भागवत पुराण · अध्याय 10.73
भ्प्_10.73.001।0 श्री-शुक उवाच
अयुते द्वे शतान्य् अष्टौ निरुद्धा युधि निर्जिताः ।
ते निर्गता गिरिद्रोण्यां मलिना मल-वाससः
क्षुत्-क्षामाः शुष्क-वदनाः संरोध-परिकर्शिताः ।
ददृशुस् ते घन-श्यामं पीत-कौशेय-वाससम्
श्रीवत्साङ्कं चतुर्-बाहुं पद्म-गर्भारुणेक्षणम् ।
चारु-प्रसन्न-वदनं स्फुरन्-मकर-कुण्डलम्
पद्म-हस्तं गदा-शङ्ख रथाङ्गैर् उपलक्षितम् ।
किरीट-हार-कटक- कटि-सूत्राङ्गदाञ्चितम्
भ्राजद्-वर-मणि-ग्रीवं निवीतं वन-मालया ।
पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया
जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः ।
प्रणेमुर् हत-पाप्मानो मूर्धभिः पादयोर् हरेः
कृष्ण-सन्दर्शनाह्लाद ध्वस्त-संरोधन-क्लमाः ।
प्रशशंसुर् हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः
भ्प्_10.73.008।0 राजान ऊचुः
नमस् ते देव-देवेश प्रपन्नार्ति-हराव्यय ।
प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोर-संसृतेः
नैनं नाथानुसूयामो मागधं मधुसूदन ।
अनुग्रहो यद् भवतो राज्ञां राज्य-च्युतिर् विभो
राज्यैश्वर्य-मदोन्नद्धो न श्रेयो विन्दते नृपः ।
त्वन्-माया-मोहितो ऽनित्या मन्यते सम्पदो ऽचलाः
मृग-तृष्णां यथा बाला मन्यन्त उदकाशयम् ।
एवं वैकारिकीं मायाम् अयुक्ता वस्तु चक्षते
वयं पुरा श्री-मद-नष्ट-दृष्टयो जिगीषयास्या इतरेतर-स्पृधः ।
घ्नन्तः प्रजाः स्वा अति-निर्घृणाः प्रभो मृत्युं पुरस् त्वाविगणय्य दुर्मदाः
त एव कृष्णाद्य गभीर-रंहसा दुरन्ते-वीर्येण विचालिताः श्रियः ।
कालेन तन्वा भवतो ऽनुकम्पया विनष्ट-दर्पाश् चरणौ स्मराम ते
अथो न राज्यम् मृग-तृष्णि-रूपितं देहेन शश्वत् पतता रुजां भुवा ।
उपासितव्यं स्पृहयामहे विभो क्रिया-फलं प्रेत्य च कर्ण-रोचनम्
तं नः समादिशोपायं येन ते चरणाब्जयोः ।
स्मृतिर् यथा न विरमेद् अपि संसरताम् इह
कृष्णाय वासुदेवाय हरये परमात्मने ।
प्रणत-क्लेश-नाशाय गोविन्दाय नमो नमः
भ्प्_10.73.017।0 श्री-शुक उवाच
संस्तूयमानो भगवान् राजभिर् मुक्त-बन्धनैः ।
तान् आह करुणस् तात शरण्यः श्लक्ष्णया गिरा
भ्प्_10.73.018।0 श्री-भगवान् उवाच
अद्य प्रभृति वो भूपा मय्य् आत्मन्य् अखिलेश्वरे ।
सु-दृढा जायते भक्तिर् बाढम् आशंसितं तथा
दिष्ट्या व्यवसितं भूपा भवन्त ऋत-भाषिणः ।
श्रीय्-ऐश्वर्य-मदोन्नाहं पश्य उन्मादकं नृणाम्
हैहयो नहुषो वेणो रावणो नरको ऽपरे ।
श्री-मदाद् भ्रंशिताः स्थानाद् देव-दैत्य-नरेश्वराः
भवन्त एतद् विज्ञाय देहाद्य् उत्पाद्यम् अन्त-वत् ।
मां यजन्तो ऽध्वरैर् युक्ताः प्रजा धर्मेण रक्ष्यथ
सन्तन्वन्तः प्रजा-तन्तून् सुखं दुःखं भवाभवौ ।
प्राप्तं प्राप्तं च सेवन्तो मच्-चित्ता विचरिष्यथ
उदासीनाश् च देहादाव् आत्मारामा धृत-व्रताः ।
मय्य् आवेश्य मनः सम्यङ् माम् अन्ते ब्रह्म यास्यथ
भ्प्_10.73.024।0 श्री-शुक उवाच
इत्य् आदिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः ।
तेषां न्ययुङ्क्त पुरुषान् स्त्रियो मज्जन-कर्मणि
सपर्यां कारयाम् आस सहदेवेन भारत ।
नरदेवोचितैर् वस्त्रैर् भूषणैः स्रग्-विलेपनैः
भोजयित्वा वरान्नेन सु-स्नातान् समलङ्कृतान् ।
भोगैश् च विविधैर् युक्तांस् ताम्बूलाद्यैर् नृपोचितैः
ते पूजिता मुकुन्देन राजानो मृष्ट-कुण्डलाः ।
विरेजुर् मोचिताः क्लेशात् प्रावृड्-अन्ते यथा ग्रहाः
रथान् सद्-अश्वान् आरोप्य मणि-काञ्चन-भूषितान् ।
प्रीणय्य सुनृतैर् वाक्यैः स्व-देशान् प्रत्ययापयत्
त एवं मोचिताः कृच्छ्रात् कृष्णेन सु-महात्मना ।
ययुस् तम् एव ध्यायन्तः कृतानि च जगत्-पतेः
जगदुः प्रकृतिभ्यस् ते महा-पुरुष-चेष्टितम् ।
यथान्वशासद् भगवांस् तथा चक्रुर् अतन्द्रिताः
जरासन्धं घातयित्वा भीमसेनेन केशवः ।
पार्थाभ्यां संयुतः प्रायात् सहदेवेन पूजितः
गत्वा ते खाण्डव-प्रस्थं शङ्खान् दध्मुर् जितारयः ।
हर्षयन्तः स्व-सुहृदो दुर्हृदां चासुखावहाः
तच् छ्रुत्वा प्रीत-मनस इन्द्रप्रस्थ-निवासिनः ।
मेनिरे मागधं शान्तं राजा चाप्त-मनोरथः
अभिवन्द्याथ राजानं भीमार्जुन-जनार्दनाः ।
सर्वम् आश्रावयां चक्रुर् आत्मना यद् अनुष्ठितम्
निशम्य धर्म-राजस् तत् केशवेनानुकम्पितम् ।
आनन्दाश्रु-कलां मुञ्चन् प्रेम्णा नोवाच किञ्चन
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0