भागवत पुराण · अध्याय 10.71
भ्प्_10.71.001।0 श्री-शुक उवाच
इत्य् उदीरितम् आकर्ण्य देवऋषेर् उद्धवो ऽब्रवीत् ।
सभ्यानां मतम् आज्ञाय कृष्णस्य च महा-मतिः
भ्प्_10.71.002।0 श्री-उद्धव उवाच
यद् उक्तम् ऋषिना देव साचिव्यं यक्ष्यतस् त्वया ।
कार्यं पैतृ-ष्वस्रेयस्य रक्षा च शरणैषिणाम्
यष्टव्यम् राजसूयेन दिक्-चक्र-जयिना विभो ।
अतो जरा-सुत-जय उभयार्थो मतो मम
अस्माकं च महान् अर्थो ह्य् एतेनैव भविष्यति ।
यशश् च तव गोविन्द राज्ञो बद्धान् विमुञ्चतः
स वै दुर्विषहो राजा नागायुत-समो बले ।
बलिनाम् अपि चान्येषां भीमं सम-बलं विना
द्वै-रथे स तु जेतव्यो मा शताक्षौहिणी-युतः ।
ब्राह्मण्यो ऽभ्यर्थितो विप्रैर् न प्रत्याख्याति कर्हिचित्
ब्रह्म-वेष-धरो गत्वा तं भिक्षेत वृकोदरः ।
हनिष्यति न सन्देहो द्वै-रथे तव सन्निधौ
निमित्तं परम् ईशस्य विश्व-सर्ग-निरोधयोः ।
हिरण्यगर्भः शर्वश् च कालस्यारूपिणस् तव
गायन्ति ते विशद-कर्म गृहेषु देव्यो $ राज्ञां स्व-शत्रु-वधम् आत्म-विमोक्षणं च &अम्प्;
गोप्यश् च कुञ्जर-पतेर् जनकात्मजायाः % पित्रोश् च लब्ध-शरणा मुनयो वयं च ॥ भ्प्_10.71.009* ॥
जरासन्ध-वधः कृष्ण भूर्य्-अर्थायोपकल्पते ।
प्रायः पाक-विपाकेन तव चाभिमतः क्रतुः
भ्प्_10.71.011।0 श्री-शुक उवाच
इत्य् उद्धव-वचो राजन् सर्वतो-भद्रम् अच्युतम् ।
देवर्षिर् यदु-वृद्धाश् च कृष्णश् च प्रत्यपूजयन्
अथादिशत् प्रयाणाय भगवान् देवकी-सुतः ।
भृत्यान् दारुक-जैत्रादीन् अनुज्ञाप्य गुरून् विभुः
निर्गमय्यावरोधान् स्वान् स-सुतान् स-परिच्छदान् ।
सङ्कर्षणम् अनुज्ञाप्य यदु-राजं च शत्रु-हन् ।
सूतोपनीतं स्व-रथम् आरुहद् गरुड-ध्वजम्
ततो रथ-द्विप-भट-सादि-नायकैः $ करालया परिवृत आत्म-सेनया &अम्प्;
मृदङ्ग-भेर्य्-आनक-शङ्ख-गोमुखैः % प्रघोष-घोषित-ककुभो निरक्रमत् ॥ भ्प्_10.71.014* ॥
नृ-वाजि-काञ्चन-शिबिकाभिर् अच्युतं सहात्मजाः पतिम् अनु सु-व्रता ययुः ।
वराम्बराभरण-विलेपन-स्रजः सु-संवृता नृभिर् असि-चर्म-पाणिभिः
नरोष्ट्र-गो-महिष-खराश्वतर्य्-अनः $ करेणुभिः परिजन-वार-योषितः &अम्प्;
स्व्-अलङ्कृताः कट-कुटि-कम्बलाम्बराद्य्- % उपस्करा ययुर् अधियुज्य सर्वतः ॥ भ्प्_10.71.016* ॥
बलं बृहद्-ध्वज-पट-छत्र-चामरैर् $ वरायुधाभरण-किरीट-वर्मभिः &
बलं बृहद्-ध्वज-पट-छत्र-चामरैर् $ वरायुधाभरण-किरीट-वर्मभिः &
दिवांशुभिस् तुमुल-रवं बभौ रवेर् % यथार्णवः क्षुभित-तिमिङ्गिलोर्मिभिः ॥ भ्प्_10.71.017* ॥
अथो मुनिर् यदु-पतिना सभाजितः प्रणम्य तं हृदि विदधद् विहायसा ।
निशम्य तद्-व्यवसितम् आहृतार्हणो मुकुन्द-सन्दरशन-निर्वृतेन्द्रियः
राज-दूतम् उवाचेदं भगवान् प्रीणयन् गिरा ।
मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम्
इत्य् उक्तः प्रस्थितो दूतो यथा-वद् अवदन् नृपान् ।
ते ऽपि सन्दर्शनं शौरेः प्रत्यैक्षन् यन् मुमुक्षवः
आनर्त-सौवीर-मरूंस् तीर्त्वा विनशनं हरिः ।
गिरीन् नदीर् अतीयाय पुर-ग्राम-व्रजाकरान्
ततो दृषद्वतीं तीर्त्वा मुकुन्दो ऽथ सरस्वतीम् ।
पञ्चालान् अथ मत्स्यांश् च शक्र-प्रस्थम् अथागमत्
तम् उपागतम् आकर्ण्य प्रीतो दुर्दर्शनं नृनाम् ।
अजात-शत्रुर् निरगात् सोपध्यायः सुहृद्-वृतः
गीत-वादित्र-घोषेण ब्रह्म-घोषेण भूयसा ।
अभ्ययात् स हृषीकेशं प्राणाः प्राणम् इवादृतः
दृष्ट्वा विक्लिन्न-हृदयः कृष्णं स्नेहेन पाण्डवः ।
चिराद् दृष्टं प्रियतमं सस्वजे ऽथ पुनः पुनः
दोर्भ्यां परिष्वज्य रमामलालयं मुकुन्द-गात्रं नृ-पतिर् हताशुभः ।
लेभे परां निर्वृतिम् अश्रु-लोचनो हृष्यत्-तनुर् विस्मृत-लोक-विभ्रमः
तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन् प्रेम-जलाकुलेन्द्रियः ।
यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्ध-बाष्पाः परिरेभिरे ऽच्युतम्
अर्जुनेन परिष्वक्तो यमाभ्याम् अभिवादितः ।
ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश् च यथार्हतः ।
मानिनो मानयाम् आस कुरु-सृञ्जय-कैकयान्
सूत-मागध-गन्धर्वा वन्दिनश् चोपमन्त्रिणः ।
मृदङ्ग-शङ्ख-पटह वीणा-पणव-गोमुखैः ।
ब्राह्मणाश् चारविन्दाक्षं तुष्टुवुर् ननृतुर् जगुः
एवं सुहृद्भिः पर्यस्तः पुण्य-श्लोक-शिखामणिः ।
संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम्
संसिक्त-वर्त्म करिणां मद-गन्ध-तोयैश् $ चित्र-ध्वजैः कनक-तोरण-पूर्ण-कुम्भैः &अम्प्;
मृष्टात्मभिर् नव-दुकूल-विभूषण-स्रग्- % गन्धैर् नृभिर् युवतिभिश् च विराजमानम् ॥ भ्प्_10.71.031* ॥
उद्दीप्त-दीप-बलिभिः प्रति-सद्म जाल $ निर्यात-धूप-रुचिरं विलसत्-पताकम् &
उद्दीप्त-दीप-बलिभिः प्रति-सद्म जाल $ निर्यात-धूप-रुचिरं विलसत्-पताकम् &
मूर्धन्य-हेम-कलशै रजतोरु-शृङ्गैर् % जुष्टं ददर्श भवनैः कुरु-राज-धाम ॥ भ्प्_10.71.032* ॥
प्राप्तं निशम्य नर-लोचन-पान-पात्रम् $ औत्सुक्य-विश्लथित-केश-दुकूल-बन्धाः &
प्राप्तं निशम्य नर-लोचन-पान-पात्रम् $ औत्सुक्य-विश्लथित-केश-दुकूल-बन्धाः &
सद्यो विसृज्य गृह-कर्म पतींश् च तल्पे % द्रष्टुं ययुर् युवतयः स्म नरेन्द्र-मार्गे ॥ भ्प्_10.71.033* ॥
तस्मिन् सु-सङ्कुल इभाश्व-रथ-द्विपद्भिः $ कृष्णम् स-भार्यम् उपलभ्य गृहाधिरूढाः &
तस्मिन् सु-सङ्कुल इभाश्व-रथ-द्विपद्भिः $ कृष्णम् स-भार्यम् उपलभ्य गृहाधिरूढाः &
नार्यो विकीर्य कुसुमैर् मनसोपगुह्य % सु-स्वागतं विदधुर् उत्स्मय-वीक्षितेन ॥ भ्प्_10.71.034* ॥
ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्द-पत्नीस् $ तारा यथोडुप-सहाः किम् अकार्य् अमूभिः &
ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्द-पत्नीस् $ तारा यथोडुप-सहाः किम् अकार्य् अमूभिः &
यच् चक्षुषां पुरुष-मौलिर् उदार-हास % लीलावलोक-कलयोत्सवम् आतनोति ॥ भ्प्_10.71.035* ॥
तत्र तत्रोपसङ्गम्य पौरा मङ्गल-पाणयः ।
चक्रुः सपर्यां कृष्णाय श्रेणी-मुख्या हतैनसः
अन्तः-पुर-जनैः प्रीत्या मुकुन्दः फुल्ल-लोचनैः ।
स-सम्भ्रमैर् अभ्युपेतः प्राविशद् राज-मन्दिरम्
पृथा विलोक्य भ्रात्रेयं कृष्णं त्रि-भुवनेश्वरम् ।
प्रीतात्मोत्थाय पर्यङ्कात् स-स्नुषा परिषस्वजे
गोविन्दं गृहम् आनीय देव-देवेशम् आदृतः ।
पूजायां नाविदत् कृत्यं प्रमोदोपहतो नृपः
पितृ-स्वसुर् गुरु-स्त्रीणां कृष्णश् चक्रे ऽभिवादनम् ।
स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः
श्वशृवा सञ्चोदिता कृष्णा कृष्ण-पत्नीश् च सर्वशः ।
आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा
कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् ।
अन्याश् चाभ्यागता यास् तु वासः-स्रङ्-मण्डनादिभिः
सुखं निवासयाम् आस धर्म-राजो जनार्दनम् ।
स-सैन्यं सानुगामत्यं स-भार्यं च नवं नवम्
तर्पयित्वा खाण्डवेन वह्निं फाल्गुन-संयुतः ।
मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता
उवास कतिचिन् मासान् राज्ञः प्रिय-चिकीर्षया ।
विहरन् रथम् आरुह्य फाल्गुनेन भटैर् वृतः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0