च दैत्य-दमनं ते तूर्णम् उपतस्थतुः
तम् आकृष्य हलाग्रेण बल्वलं गगने-चरम् ।
मूषलेनाहनत् क्रुद्धो मूर्ध्नि ब्रह्म-द्रुहं बलः
सो ऽपतद् भुवि निर्भिन्न- ललाटो ऽसृक् समुत्सृजन् ।
मुञ्चन्न् आर्त-स्वरं शैलो यथा वज्र-हतो ऽरुणः
संस्तुत्य मुनयो रामं प्रयुज्यावितथाशिषः ।
अभ्यषिञ्चन् महा-भागा वृत्र-घ्नं विबुधा यथा
वैजयन्तीं ददुर् मालां श्री-धामाम्लान-पङ्कजां ।
रामाय वाससी दिव्ये दिव्यान्य् आभरणानि च
अथ तैर् अभ्यनुज्ञातः कौशिकीम् एत्य ब्राह्मणैः ।
स्नात्वा सरोवरम् अगाद् यतः सरयूर् आस्रवत्
अनु-स्रोतेन सरयूं प्रयागम् उपगम्य सः ।
स्नात्वा सन्तर्प्य देवादीन् जगाम पुलहाश्रमम्
गोमतीं गण्डकीं स्नात्वा विपाशां शोण आप्लुतः ।
गयां गत्वा पितॄन् इष्ट्वा गङ्गा-सागर-सङ्गमे
उपस्पृश्य महेन्द्राद्रौ रामं दृष्ट्वाभिवाद्य च ।
सप्त-गोदावरीं वेणां पम्पां भीमरथीं ततः
स्कन्दं दृष्ट्वा ययौ रामः श्री-शैलं गिरिशालयम् ।
द्रविडेषु महा-पुण्यं दृष्ट्वाद्रिं वेङ्कटं प्रभुः
काम-कोष्णीं पुरीं काञ्चीं कावेरीं च सरिद्-वराम् ।
श्री-रन्गाख्यं महा-पुण्यं यत्र सन्निहितो हरिः
ऋषभाद्रिं हरेः क्षेत्रं दक्षिणां मथुरां तथा ।
सामुद्रं सेतुम् अगमत् महा-पातक-नाशनम्
तत्रायुतम् अदाद् धेनूर् ब्राह्मणेभ्यो हलायुधः ।
कृतमालां ताम्रपर्णीं मलयं च कुलाचलम्
तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य च ।
योजितस् तेन चाशीर्भिर् अनुज्ञातो गतो ऽर्णवम् ।
दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श सः
ततः फाल्गुनम् आसाद्य पञ्चाप्सरसम् उत्तमम् ।
विष्णुः सन्निहितो यत्र स्नात्वास्पर्शद् गवायुतम्
ततो ऽभिव्रज्य भगवान् केरलांस् तु त्रिगर्तकान् ।
गोकर्णाख्यं शिव-क्षेत्रं सान्निध्यं यत्र धूर्जटेः
आर्यां द्वैपायनीं दृष्ट्वा शूर्पारकम् अगाद् बलः ।
तापीं पयोष्णीं निर्विन्ध्याम् उपस्पृश्याथ दण्डकम्
प्रविश्य रेवाम् अगमद् यत्र माहिष्मती पुरी ।
मनु-तीर्थम् उपस्पृश्य प्रभासं पुनर् आगमत्
श्रुत्वा द्विजैः कथ्यमानं कुरु-पाण्डव-संयुगे ।
सर्व-राजन्य-निधनं भारं मेने हृतं भुवः
स भीम-दुर्योधनयोर् गदाभ्यां युध्यतोर् मृधे ।
वारयिष्यन् विनशनं जगाम यदु-नन्दनः
युधिष्ठिरस् तु तं दृष्ट्वा यमौ कृष्णार्जुनाव् अपि ।
अभिवाद्याभवंस् तुष्णीं किं विवक्षुर् इहागतः
गदा-पाणी उभौ दृष्ट्वा संरब्धौ विजयैषिणौ ।
मण्डलानि विचित्राणि चरन्ताव् इदम् अब्रवीत्
युवां तुल्य-बलौ वीरौ हे राजन् हे वृकोदर ।
एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम्
तस्माद् एकतरस्येह युवयोः सम-वीर्ययोः ।
न लक्ष्यते जयो ऽन्यो वा विरमत्व् अफलो रणः
न तद्-वाक्यं जगृहतुर् बद्ध-वैरौ नृपार्थवत् ।
अनुस्मरन्ताव् अन्योन्यं दुरुक्तं दुष्कृतानि च
दिष्टं तद् अनुमन्वानो रामो द्वारवतीं ययौ ।
उग्रसेनादिभिः प्रीतैर् ज्ञातिभिः समुपागतः
तं पुनर् नैमिषं प्राप्तम् ऋषयो ऽयाजयन् मुदा ।
क्रत्व्-अङ्गं क्रतुभिः सर्वैर् निवृत्ताखिल-विग्रहम्
तेभ्यो विशुद्धं विज्ञानं भगवान् व्यतरद् विभुः ।
येनैवात्मन्य् अदो विश्वम् आत्मानं विश्व-गं विदुः
स्व-पत्यावभृथ-स्नातो ज्ञाति-बन्धु-सुहृद्-वृतः ।
रेजे स्व-ज्योत्स्नयेवेन्दुः सु-वासाः सुष्ठ्व् अलङ्कृतः
ईदृग्-विधान्य् असङ्ख्यानि बलस्य बल-शालिनः ।
अनन्तस्याप्रमेयस्य माया-मर्त्यस्य सन्ति हि
यो ऽनुस्मरेत रामस्य कर्माण्य् अद्भुत-कर्मणः ।
सायं प्रातर् अनन्तस्य विष्णोः स दयितो भवेत्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0