भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.77

10.77.001

भ्प्_10.77.001।0 श्री-शुक उवाच
स उपस्पृश्य सलिलं दंशितो धृत-कार्मुकः ।
नय मां द्युमतः पार्श्वं वीरस्येत्य् आह सारथिम्

10.77.002

विधमन्तं स्व-सैन्यानि द्युमन्तं रुक्मिणी-सुतः ।
प्रतिहत्य प्रत्यविध्यान् नाराचैर् अष्टभिः स्मयन्

10.77.003

चतुर्भिश् चतुरो वाहान् सूतम् एकेन चाहनत् ।
द्वाभ्यं धनुश् च केतुं च शरेणान्येन वै शिरः

10.77.004

गद-सात्यकि-साम्बाद्या जघ्नुः सौभ-पतेर् बलम् ।
पेतुः समुद्रे सौभेयाः सर्वे सञ्छिन्न-कन्धराः

10.77.005

एवं यदूनां शाल्वानां निघ्नताम् इतरेतरम् ।
युद्धं त्रि-नव-रात्रं तद् अभूत् तुमुलम् उल्बणम्

10.77.006

इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्म-सूनुना ।
राजसूये ऽथ निवृत्ते शिशुपाले च संस्थिते

10.77.007

कुरु-वृद्धान् अनुज्ञाप्य मुनींश् च स-सुतां पृथाम् ।
निमित्तान्य् अति-घोराणि पश्यन् द्वारवतीं ययौ

10.77.008

आह चाहम् इहायात आर्य-मिश्राभिसङ्गतः ।
राजन्याश् चैद्य-पक्षीया नूनं हन्युः पुरीं मम

10.77.009

वीक्ष्य तत् कदनं स्वानां निरूप्य पुर-रक्षणम् ।
सौभं च शाल्व-राजं च दारुकं प्राह केशवः

10.77.010

रथं प्रापय मे सूत शाल्वस्यान्तिकम् आशु वै ।
सम्भ्रमस् ते न कर्तव्यो मायावी सौभ-राड् अयम्

10.77.011

इत्य् उक्तश् चोदयाम् आस रथम् आस्थाय दारुकः ।
विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम्

10.77.012

शाल्वश् च कृष्णम् आलोक्य हत-प्राय-बलेश्वरः ।
प्राहरत् कृष्ण-सूतय शक्तिं भीम-रवां मृधे

10.77.013

ताम् आपतन्तीं नभसि महोल्काम् इव रंहसा ।
भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत्

10.77.014

तं च षोडशभिर् विद्ध्वा बानैः सौभं च खे भ्रमत् ।
अविध्यच् छर-सन्दोहैः खं सूर्य इव रश्मिभिः

10.77.015

शाल्वः शौरेस् तु दोः सव्यं स-शार्ङ्गं शार्ङ्ग-धन्वनः ।
बिभेद न्यपतद् धस्ताच् छार्ङ्गम् आसीत् तद् अद्भुतम्

10.77.016

हाहा-कारो महान् आसीद् भूतानां तत्र पश्यताम् ।
निनद्य सौभ-राड् उच्चैर् इदम् आह जनार्दनम्

10.77.017

यत् त्वया मूढ नः सख्युर् भ्रातुर् भार्या हृतेक्षताम् ।
प्रमत्तः स सभा-मध्ये त्वया व्यापादितः सखा

10.77.018

तं त्वाद्य निशितैर् बाणैर् अपराजित-मानिनम् ।
नयाम्य् अपुनर्-आवृत्तिं यदि तिष्ठेर् ममाग्रतः

10.77.019

भ्प्_10.77.019।0 श्री-भगवान् उवाच
वृथा त्वं कत्थसे मन्द न पश्यस्य् अन्तिके ऽन्तकम् ।
पौरुसं दर्शयन्ति स्म शूरा न बहु-भाषिणः

10.77.020

इत्य् उक्त्वा भगवाञ् छाल्वं गदया भीम-वेगया ।
तताड जत्रौ संरब्धः स चकम्पे वमन्न् असृक्

10.77.021

गदायां सन्निवृत्तायां शाल्वस् त्व् अन्तरधीयत ।
ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम् ।
देवक्या प्रहितो ऽस्मीति नत्वा प्राह वचो रुदन्

10.77.022

कृष्ण कृष्ण महा-बाहो पिता ते पितृ-वत्सल ।
बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः

10.77.023

निशम्य विप्रियं कृष्णो मानुसीं प्रकृतिं गतः ।
विमनस्को घृणी स्नेहाद् बभाषे प्राकृतो यथा

10.77.024

कथं रामम् असम्भ्रान्तं जित्वाजेयं सुरासुरैः ।
शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः

10.77.025

इति ब्रुवाणे गोविन्दे सौभ-राट् प्रत्युपस्थितः ।
वसुदेवम् इवानीय कृष्णं चेदम् उवाच सः

10.77.026

एष ते जनिता तातो यद्-अर्थम् इह जीवसि ।
वधिष्ये वीक्षतस् ते ऽमुम् ईशश् चेत् पाहि बालिश

10.77.027

एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः ।
उत्कृत्य शिर आदाय ख-स्थं सौभं समाविशत्

10.77.028

ततो मुहूर्तं प्रकृताव् उपप्लुतः स्व-बोध आस्ते स्व-जनानुषङ्गतः ।
महानुभावस् तद् अबुध्यद् आसुरीं मायां स शाल्व-प्रसृतां मयोदिताम्

10.77.029

न तत्र दूतं न पितुः कलेवरं प्रबुद्ध आजौ समपश्यद् अच्युतः ।
स्वाप्नं यथा चाम्बर-चारिणं रिपुं सौभ-स्थम् आलोक्य निहन्तुम् उद्यतः

10.77.030

एवं वदन्ति राजर्षे ऋषयः के च नान्विताः ।
यत् स्व-वाचो विरुध्येत नूनं ते न स्मरन्त्य् उत

10.77.031

क्व शोक-मोहौ स्नेहो वा भयं वा ये ऽज्ञ-सम्भवाः ।
क्व चाखण्डित-विज्ञान- ज्ञानैश्वर्यस् त्व् अखण्डितः

10.77.032

यत्-पाद-सेवोर्जितयात्म-विद्यया हिन्वन्त्य् अनाद्यात्म-विपर्यय-ग्रहम् ।
लभन्त आत्मीयम् अनन्तम् ऐश्वरं कुतो नु मोहः परमस्य सद्-गतेः

10.77.034

तं शस्त्र-पूगैः प्रहरन्तम् ओजसा $ शाल्वं शरैः शौरिर् अमोघ-विक्रमः &अम्प्;
विद्ध्वाच्छिनद् वर्म धनुः शिरो-मणिं % सौभं च शत्रोर् गदया रुरोज ह ॥ भ्प्_10.77.033* ॥
तत् कृष्ण-हस्तेरितया विचूर्णितं पपात तोये गदया सहस्रधा ।
विसृज्य तद् भू-तलम् आस्थितो गदाम् उद्यम्य शाल्वो ऽच्युतम् अभ्यगाद् द्रुतम्

10.77.035

आधावतः स-गदं तस्य बाहुं भल्लेन छित्त्वाथ रथाङ्गम् अद्भुतम् ।
वधाय शाल्वस्य लयार्क-सन्निभं बिभ्रद् बभौ सार्क इवोदयाचलः

10.77.036

जहार तेनैव शिरः स-कुण्डलं किरीट-युक्तं पुरु-मायिनो हरिः ।
वज्रेण वृत्रस्य यथा पुरन्दरो बभूव हाहेति वचस् तदा नृणाम्

10.77.037

तस्मिन् निपतिते पापे सौभे च गदया हते ।
नेदुर् दुन्दुभयो राजन् दिवि देव-गणेरिताः ।
सखीनाम् अपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc