भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.78

10.78.001

भ्प्_10.78.001।0 श्री-शुक उवाच
शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः ।
पर-लोक-गतानां च कुर्वन् पारोक्ष्य-सौहृदम्

10.78.002

एकः पदातिः सङ्क्रुद्धो गदा-पाणिः प्रकम्पयन् ।
पद्भ्याम् इमां महा-राज महा-सत्त्वो व्यदृश्यत

10.78.003

तं तथायान्तम् आलोक्य गदाम् आदाय सत्वरः ।
अवप्लुत्य रथात् कृष्णः सिन्धुं वेलेव प्रत्यधात्

10.78.004

गदाम् उद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः ।
दिष्ट्या दिष्ट्या भवान् अद्य मम दृष्टि-पथं गतः

10.78.005

त्वं मातुलेयो नः कृष्ण मित्र-ध्रुङ् मां जिघांससि ।
अतस् त्वां गदया मन्द हनिष्ये वज्र-कल्पया

10.78.006

तर्ह्य् आनृण्यम् उपैम्य् अज्ञ मित्राणां मित्र-वत्सलः ।
बन्धु-रूपम् अरिं हत्वा व्याधिं देह-चरं यथा

10.78.007

एवं रूक्षैस् तुदन् वाक्यैः कृष्णं तोत्रैर् इव द्विपम् ।
गदयाताडयन् मूर्ध्नि सिंह-वद् व्यनदच् च सः

10.78.008

गदयाभिहतो ऽप्य् आजौ न चचाल यदूद्वहः ।
कृष्णो ऽपि तम् अहन् गुर्व्या कौमोदक्या स्तनान्तरे

10.78.009

गदा-निर्भिन्न-हृदय उद्वमन् रुधिरं मुखात् ।
प्रसार्य केश-बाह्व्-अङ्घ्रीन् धरण्यां न्यपतद् व्यसुः

10.78.010

ततः सूक्ष्मतरं ज्योतिः कृष्णम् आविशद् अद्भुतम् ।
पश्यतां सर्व-भूतानां यथा चैद्य-वधे नृप

10.78.011

विदूरथस् तु तद्-भ्राता भ्रातृ-शोक-परिप्लुतः ।
आगच्छद् असि-चर्माभ्याम् उच्छ्वसंस् तज्-जिघांसया

10.78.012

तस्य चापततः कृष्णश् चक्रेण क्षुर-नेमिना ।
शिरो जहार राजेन्द्र स-किरीटं स-कुण्डलम्

10.78.013

एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम् ।
हत्वा दुर्विषहान् अन्यैर् ईडितः सुर-मानवैः

10.78.014

मुनिभिः सिद्ध-गन्धर्वैर् विद्याधर-महोरगैः ।
अप्सरोभिः पितृ-गणैर् यक्षैः किन्नर-चारणैः

10.78.015

उपगीयमान-विजयः कुसुमैर् अभिवर्षितः ।
वृतश् च वृष्णि-प्रवरैर् विवेशालङ्कृतां पुरीम्

10.78.016

एवं योगेश्वरः कृष्णो भगवान् जगद्-ईश्वरः ।
ईयते पशु-दृष्टीनां निर्जितो जयतीति सः

10.78.017

श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः ।
तीर्थाभिषेक-व्याजेन मध्य-स्थः प्रययौ किल

10.78.018

स्नात्वा प्रभासे सन्तर्प्य देवर्षि-पितृ-मानवान् ।
सरस्वतीं प्रति-स्रोतं ययौ ब्राह्मण-संवृतः

10.78.019

पृथूदकं बिन्दु-सरस् त्रितकूपं सुदर्शनम् ।
विशालं ब्रह्म-तीर्थं च चक्रं प्राचीं सरस्वतीम्

10.78.020

यमुनाम् अनु यान्य् एव गङ्गाम् अनु च भारत ।
जगाम नैमिषं यत्र ऋषयः सत्रम् आसते

10.78.021

तम् आगतम् अभिप्रेत्य मुनयो दीर्घ-सत्रिणः ।
अभिनन्द्य यथा-न्यायं प्रणम्योत्थाय चार्चयन्

