भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.74

10.74.001

भ्प्_10.74.001।0 श्री-शुक उवाच
एवं युधिष्ठिरो राजा जरासन्ध-वधं विभोः ।
कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस् तम् अब्रवीत्

10.74.002

भ्प्_10.74.002।0 श्री-युधिष्ठिर उवाच
ये स्युस् त्रै-लोक्य-गुरवः सर्वे लोका महेश्वराः ।
वहन्ति दुर्लभं लब्द्वा शिरसैवानुशासनम्

10.74.003

स भवान् अरविन्दाक्षो दीनानाम् ईश-मानिनाम् ।
धत्ते ऽनुशासनं भूमंस् तद् अत्यन्त-विडम्बनम्

10.74.004

न ह्य् एकस्याद्वितीयस्य ब्रह्मणः परमात्मनः ।
कर्मभिर् वर्धते तेजो ह्रसते च यथा रवेः

10.74.005

न वै ते ऽजित भक्तानां ममाहम् इति माधव ।
त्वं तवेति च नाना-धीः पशूनाम् इव वैकृती

10.74.006

भ्प्_10.74.006।0 श्री-शुक उवाच
इत्य् उक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विजः ।
कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्म-वादिनः

10.74.007

द्वैपायनो भरद्वाजः सुमन्तुर् गोतमो ऽसितः ।
वसिष्ठश् च्यवनः कण्वो मैत्रेयः कवषस् त्रितः

10.74.008

विश्वामित्रो वामदेवः सुमतिर् जैमिनिः क्रतुः ।
पैलः पराशरो गर्गो वैशम्पायन एव च

10.74.009

अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरिः ।
वीतिहोत्रो मधुच्छन्दा वीरसेनो ऽकृतव्रणः

10.74.010

उपहूतास् तथा चान्ये द्रोण-भीष्म-कृपादयः ।
धृतराष्ट्रः सह-सुतो विदुरश् च महा-मतिः

10.74.011

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञ-दिदृक्षवः ।
तत्रेयुः सर्व-राजानो राज्ञां प्रकृतयो नृप

10.74.012

ततस् ते देव-यजनं ब्राह्मणाः स्वर्ण-लाङ्गलैः ।
कृष्ट्वा तत्र यथाम्नायं दीक्षयां चक्रिरे नृपम्

10.74.013

हैमाः किलोपकरणा वरुणस्य यथा पुरा ।
इन्द्रादयो लोक-पाला विरिञ्चि-भव-संयुताः

10.74.014

स-गणाः सिद्ध-गन्धर्वा विद्याधर-महोरगाः ।
मुनयो यक्ष-रक्षांसि खग-किन्नर-चारणाः

10.74.015

राजानश् च समाहूता राज-पत्न्यश् च सर्वशः ।
राजसूयं समीयुः स्म राज्ञः पाण्डु-सुतस्य वै ।
मेनिरे कृष्ण-भक्तस्य सूपपन्नम् अविस्मिताः

10.74.016

अयाजयन् महा-राजं याजका देव-वर्चसः ।
राजसूयेन विधि-वत् प्रचेतसम् इवामराः

10.74.017

सूत्ये ऽहन्य् अवनी-पालो याजकान् सदसस्-पतीन् ।
अपूजयन् महा-भागान् यथा-वत् सु-समाहितः

10.74.018

सदस्याग्र्यार्हणार्हं वै विमृशन्तः सभा-सदः ।
नाध्यगच्छन्न् अनैकान्त्यात् सहदेवस् तदाब्रवीत्

10.74.019

अर्हति ह्य् अच्युतः श्रैष्ठ्यं भगवान् सात्वतां पतिः ।
एष वै देवताः सर्वा देश-काल-धनादयः

10.74.020

यद्-आत्मकम् इदं विश्वं क्रतवश् च यद्-आत्मकाः ।
अग्निर् आहुतयो मन्त्रा साङ्ख्यं योगश् च यत्-परः

10.74.021

एक एवाद्वितीयो ऽसाव् ऐतद्-आत्म्यम् इदं जगत् ।
आत्मनात्माश्रयः सभ्याः सृजत्य् अवति हन्त्य् अजः

10.74.022

विविधानीह कर्माणि जनयन् यद्-अवेक्षया ।
ईहते यद् अयं सर्वः श्रेयो धर्मादि-लक्षणम्

10.74.023

तस्मात् कृष्णाय महते दीयतां परमार्हणम् ।
एवं चेत् सर्व-भूतानाम् आत्मनश् चार्हणं भवेत्

10.74.024

सर्व-भूतात्म-भूताय कृष्णायानन्य-दर्शिने ।
देयं शान्ताय पूर्णाय दत्तस्यानन्त्यम् इच्छता

10.74.025

इत्य् उक्त्वा सहदेवो ऽभूत् तूष्णीं कृष्णानुभाव-वित् ।
तच् छ्रुत्वा तुष्टुवुः सर्वे साधु साध्व् इति सत्तमाः

10.74.026

श्रुत्वा द्विजेरितं राजा ज्ञात्वा हार्दं सभा-सदाम् ।
समर्हयद् धृषीकेशं प्रीतः प्रणय-विह्वलः

10.74.027

तत्-पादाव् अवनिज्यापः शिरसा लोक-पावनीः ।
स-भार्यः सानुजामात्यः स-कुटुम्बो वहन् मुदा

10.74.028

वासोभिः पीत-कौषेयैर् भूषणैश् च महा-धनैः ।
अर्हयित्वाश्रु-पूर्णाक्षो नाशकत् समवेक्षितुम्

10.74.029

इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः ।
नमो जयेति नेमुस् तं निपेतुः पुष्प-वृष्टयः

10.74.031

इत्थं निशम्य दमघोष-सुतः स्व-पीठाद् $ उत्थाय कृष्ण-गुण-वर्णन-जात-मन्युः &अम्प्;
उत्क्षिप्य बाहुम् इदम् आह सदस्य् अमर्षी % संश्रावयन् भगवते परुषाण्य् अभीतः ॥ भ्प्_10.74.030* ॥
ईशो दुरत्ययः काल इति सत्यवती स्रुतिः ।
वृद्धानाम् अपि यद् बुद्धिर् बाल-वाक्यैर् विभिद्यते

10.74.032

यूयं पात्र-विदां श्रेष्ठा मा मन्ध्वं बाल-भाषीतम् ।
सदसस्-पतयः सर्वे कृष्णो यत् सम्मतो ऽर्हणे

10.74.033

तपो-विद्या-व्रत-धरान् ज्ञान-विध्वस्त-कल्मषान् ।
परमऋषीन् ब्रह्म-निष्ठांल् लोक-पालैश् च पूजितान्

10.74.034

सदस्-पतीन् अतिक्रम्य गोपालः कुल-पांसनः ।
यथा काकः पुरोडाशं सपर्यां कथम् अर्हति

10.74.035

वर्णाश्रम-कुलापेतः सर्व-धर्म-बहिष्-कृतः ।
स्वैर-वर्ती गुणैर् हीनः सपर्यां कथम् अर्हति

10.74.036

ययातिनैषां हि कुलं शप्तं सद्भिर् बहिष्-कृतम् ।
वृथा-पान-रतं शश्वत् सपर्यां कथम् अर्हति

10.74.037

ब्रह्मर्षि-सेवितान् देशान् हित्वैते ऽब्रह्म-वर्चसम् ।
समुद्रं दुर्गम् आश्रित्य बाधन्ते दस्यवः प्रजाः

10.74.038

एवम्-आदीन्य् अभद्राणि बभाषे नष्ट-मङ्गलः ।
नोवाच किञ्चिद् भगवान् यथा सिंहः शिवा-रुतम्

10.74.039

भगवन्-निन्दनं श्रुत्वा दुःसहं तत् सभा-सदः ।
कर्णौ पिधाय निर्जग्मुः शपन्तश् चेदि-पं रुषा

10.74.040

निन्दां भगवतः शृण्वंस् तत्-परस्य जनस्य वा ।
ततो नापैति यः सो ऽपि यात्य् अधः सुकृताच् च्युतः

10.74.041

ततः पाण्डु-सुताः क्रुद्धा मत्स्य-कैकय-सृञ्जयाः ।
उदायुधाः समुत्तस्थुः शिशुपाल-जिघांसवः

10.74.042

ततश् चैद्यस् त्व् असम्भ्रान्तो जगृहे खड्ग-चर्मणी ।
भर्त्सयन् कृष्ण-पक्षीयान् राज्ञः सदसि भारत

10.74.043

तावद् उत्थाय भगवान् स्वान् निवार्य स्वयं रुषा ।
शिरः क्षुरान्त-चक्रेण जहार पततो रिपोः

10.74.044

शब्दः कोलाहलो ऽथासीच् छिशुपाले हते महान् ।
तस्यानुयायिनो भूपा दुद्रुवुर् जीवितैषिणः

10.74.045

चैद्य-देहोत्थितं ज्योतिर् वासुदेवम् उपाविशत् ।
पश्यतां सर्व-भूतानाम् उल्केव भुवि खाच् च्युता

10.74.046

जन्म-त्रयानुगुणित- वैर-संरब्धया धिया ।
ध्यायंस् तन्-मयतां यातो भावो हि भव-कारणम्

10.74.047

ऋत्विग्भ्यः स-सदस्येभ्यो दक्षिनां विपुलाम् अदात् ।
सर्वान् सम्पूज्य विधि-वच् चक्रे ऽवभृथम् एक-राट्

10.74.048

साधयित्वा क्रतुः राज्ञः कृष्णो योगेश्वरेश्वरः ।
उवास कतिचिन् मासान् सुहृद्भिर् अभियाचितः

10.74.049

ततो ऽनुज्ञाप्य राजानम् अनिच्छन्तम् अपीश्वरः ।
ययौ स-भार्यः सामात्यः स्व-पुरं देवकी-सुतः

10.74.050

वर्णितं तद् उपाख्यानं मया ते बहु-विस्तरम् ।
वैकुण्ठ-वासिनोर् जन्म विप्र-शापात् पुनः पुनः

10.74.051

राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः ।
ब्रह्म-क्षत्र-सभा-मध्ये शुशुभे सुर-राड् इव

10.74.052

राज्ञा सभाजिताः सर्वे सुर-मानव-खेचराः ।
कृष्णं क्रतुं च शंसन्तः स्व-धामानि ययुर् मुदा

10.74.053

दुर्योधनम् ऋते पापं कलिं कुरु-कुलामयम् ।
यो न सेहे श्रीयं स्फीतां दृष्ट्वा पाण्डु-सुतस्य ताम्

10.74.054

य इदं कीर्तयेद् विष्णोः कर्म चैद्य-वधादिकम् ।
राज-मोक्षं वितानं च सर्व-पापैः प्रमुच्यते

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc