भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.72

10.72.001

भ्प्_10.72.001।0 श्री-शुक उवाच
एकदा तु सभा-मध्य आस्थितो मुनिभिर् वृतः ।
ब्राह्मणैः क्षत्रियैर् वैश्यैर् भ्रातृभिश् च युधिष्ठिरः

10.72.002

आचार्यैः कुल-वृद्धैश् च ज्ञाति-सम्बन्धि-बान्धवैः ।
शृण्वताम् एव चैतेषाम् आभाष्येदम् उवाच ह

10.72.003

भ्प्_10.72.003।0 श्री-युधिष्ठिर उवाच
क्रतु-राजेन गोविन्द राजसूयेन पावनीः ।
यक्ष्ये विभूतीर् भवतस् तत् सम्पादय नः प्रभो

10.72.007

त्वत्-पादुके अविरतं परि ये चरन्ति $ ध्यायन्त्य् अभद्र-नशने शुचयो गृणन्ति &अम्प्;
विन्दन्ति ते कमल-नाभ भवापवर्गम् % आशासते यदि त आशिष ईश नान्ये ॥ भ्प्_10.72.004* ॥
तद् देव-देव भवतश् चरणारविन्द- $ सेवानुभावम् इह पश्यतु लोक एषः &
तद् देव-देव भवतश् चरणारविन्द- $ सेवानुभावम् इह पश्यतु लोक एषः &
ये त्वां भजन्ति न भजन्त्य् उत वोभयेषां % निष्ठां प्रदर्शय विभो कुरु-सृञ्जयानाम् ॥ भ्प्_10.72.005* ॥
न ब्रह्मणः स्व-पर-भेद-मतिस् तव स्यात् $ सर्वात्मनः सम-दृशः स्व-सुखानुभूतेः &
न ब्रह्मणः स्व-पर-भेद-मतिस् तव स्यात् $ सर्वात्मनः सम-दृशः स्व-सुखानुभूतेः &
संसेवतां सुर-तरोर् इव ते प्रसादः % सेवानुरूपम् उदयो न विपर्ययो ऽत्र ॥ भ्प्_10.72.006*
0 श्री-भगवान् उवाच
सम्यग् व्यवसितं राजन् भवता शत्रु-कर्शन ।
कल्याणी येन ते कीर्तिर् लोकान् अनुभविष्यति

10.72.008

ऋषीणां पितृ-देवानां सुहृदाम् अपि नः प्रभो ।
सर्वेषाम् अपि भूतानाम् ईप्सितः क्रतु-राड् अयम्

10.72.009

विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे ।
सम्भृत्य सर्व-सम्भारान् आहरस्व महा-क्रतुम्

10.72.010

एते ते भ्रातरो राजंल् लोक-पालांश-सम्भवाः ।
जितो ऽस्म्य् आत्मवता ते ऽहं दुर्जयो यो ऽकृतात्मभिः

10.72.011

न कश्चिन् मत्-परं लोके तेजसा यशसा श्रिया ।
विभूतिभिर् वाभिभवेद् देवो ऽपि किम् उ पार्थिवः

10.72.012

भ्प्_10.72.012।0 श्री-शुक उवाच
निशम्य भगवद्-गीतं प्रीतः फुल्ल-मुखाम्बुजः ।
भ्रातॄन् दिग्-विजये ऽयुङ्क्त विष्णु-तेजोपबृंहितान्

10.72.013

सहदेवं दक्षिणस्याम् आदिशत् सह सृञ्जयैः ।
दिशि प्रतीच्यां नकुलम् उदीच्यां सव्यसाचिनम् ।
प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः

10.72.014

ते विजित्य नृपान् वीरा आजह्रुर् दिग्भ्य ओजसा ।
अजात-शत्रवे भूरि द्रविणं नृप यक्ष्यते

10.72.015

श्रुत्वाजितं जरासन्धं नृपतेर् ध्यायतो हरिः ।
आहोपायं तम् एवाद्य उद्धवो यम् उवाच ह

10.72.016

भीमसेनो ऽर्जुनः कृष्णो ब्रह्म-लिन्ग-धरास् त्रयः ।
जग्मुर् गिरिव्रजं तात बृहद्रथ-सुतो यतः

10.72.017

ते गत्वातिथ्य-वेलायां गृहेषु गृह-मेधिनम् ।
ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्म-लिङ्गिनः

10.72.018

राजन् विद्ध्य् अतिथीन् प्राप्तान् अर्थिनो दूरम् आगतान् ।
तन् नः प्रयच्छ भद्रं ते यद् वयं कामयामहे

10.72.019

किं दुर्मर्षं तितिक्षूणां किम् अकार्यम् असाधुभिः ।
किं न देयं वदान्यानां कः परः सम-दर्शिनाम्

10.72.020

यो ऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् ।
नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः

10.72.021

हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर् बलिः ।
व्याधः कपोतो बहवो ह्य् अध्रुवेण ध्रुवं गताः

10.72.022

भ्प्_10.72.022।0 श्री-शुक उवाच
स्वरैर् आकृतिभिस् तांस् तु प्रकोष्ठैर् ज्या-हतैर् अपि ।
राजन्य-बन्धून् विज्ञाय दृष्ट-पूर्वान् अचिन्तयत्

10.72.023

राजन्य-बन्धवो ह्य् एते ब्रह्म-लिङ्गानि बिभ्रति ।
ददानि भिक्षितं तेभ्य आत्मानम् अपि दुस्त्यजम्

10.72.024

बलेर् नु श्रूयते कीर्तिर् वितता दिक्ष्व् अकल्मषा ।
ऐश्वर्याद् भ्रंशितस्यापि विप्र-व्याजेन विष्णुना

10.72.025

श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विज-रूपिणे ।
जानन्न् अपि महीम् प्रादाद् वार्यमाणो ऽपि दैत्य-राट्

10.72.026

जीवता ब्राह्मणार्थाय को न्व् अर्थः क्षत्र-बन्धुना ।
देहेन पतमानेन नेहता विपुलं यशः

10.72.027

इत्य् उदार-मतिः प्राह कृष्णार्जुन-वृकोदरान् ।
हे विप्रा व्रियतां कामो ददाम्य् आत्म-शिरो ऽपि वः

10.72.028

भ्प्_10.72.028।0 श्री-भगवान् उवाच
युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे ।
युद्धार्थिनो वयं प्राप्ता राजन्या नान्य-काङ्क्षिणः

10.72.029

असौ वृकोदरः पार्थस् तस्य भ्रातार्जुनो ह्य् अयम् ।
अनयोर् मातुलेयं मां कृष्णं जानीहि ते रिपुम्

10.72.030

एवम् आवेदितो राजा जहासोच्चैः स्म मागधः ।
आह चामर्षितो मन्दा युद्धं तर्हि ददामि वः

10.72.031

न त्वया भीरुणा योत्स्ये युधि विक्लव-तेजसा ।
मथुरां स्व-पुरीं त्यक्त्वा समुद्रं शरणं गतः

10.72.032

अयं तु वयसातुल्यो नाति-सत्त्वो न मे समः ।
अर्जुनो न भवेद् योद्धा भीमस् तुल्य-बलो मम

10.72.033

इत्य् उक्त्वा भीमसेनाय प्रादाय महतीं गदाम् ।
द्वितीयां स्वयम् आदाय निर्जगाम पुराद् बहिः

10.72.034

ततः समेखले वीरौ संयुक्ताव् इतरेतरम् ।
जघ्नतुर् वज्र-कल्पाभ्यां गदाभ्यां रण-दुर्मदौ

10.72.035

मण्डलानि विचित्राणि सव्यं दक्षिणम् एव च ।
चरतोः शुशुभे युद्धं नटयोर् इव रङ्गिणोः

10.72.036

ततश् चट-चटा-शब्दो वज्र-निष्पेस-सन्निभः ।
गदयोः क्षिप्तयो राजन् दन्तयोर् इव दन्तिनोः

10.72.039

ते वै गदे भुज-जवेन निपात्यमाने $ अन्योन्यतो ऽंस-कटि-पाद-करोरु-जत्रुम् &अम्प्;
चूर्णी-बभूवतुर् उपेत्य यथार्क-शाखे % संयुध्यतोर् द्विरदयोर् इव दीप्त-मन्व्योः ॥ भ्प्_10.72.037* ॥
इत्थं तयोः प्रहतयोर् गदयोर् नृ-वीरौ $ क्रुद्धौ स्व-मुष्टिभिर् अयः-स्परशैर् अपिष्टाम् &
इत्थं तयोः प्रहतयोर् गदयोर् नृ-वीरौ $ क्रुद्धौ स्व-मुष्टिभिर् अयः-स्परशैर् अपिष्टाम् &
शब्दस् तयोः प्रहरतोर् इभयोर् इवासीन् % निर्घात-वज्र-परुषस् तल-ताडनोत्थः ॥ भ्प्_10.72.038* ॥
तयोर् एवं प्रहरतोः सम-शिक्षा-बलौजसोः ।
निर्विशेषम् अभूद् युद्धम् अक्षीण-जवयोर् नृप

10.72.040

शत्रोर् जन्म-मृती विद्वाञ् जीवितं च जरा-कृतम् ।
पार्थम् आप्याययन् स्वेन तेजसाचिन्तयद् धरिः

10.72.041

सञ्चिन्त्यारी-वधोपायं भीमस्यामोघ-दर्शनः ।
दर्शयाम् आस विटपं पाटयन्न् इव संज्ञया

10.72.042

तद् विज्ञाय महा-सत्त्वो भीमः प्रहरतां वरः ।
गृहीत्वा पादयोः शत्रुं पातयाम् आस भू-तले

10.72.043

एकम् पादं पदाक्रम्य दोर्भ्याम् अन्यं प्रगृह्य सः ।
गुदतः पाटयाम् आस शाखम् इव महा-गजः

10.72.044

एक-पादोरु-वृषण- कटि-पृष्ठ-स्तनांसके ।
एक-बाह्व्-अक्षि-भ्रू-कर्णे शकले ददृशुः प्रजाः

10.72.045

हाहा-कारो महान् आसीन् निहते मगधेश्वरे ।
पूजयाम् आसतुर् भीमं परिरभ्य जयाच्यतौ

10.72.046

सहदेवं तत्-तनयं भगवान् भूत-भावनः ।
अभ्यषिञ्चद् अमेयात्मा मगधानां पतिं प्रभुः ।
मोचयाम् आस राजन्यान् संरुद्धा मागधेन ये

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc