भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.76

10.76.001

भ्प्_10.76.001।0 श्री-शुक उवाच
अथान्यद् अपि कृष्णस्य शृणु कर्माद्भुतं नृप ।
क्रीडा-नर-शरीरस्य यथा सौभ-पतिर् हतः

10.76.002

शिशुपाल-सखः शाल्वो रुक्मिण्य्-उद्वाह आगतः ।
यदुभिर् निर्जितः सङ्ख्ये जरासन्धादयस् तथा

10.76.003

शाल्वः प्रतिज्ञाम् अकरोच् छृण्वतां सर्व-भूभुजाम् ।
अयादवां क्ष्मां करिष्ये पौरुषं मम पश्यत

10.76.004

इति मूढः प्रतिज्ञाय देवं पशु-पतिं प्रभुम् ।
आराधयाम् आस नृपः पांशु-मुष्टिं सकृद् ग्रसन्

10.76.005

संवत्सरान्ते भगवान् आशु-तोष उमा-पतिः ।
वरेण च्छन्दयाम् आस शाल्वं शरणम् आगतम्

10.76.006

देवासुर-मनुष्याणां गन्धर्वोरग-रक्षसाम् ।
अभेद्यं काम-गं वव्रे स यानं वृष्णि-भीषणम्

10.76.007

तथेति गिरिशादिष्टो मयः पर-पुरं-जयः ।
पुरं निर्माय शाल्वाय प्रादात् सौभम् अयस्-मयम्

10.76.008

स लब्ध्वा काम-गं यानं तमो-धाम दुरासदम् ।
ययस् द्वारवतीं शाल्वो वैरं वृष्णि-कृतं स्मरन्

10.76.009

निरुध्य सेनया शाल्वो महत्या भरतर्षभ ।
पुरीं बभञ्जोपवनान् उद्यानानि च सर्वशः

10.76.010

स-गोपुराणि द्वाराणि प्रासादाट्टाल-तोलिकाः ।
विहारान् स विमानाग्र्यान् निपेतुः शस्त्र-वृष्टयः

10.76.011

शिला-द्रुमाश् चाशनयः सर्पा आसार-शर्कराः ।
प्रचण्डश् चक्रवातो ऽभूद् रजसाच्छादिता दिशः

10.76.012

इत्य् अर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् ।
नाभ्यपद्यत शं राजंस् त्रि-पुरेण यथा मही

10.76.013

प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजाः प्रजाः ।
म भैष्टेत्य् अभ्यधाद् वीरो रथारूढो महा-यशाः

10.76.014

सात्यकिश् चारुदेष्णश् च साम्बो ऽक्रूरः सहानुजः ।
हार्दिक्यो भानुविन्दश् च गदश् च शुक-सारणौ

10.76.015

अपरे च महेष्व्-आसा रथ-यूथप-यूथपाः ।
निर्ययुर् दंशिता गुप्ता रथेभाश्व-पदातिभिः

10.76.016

ततः प्रववृते युद्धं शाल्वानां यदुभिः सह ।
यथासुराणां विबुधैस् तुमुलं लोम-हर्षणम्

10.76.017

ताश् च सौभ-पतेर् माया दिव्यास्त्रै रुक्मिणी-सुतः ।
क्षणेन नाशयाम् आस नैशं तम इवोष्ण-गुः

10.76.018

विव्याध पञ्च-विंशत्या स्वर्ण-पुङ्खैर् अयो-मुखैः ।
शाल्वस्य ध्वजिनी-पालं शरैः सन्नत-पर्वभिः

10.76.019

शतेनाताडयच् छाल्वम् एकैकेनास्य सैनिकान् ।
दशभिर् दशभिर् नेतॄन् वाहनानि त्रिभिस् त्रिभिः

10.76.020

तद् अद्भुतं महत् कर्म प्रद्युम्नस्य महात्मनः ।
दृष्ट्वा तं पूजयाम् आसुः सर्वे स्व-पर-सैनिकाः

10.76.021

बहु-रूपैक-रूपं तद् दृश्यते न च दृश्यते ।
माया-मयं मय-कृतं दुर्विभाव्यं परैर् अभूत्

10.76.022

क्वचिद् भूमौ क्वचिद् व्योम्नि गिरि-मूर्ध्नि जले क्वचित् ।
अलात-चक्र-वद् भ्राम्यत् सौभं तद् दुरवस्थितम्

10.76.023

यत्र यत्रोपलक्ष्येत स-सौभः सह-सैनिकः ।
शाल्वस् ततस् ततो ऽमुञ्चञ् छरान् सात्वत-यूथपाः

10.76.024

शरैर् अग्न्य्-अर्क-संस्पर्शैर् आशी-विष-दुरासदैः ।
पीड्यमान-पुरानीकः शाल्वो ऽमुह्यत् परेरितैः

10.76.025

शाल्वानीकप-शस्त्रौघैर् वृष्णि-वीरा भृशार्दिताः ।
न तत्यजू रणं स्वं स्वं लोक-द्वय-जिगीषवः

10.76.026

शाल्वामात्यो द्युमान् नाम प्रद्युम्नं प्रक् प्रपीडितः ।
आसाद्य गदया मौर्व्या व्याहत्य व्यनदद् बली

10.76.027

प्रद्युम्नं गदया सीर्ण- वक्षः-स्थलम् अरिं-दमम् ।
अपोवाह रणात् सूतो धर्म-विद् दारुकात्मजः

10.76.028

लब्ध-सम्ज्ञो मुहूर्तेन कार्ष्णिः सारथिम् अब्रवीत् ।
अहो असाध्व् इदं सूत यद् रणान् मे ऽपसर्पणम्

10.76.029

न यदूनां कुले जातः श्रूयते रण-विच्युतः ।
विना मत् क्लीब-चित्तेन सूतेन प्राप्त-किल्बिषात्

10.76.030

किं नु वक्ष्ये ऽभिसङ्गम्य पितरौ राम-केशवौ ।
युद्धात् सम्यग् अपक्रान्तः पृष्टस् तत्रात्मनः क्षमम्

10.76.031

व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृ-जामयः ।
क्लैब्यं कथं कथं वीर तवान्यैः कथ्यतां मृधे

10.76.032

भ्प्_10.76.032।0 सारथिर् उवाच
धर्मं विजानतायुष्मन् कृतम् एतन् मया विभो ।
सूतः कृच्छ्र-गतं रक्षेद् रथिनं सारथिं रथी

10.76.033

एतद् विदित्वा तु भवान् मयापोवाहितो रणात् ।
उपसृष्टः परेणेति मूर्च्छितो गदया हतः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc