भागवत पुराण · अध्याय 10.70
यानीह विश्व-विलयोद्भव-वृत्ति-हेतुः $ कर्माण्य् अनन्य-विषयाणि हरीश् चकार &अम्प्;
यस् त्व् अङ्ग गायति शृणोत्य् अनुमोदते वा % भक्तिर् भवेद् भगवति ह्य् अपवर्ग-मार्गे ॥ भ्प्_10.69.045*
0 श्री-शुक उवाच
अथोषस्य् उपवृत्तायां कुक्कुटान् कूजतो ऽशपन् ।
गृहीत-कण्ठ्यः पतिभिर् माधव्यो विरहातुराः
वयांस्य् अरोरुवन् कृष्णं बोधयन्तीव वन्दिनः ।
गायत्स्व् अलिष्व् अनिद्राणि मन्दार-वन-वायुभिः
मुहूर्तं तं तु वैदर्भी नामृष्यद् अति-शोभनम् ।
परिरम्भण-विश्लेषात् प्रिय-बाह्व्-अन्तरं गता
ब्राह्मे मुहूर्त उत्थाय वार्य् उपस्पृश्य माधवः ।
दध्यौ प्रसन्न-करण आत्मानं तमसः परम्
एकं स्वयं-ज्योतिर् अनन्यम् अव्ययं स्व-संस्थया नित्य-निरस्त-कल्मषम् ।
ब्रह्माख्यम् अस्योद्भव-नाश-हेतुभिः स्व-शक्तिभिर् लक्षित-भाव-निर्वृतिम्
अथाप्लुतो ऽम्भस्य् अमले यथा-विधि $ क्रिया-कलापं परिधाय वाससी &अम्प्;
चकार सन्ध्योपगमादि सत्तमो % हुतानलो ब्रह्म जजाप वाग्-यतः ॥ भ्प्_10.70.006* ॥
उपस्थायार्कम् उद्यन्तं तर्पयित्वात्मनः कलाः ।
देवान् ऋषीन् पितॄन् वृद्धान् विप्रान् अभ्यर्च्य चात्मवान्
धेनूनां रुक्म-शृङ्गीनां साध्वीनां मौक्तिक-स्रजाम् ।
पयस्विनीनां गृष्टीनां स-वत्सानां सु-वाससाम्
ददौ रूप्य-खुराग्राणां क्षौमाजिन-तिलैः सह ।
अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने
गो-विप्र-देवता-वृद्ध- गुरून् भूतानि सर्वशः ।
नमस्कृत्यात्म-सम्भूतीर् मङ्गलानि समस्पृशत्
आत्मानं भूषयाम् आस नर-लोक-विभूषणम् ।
वासोभिर् भूषणैः स्वीयैर् दिव्य-स्रग्-अनुलेपनैः
अवेक्ष्याज्यं तथादर्शं गो-वृष-द्विज-देवताः ।
कामांश् च सर्व-वर्णानां पौरान्तः-पुर-चारिणाम् ।
प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत
संविभज्याग्रतो विप्रान् स्रक्-ताम्बूलानुलेपनैः ।
सुहृदः प्रकृतीर् दारान् उपायुङ्क्त ततः स्वयम्
तावत् सूत उपानीय स्यन्दनं परमाद्भुतम् ।
सुग्रीवाद्यैर् हयैर् युक्तं प्रणम्यावस्थितो ऽग्रतः
गृहीत्वा पाणिना पाणी सारथेस् तम् अथारुहत् ।
सात्यक्य्-उद्धव-संयुक्तः पूर्वाद्रिम् इव भास्करः
ईक्षितो ऽन्तः-पुर-स्त्रीणां स-व्रीड-प्रेम-वीक्षितैः ।
कृच्छ्राद् विसृष्टो निरगाज् जात-हासो हरन् मनः
सुधर्माख्यां सभां सर्वैर् वृष्णिभिः परिवारितः ।
प्राविशद् यन्-निविष्टानां न सन्त्य् अङ्ग षड् ऊर्मयः
तत्रोपविस्तः परमासने विभुर् बभौ स्व-भासा ककुभो ऽवभासयन् ।
वृतो नृ-सिंहैर् यदुभिर् यदूत्तमो यथोडु-राजो दिवि तारका-गणैः
तत्रोपमन्त्रिणो राजन् नाना-हास्य-रसैर् विभुम् ।
उपतस्थुर् नटाचार्या नर्तक्यस् ताण्डवैः पृथक्
मृदङ्ग-वीणा-मुरज- वेणु-ताल-दर-स्वनैः ।
ननृतुर् जगुस् तुष्टुवुश् च सूत-मागध-वन्दिनः
तत्राहुर् ब्राह्मणाः केचिद् आसीना ब्रह्म-वादिनः ।
पूर्वेषां पुण्य-यशसां राज्ञां चाकथयन् कथाः
तत्रैकः पुरुषो राजन्न् आगतो ऽपूर्व-दर्शनः ।
विज्ञापितो भगवते प्रतीहारैः प्रवेशितः
स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः ।
राज्ञाम् आवेदयद् दुःखं जरासन्ध-निरोध-जम्
ये च दिग्-विजये तस्य सन्नतिं न ययुर् नृपाः ।
प्रसह्य रुद्धास् तेनासन्न् अयुते द्वे गिरिव्रजे
भ्प्_10.70.025।0 राजान ऊचुः
कृष्ण कृष्णाप्रमेयात्मन् प्रपन्न-भय-भञ्जन ।
वयं त्वां शरणं यामो भव-भीताः पृथग्-धियः
लोको विकर्म-निरतः कुशले प्रमत्तः $ कर्मण्य् अयं त्वद्-उदिते भवद्-अर्चने स्वे &अम्प्;
यस् तावद् अस्य बलवान् इह जीविताशां % सद्यश् छिनत्त्य् अनिमिषाय नमो ऽस्तु तस्मै ॥ भ्प्_10.70.026* ॥
लोके भवाञ् जगद्-इनः कलयावतीर्णः $ सद्-रक्षणाय खल-निग्रहणाय चान्यः &
लोके भवाञ् जगद्-इनः कलयावतीर्णः $ सद्-रक्षणाय खल-निग्रहणाय चान्यः &
कश्चित् त्वदीयम् अतियाति निदेशम् ईश % किं वा जनः स्व-कृतम् ऋच्छति तन् न विद्मः ॥ भ्प्_10.70.027* ॥
स्वप्नायितं नृप-सुखं पर-तन्त्रम् ईश $ शश्वद्-भयेन मृतकेन धुरं वहामः &
स्वप्नायितं नृप-सुखं पर-तन्त्रम् ईश $ शश्वद्-भयेन मृतकेन धुरं वहामः &
हित्वा तद् आत्मनि सुखं त्वद्-अनीह-लभ्यं % क्लिश्यामहे ऽति-कृपणास् तव माययेह ॥ भ्प्_10.70.028* ॥
तन् नो भवान् प्रणत-शोक-हराङ्घ्रि-युग्मो $ बद्धान् वियुङ्क्ष्व मगधाह्वय-कर्म-पाशात् &
तन् नो भवान् प्रणत-शोक-हराङ्घ्रि-युग्मो $ बद्धान् वियुङ्क्ष्व मगधाह्वय-कर्म-पाशात् &
यो भू-भुजो ऽयुत-मतङ्गज-वीर्यम् एको % बिभ्रद् रुरोध भवने मृग-राड् इवावीः ॥ भ्प्_10.70.029* ॥
यो वै त्वया द्वि-नव-कृत्व उदात्त-चक्र $ भग्नो मृधे खलु भवन्तम् अनन्त-वीर्यम् &
यो वै त्वया द्वि-नव-कृत्व उदात्त-चक्र $ भग्नो मृधे खलु भवन्तम् अनन्त-वीर्यम् &
जित्वा नृ-लोक-निरतं सकृद् ऊढ-दर्पो % युष्मत्-प्रजा रुजति नो ऽजित तद् विधेहि ॥ भ्प्_10.70.030*
0 दूत उवाच
इति मागध-संरुद्धा भवद्-दर्शन-कङ्क्षिणः ।
प्रपन्नाः पाद-मूलं ते दीनानां शं विधीयताम्
भ्प्_10.70.032।0 श्री-शुक उवाच
राज-दूते ब्रुवत्य् एवं देवर्षिः परम-द्युतिः ।
बिभ्रत् पिङ्ग-जटा-भारं प्रादुरासीद् यथा रविः
तं दृष्ट्वा भगवान् कृष्णः सर्व-लोकेश्वरेश्वरः ।
ववन्द उत्थितः शीर्ष्णा स-सभ्यः सानुगो मुदा
सभाजयित्वा विधि-वत् कृतासन-परिग्रहम् ।
बभाषे सुनृतैर् वाक्यैः श्रद्धया तर्पयन् मुनिम्
अपि स्विद् अद्य लोकानां त्रयाणाम् अकुतो-भयम् ।
ननु भूयान् भगवतो लोकान् पर्यटतो गुणः
न हि ते ऽविदितं किञ्चिल् लोकेष्व् ईश्वर-कर्तृषु ।
अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम्
भ्प्_10.70.037।0 श्री-नारद उवाच
दृष्टा माया ते बहुशो दुरत्यया माया विभो विश्व-सृजश् च मायिनः ।
भूतेषु भूमंश् चरतः स्व-शक्तिभिर् वह्नेर् इव च्छन्न-रुचो न मे ऽद्भुतम्
तवेहितं को ऽर्हति साधु वेदितुं स्व-माययेदं सृजतो नियच्छतः ।
यद् विद्यमानात्मतयावभासते तस्मै नमस् ते स्व-विलक्षणात्मने
जीवस्य यः संसरतो विमोक्षणं न जानतो ऽनर्थ-वहाच् छरीरतः ।
लीलावतारैः स्व-यशः प्रदीपकं प्राज्वालयत् त्वा तम् अहं प्रपद्ये
अथाप्य् आश्रावये ब्रह्म नर-लोक-विडम्बनम् ।
राज्ञः पैतृ-ष्वस्रेयस्य भक्तस्य च चिकीर्षितम्
यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः ।
पारमेष्ठ्य-कामो नृपतिस् तद् भवान् अनुमोदताम्
तस्मिन् देव क्रतु-वरे भवन्तं वै सुरादयः ।
दिदृक्षवः समेष्यन्ति राजानश् च यशस्विनः
श्रवणात् कीर्तनाद् ध्यानात् पूयन्ते ऽन्ते-वसायिनः ।
तव ब्रह्म-मयस्येश किम् उतेक्षाभिमर्शिनः
यस्यामलं दिवि यशः प्रथितं रसायां $ भूमौ च ते भुवन-मङ्गल दिग्-वितानम् &अम्प्;
मन्दाकिनीति दिवि भोगवतीति चाधो % गङ्गेति चेह चरणाम्बु पुनाति विश्वम् ॥ भ्प्_10.70.044*
0 श्री-शुक उवाच
तत्र तेष्व् आत्म-पक्षेष्व् अ- गृणत्सु विजिगीषया ।
वाचः पेशैः स्मयन् भृत्यम् उद्धवं प्राह केशवः
भ्प्_10.70.046।0 श्री-भगवान् उवाच
त्वं हि नः परमं चक्षुः सुहृन् मन्त्रार्थ-तत्त्व-वित् ।
अथात्र ब्रूह्य् अनुष्ठेयं श्रद्दध्मः करवाम तत्
इत्य् उपामन्त्रितो भर्त्रा सर्व-ज्ञेनापि मुग्ध-वत् ।
निदेशं शिरसाधाय उद्धवः प्रत्यभाषत
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0