10.78.022

सो ऽर्चितः स-परीवारः कृतासन-परिग्रहः ।
रोमहर्षणम् आसीनं महर्षेः शिष्यम् ऐक्षत

10.78.023

अप्रत्युत्थायिनं सूतम् अकृत-प्रह्वणाञ्जलिम् ।
अध्यासीनं च तान् विप्रांश् चुकोपोद्वीक्ष्य माधवः

10.78.024

यस्माद् असाव् इमान् विप्रान् अध्यास्ते प्रतिलोम-जः ।
धर्म-पालांस् तथैवास्मान् वधम् अर्हति दुर्मतिः

10.78.025

ऋषेर् भगवतो भूत्वा शिष्यो ऽधीत्य बहूनि च ।
सेतिहास-पुराणानि धर्म-शास्त्राणि सर्वशः

10.78.026

अदान्तस्याविनीतस्य वृथा पण्डित-मानिनः ।
न गुणाय भवन्ति स्म नटस्येवाजितात्मनः

10.78.027

एतद्-अर्थो हि लोके ऽस्मिन्न् अवतारो मया कृतः ।
वध्या मे धर्म-ध्वजिनस् ते हि पातकिनो ऽधिकाः

10.78.028

एतावद् उक्त्वा भगवान् निवृत्तो ऽसद्-वधाद् अपि ।
भावित्वात् तं कुशाग्रेण कर-स्थेनाहनत् प्रभुः

10.78.029

हाहेति-वादिनः सर्वे मुनयः खिन्न-मानसाः ।
ऊचुः सङ्कर्षणं देवम् अधर्मस् ते कृतः प्रभो

10.78.030

अस्य ब्रह्मासनं दत्तम् अस्माभिर् यदु-नन्दन ।
आयुश् चात्माक्लमं तावद् यावत् सत्रं समाप्यते

10.78.031

अजानतैवाचरितस् त्वया ब्रह्म-वधो यथा ।
योगेश्वरस्य भवतो नाम्नायो ऽपि नियामकः

10.78.032

यद्य् एतद्-ब्रह्म-हत्यायाः पावनं लोक-पावन ।
चरिष्यति भवांल् लोक- सङ्ग्रहो ऽनन्य-चोदितः

10.78.033

भ्प्_10.78.033।0 श्री-भगवान् उवाच
चरिष्ये वध-निर्वेशं लोकानुग्रह-काम्यया ।
नियमः प्रथमे कल्पे यावान् स तु विधीयताम्

10.78.034

दीर्घम् आयुर् बतैतस्य सत्त्वम् इन्द्रियम् एव च ।
आशासितं यत् तद् ब्रूते साधये योग-मायया

10.78.035

भ्प्_10.78.035।0 ऋषय ऊचुः
अस्त्रस्य तव वीर्यस्य मृत्योर् अस्माकम् एव च ।
यथा भवेद् वचः सत्यं तथा राम विधीयताम्

10.78.036

भ्प्_10.78.036।0 श्री-भगवान् उवाच
आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम् ।
तस्माद् अस्य भवेद् वक्ता आयुर्-इन्द्रिय-सत्त्व-वान्

10.78.037

किं वः कामो मुनि-श्रेष्ठा ब्रूताहं करवाण्य् अथ ।
अजानतस् त्व् अपचितिं यथा मे चिन्त्यतां बुधाः

10.78.038

भ्प्_10.78.038।0 ऋषय ऊचुः
इल्वलस्य सुतो घोरो बल्वलो नाम दानवः ।
स दूषयति नः सत्रम् एत्य पर्वणि पर्वणि

10.78.039

तं पापं जहि दाशार्ह तन् नः शुश्रूषणं परम् ।
पूय-शोणित-विन्-मूत्र- सुरा-मांसाभिवर्षिणम्

10.78.040

ततश् च भारतं वर्षं परीत्य सु-समाहितः ।
चरित्वा द्वादश-मासांस् तीर्थ-स्नायी विशुध्यसि

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc