भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.75

10.75.001

भ्प्_10.75.001।0 श्री-राजोवाच
अजात-शत्रोस् तम् दृष्ट्वा राजसूय-महोदयम् ।
सर्वे मुमुदिरे ब्रह्मन् नृ-देवा ये समागताः

10.75.002

दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः ।
इति श्रुतं नो भगवंस् तत्र कारणम् उच्यताम्

10.75.003

भ्प्_10.75.003।0 श्री-बादरायणिर् उवाच
पितामहस्य ते यज्ञे राजसूये महात्मनः ।
बान्धवाः परिचर्यायां तस्यासन् प्रेम-बन्धनाः

10.75.004

भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः ।
सहदेवस् तु पूजायां नकुलो द्रव्य-साधने

10.75.005

गुरु-शुश्रूषणे जिष्णुः कृष्णः पादावनेजने ।
परिवेषणे द्रुपद-जा कर्णो दाने महा-मनाः

10.75.006

युयुधानो विकर्णश् च हार्दिक्यो विदुरादयः ।
बाह्लीक-पुत्रा भूर्य्-आद्या ये च सन्तर्दनादयः

10.75.007

निरूपिता महा-यज्ञे नाना-कर्मसु ते तदा ।
प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रिय-चिकीर्षवः

10.75.009

ऋत्विक्-सदस्य-बहु-वित्सु सुहृत्तमेषु $ स्व्-इष्टेषु सूनृत-समर्हण-दक्षिणाभिः &अम्प्;
चैद्ये च सात्वत-पतेश् चरणं प्रविष्टे % चक्रुस् ततस् त्व् अवभृथ-स्नपनं द्यु-नद्याम् ॥ भ्प्_10.75.008* ॥
मृदङ्ग-शङ्ख-पणव- धुन्धुर्य्-आनक-गोमुखाः ।
वादित्राणि विचित्राणि नेदुर् आवभृथोत्सवे

10.75.010

नार्तक्यो ननृतुर् हृष्टा गायका यूथशो जगुः ।
वीणा-वेणु-तलोन्नादस् तेषां स दिवम् अस्पृशत्

10.75.011

चित्र-ध्वज-पताकाग्रैर् इभेन्द्र-स्यन्दनार्वभिः ।
स्व्-अलङ्कृतैर् भटैर् भूपा निर्ययू रुक्म-मालिनः

10.75.012

यदु-सृञ्जय-काम्बोज- कुरु-केकय-कोशलाः ।
कम्पयन्तो भुवं सैन्यैर् ययमान-पुरः-सराः

10.75.013

सदस्यर्त्विग्-द्विज-श्रेष्ठा ब्रह्म-घोषेण भूयसा ।
देवर्षि-पितृ-गन्धर्वास् तुष्टुवुः पुष्प-वर्षिणः

10.75.014

स्व्-अलण्कृता नरा नार्यो गन्ध-स्रग्-भूषणाम्बरैः ।
विलिम्पन्त्यो ऽभिसिञ्चन्त्यो विजह्रुर् विविधै रसैः

10.75.015

तैल-गोरस-गन्धोद- हरिद्रा-सान्द्र-कुङ्कुमैः ।
पुम्भिर् लिप्ताः प्रलिम्पन्त्यो विजह्रुर् वार-योषितः

10.75.018

गुप्ता नृभिर् निरगमन्न् उपलब्धुम् एतद् $ देव्यो यथा दिवि विमान-वरैर् नृ-देव्यो &अम्प्;
ता मातुलेय-सखिभिः परिषिच्यमानाः % स-व्रीड-हास-विकसद्-वदना विरेजुः ॥ भ्प्_10.75.016* ॥
ता देवरान् उत सखीन् सिषिचुर् दृतीभिः $ क्लिन्नाम्बरा विवृत-गात्र-कुचोरु-मध्याः &
ता देवरान् उत सखीन् सिषिचुर् दृतीभिः $ क्लिन्नाम्बरा विवृत-गात्र-कुचोरु-मध्याः &
औत्सुक्य-मुक्त-कवराच् च्यवमान-माल्याः % क्षोभं दधुर् मल-धियां रुचिरैर् विहारैः ॥ भ्प्_10.75.017* ॥
स सम्राड् रथम् आरुढः सद्-अश्वं रुक्म-मालिनम् ।
व्यरोचत स्व-पत्नीभिः क्रियाभिः क्रतु-राड् इव

10.75.019

पत्नी-सम्याजावभृथ्यैश् चरित्वा ते तम् ऋत्विजः ।
आचान्तं स्नापयां चक्रुर् गङ्गायां सह कृष्णया

10.75.020

देव-दुन्दुभयो नेदुर् नर-दुन्दुभिभिः समम् ।
मुमुचुः पुष्प-वर्षाणि देवर्षि-पितृ-मानवाः

10.75.021

सस्नुस् तत्र ततः सर्वे वर्णाश्रम-युता नराः ।
महा-पातक्य् अपि यतः सद्यो मुच्येत किल्बिषात्

10.75.022

अथ राजाहते क्षौमे परिधाय स्व्-अलङ्कृतः ।
ऋत्विक्-सदस्य-विप्रादीन् आनर्चाभरणाम्बरैः

10.75.023

बन्धूञ् ज्ञातीन् नृपान् मित्र- सुहृदो ऽन्यांश् च सर्वशः ।
अभीक्ष्नं पूजयाम् आस नारायण-परो नृपः

10.75.025

सर्वे जनाः सुर-रुचो मणि-कुण्डल-स्रग्- $ उष्णीष-कञ्चुक-दुकूल-महार्घ्य-हाराः &अम्प्;
नार्यश् च कुण्डल-युगालक-वृन्द-जुष्ट- % वक्त्र-श्रियः कनक-मेखलया विरेजुः ॥ भ्प्_10.75.024* ॥
अथर्त्विजो महा-शीलाः सदस्या ब्रह्म-वादिनः ।
ब्रह्म-क्षत्रिय-विट्-शुद्रा- राजानो ये समागताः

10.75.026

देवर्षि-पितृ-भूतानि लोक-पालाः सहानुगाः ।
पूजितास् तम् अनुज्ञाप्य स्व-धामानि ययुर् नृप

10.75.027

हरि-दासस्य राजर्षे राजसूय-महोदयम् ।
नैवातृप्यन् प्रशंसन्तः पिबन् मर्त्यो ऽमृतं यथा

10.75.028

ततो युधिष्ठिरो राजा सुहृत्-सम्बन्धि-बान्धवान् ।
प्रेम्णा निवारयाम् आस कृष्णं च त्याग-कातरः

10.75.029

भगवान् अपि तत्राङ्ग न्यावात्सीत् तत्-प्रियं-करः ।
प्रस्थाप्य यदु-वीरांश् च साम्बादींश् च कुशस्थलीम्

10.75.030

इत्थं राजा धर्म-सुतो मनोरथ-महार्णवम् ।
सु-दुस्तरं समुत्तीर्य कृष्णेनासीद् गत-ज्वरः

10.75.031

एकदान्तः-पुरे तस्य वीक्ष्य दुर्योधनः श्रियम् ।
अतप्यद् राजसूयस्य महित्वं चाच्युतात्मनः

10.75.034

यस्मिंस् नरेन्द्र-दितिजेन्द्र-सुरेन्द्र-लक्ष्मीर् $ नाना विभान्ति किल विश्व-सृजोपकॢप्ताः &अम्प्;
ताभिः पतीन् द्रुपद-राज-सुतोपतस्थे % यस्यां विषक्त-हृदयः कुरु-राड् अतप्यत् ॥ भ्प्_10.75.032* ॥
यस्मिन् तदा मधु-पतेर् महिषी-सहस्रं $ श्रोणी-भरेण शनकैः क्वणद्-अङ्घ्रि-शोभम् &
यस्मिन् तदा मधु-पतेर् महिषी-सहस्रं $ श्रोणी-भरेण शनकैः क्वणद्-अङ्घ्रि-शोभम् &
मध्ये सु-चारु कुच-कुङ्कुम-शोण-हारं % श्रीमन्-मुखं प्रचल-कुण्डल-कुन्तलाढ्यम् ॥ भ्प्_10.75.033* ॥
सभायां मय-कॢप्तायां क्वापि धर्म-सुतो ऽधिराट् ।
वृतो ऽनुगैर् बन्धुभिश् च कृष्णेनापि स्व-चक्षुषा

10.75.035

आसीनः काञ्चने साक्षाद् आसने मघवान् इव ।
पारमेष्ठ्य-श्रीया जुष्टः स्तूयमानश् च वन्दिभिः

10.75.036

तत्र दुर्योधनो मानी परीतो भ्रातृभिर् नृप ।
किरीट-माली न्यविशद् असि-हस्तः क्षिपन् रुषा

10.75.037

स्थले ऽभ्यगृह्णाद् वस्त्रान्तं जलं मत्वा स्थले ऽपतत् ।
जले च स्थल-वद् भ्रान्त्या मय-माया-विमोहितः

10.75.038

जहास भीमस् तं दृष्ट्वा स्त्रियो नृपतयो परे ।
निवार्यमाणा अप्य् अङ्ग राज्ञा कृष्णानुमोदिताः

10.75.039

स व्रीडितो ऽवग्-वदनो रुषा ज्वलन् निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् ।
हा-हेति शब्दः सु-महान् अभूत् सताम् अजात-शत्रुर् विमना इवाभवत् ।
बभूव तूष्णीं भगवान् भुवो भरं समुज्जिहीर्षुर् भ्रमति स्म यद्-दृशा

10.75.040

एतत् ते ऽभिहितं राजन् यत् पृष्टो ऽहम् इह त्वया ।
सुयोधनस्य दौरात्म्यं राजसूये महा-क्रतौ

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc