भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.69

10.69.001

भ्प्_10.69.001।0 श्री-शुक उवाच
नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् ।
कृष्णेनैकेन बह्वीनां तद्-दिदृक्षुः स्म नारदः

10.69.002

चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् ।
गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत्

10.69.003

इत्य् उत्सुको द्वारवतीं देवर्षिर् द्रष्टुम् आगमत् ।
पुष्पितोपवनाराम- द्विजालि-कुल-नादिताम्

10.69.004

उत्फुल्लेन्दीवराम्भोज- कह्लार-कुमुदोत्पलैः ।
छुरितेषु सरःसूच्चैः कूजितां हंस-सारसैः

10.69.005

प्रासाद-लक्षैर् नवभिर् जुष्टां स्फाटिक-राजतैः ।
महा-मरकत-प्रख्यैः स्वर्ण-रत्न-परिच्छदैः

10.69.006

विभक्त-रथ्या-पथ-चत्वरापणैः शाला-सभाभी रुचिरां सुरालयैः ।
संसिक्त-मार्गाङ्गन-वीथि-देहलीं पतत्-पताक-ध्वज-वारितातपाम्

10.69.007

तस्याम् अन्तः-पुरं श्रीमद् अर्चितं सर्व-धिष्ण्य-पैः ।
हरेः स्व-कौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम्

10.69.008

तत्र षोडशभिः सद्म- सहस्रैः समलङ्कृतम् ।
विवेशैकतोमं शौरेः पत्नीनां भवनं महत्

10.69.009

विष्टब्धं विद्रुम-स्तम्भैर् वैदूर्य-फलकोत्तमैः ।
इन्द्रनील-मयैः कुड्यैर् जगत्या चाहत-त्विषा

10.69.010

वितानैर् निर्मितैस् त्वष्ट्रा मुक्ता-दाम-विलम्बिभिः ।
दान्तैर् आसन-पर्यङ्कैर् मण्य्-उत्तम-परिष्कृतैः

10.69.011

दासीभिर् निष्क-कण्ठीभिः सु-वासोभिर् अलङ्कृतम् ।
पुम्भिः स-कञ्चुकोष्णीष सु-वस्त्र-मणि-कुण्डलैः

10.69.012

रत्न-प्रदीप-निकर-द्युतिभिर् निरस्त- ध्वान्तं विचित्र-वलभीषु शिखण्डिनो ऽङ्ग ।
नृत्यन्ति यत्र विहितागुरु-धूपम् अक्षैर् निर्यान्तम् ईक्ष्य घन-बुद्धय उन्नदन्तः

10.69.017

तस्मिन् समान-गुण-रूप-वयः-सु-वेष- $ दासी-सहस्र-युतयानुसवं गृहिण्या &अम्प्;
विप्रो ददर्श चमर-व्यजनेन रुक्म- % दण्डेन सात्वत-पतिं परिवीजयन्त्या ॥ भ्प्_10.69.013* ॥
तं सन्निरीक्ष्य भगवान् सहसोत्थित-श्री- $ पर्यङ्कतः सकल-धर्म-भृतां वरिष्ठः &
तं सन्निरीक्ष्य भगवान् सहसोत्थित-श्री- $ पर्यङ्कतः सकल-धर्म-भृतां वरिष्ठः &
आनम्य पाद-युगलं शिरसा किरीट- % जुष्टेन साञ्जलिर् अवीविशद् आसने स्वे ॥ भ्प्_10.69.014* ॥
तस्यावनिज्य चरणौ तद्-अपः स्व-मूर्ध्ना $ बिभ्रज् जगद्-गुरुतमो ऽपि सतां पतिर् हि &
तस्यावनिज्य चरणौ तद्-अपः स्व-मूर्ध्ना $ बिभ्रज् जगद्-गुरुतमो ऽपि सतां पतिर् हि &
ब्रह्मण्य-देव इति यद् गुण-नाम युक्तं % तस्यैव यच्-चरण-शौचम् अशेष-तीर्थम् ॥ भ्प्_10.69.015* ॥
सम्पूज्य देव-ऋषि-वर्यम् ऋषिः पुराणो $ नारायणो नर-सखो विधिनोदितेन &
सम्पूज्य देव-ऋषि-वर्यम् ऋषिः पुराणो $ नारायणो नर-सखो विधिनोदितेन &
वाण्याभिभाष्य मितयामृत-मिष्टया तं % प्राह प्रभो भगवते करवाम हे किम् ॥ भ्प्_10.69.016*

10.69.019

0 श्री-नारद उवाच
नैवाद्भुतं त्वयि विभो ऽखिल-लोक-नाथे $ मैत्री जनेषु सकलेषु दमः खलानाम् &
नैवाद्भुतं त्वयि विभो ऽखिल-लोक-नाथे $ मैत्री जनेषु सकलेषु दमः खलानाम् &
निःश्रेयसाय हि जगत्-स्थिति-रक्षणाभ्यां % स्वैरावतार उरुगाय विदाम सुष्ठु ॥ भ्प्_10.69.017* ॥
दृष्टं तवाङ्घ्रि-युगलं जनतापवर्गं $ ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाध-बोधैः &
दृष्टं तवाङ्घ्रि-युगलं जनतापवर्गं $ ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाध-बोधैः &
संसार-कूप-पतितोत्तरणावलम्बं % ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् ॥ भ्प्_10.69.018* ॥
ततो ऽन्यद् आविशद् गेहं कृष्ण-पत्न्याः स नारदः ।
योगेश्वरेश्वरस्याङ्ग योग-माया-विवित्सया

10.69.020

दीव्यन्तम् अक्षैस् तत्रापि प्रियया चोद्धवेन च ।
पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः

10.69.021

पृष्टश् चाविदुषेवासौ कदायातो भवान् इति ।
क्रियते किं नु पूर्णानाम् अपूर्णैर् अस्मद्-आदिभिः

10.69.022

अथापि ब्रूहि नो ब्रह्मन् जन्मैतच् छोभनं कुरु ।
स तु विस्मित उत्थाय तूष्णीम् अन्यद् अगाद् गृहम्

10.69.023

तत्राप्य् अचष्ट गोविन्दं लालयन्तं सुतान् शिशून् ।
ततो ऽन्यस्मिन् गृहे ऽपश्यन् मज्जनाय कृतोद्यमम्

10.69.024

जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर् मखैः ।
भोजयन्तं द्विजान् क्वापि भुञ्जानम् अवशेषितम्

10.69.025

क्वापि सन्ध्याम् उपासीनं जपन्तं ब्रह्म वाग्-यतम् ।
एकत्र चासि-चर्माभ्यां चरन्तम् असि-वर्त्मसु

10.69.026

अश्वैर् गजै रथैः क्वापि विचरन्तं गदाग्रजम् ।
क्वचिच् छयानं पर्यङ्के स्तूयमानं च वन्दिभिः

10.69.027

मन्त्रयन्तं च कस्मिंश्चिन् मन्त्रिभिश् चोद्धवादिभिः ।
जल-क्रीडा-रतं क्वापि वारमुख्याबलावृतम्

10.69.028

कुत्रचिद् द्विज-मुख्येभ्यो ददतं गाः स्व्-अलङ्कृताः ।
इतिहास-पुराणानि शृण्वन्तं मङ्गलानि च

10.69.029

हसन्तं हास-कथया कदाचित् प्रियया गृहे ।
क्वापि धर्मं सेवमानम् अर्थ-कामौ च कुत्रचित्

10.69.030

ध्यायन्तम् एकम् आसीनं पुरुषं प्रकृतेः परम् ।
शुश्रूषन्तं गुरून् क्वापि कामैर् भोगैः सपर्यया

10.69.031

कुर्वन्तं विग्रहं कैश्चित् सन्धिं चान्यत्र केशवम् ।
कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम्

10.69.032

पुत्राणां दुहितॄणां च काले विध्य्-उपयापनम् ।
दारैर् वरैस् तत्-सदृशैः कल्पयन्तं विभूतिभिः

10.69.033

प्रस्थापनोपनयनैर् अपत्यानां महोत्सवान् ।
वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे

10.69.034

यजन्तं सकलान् देवान् क्वापि क्रतुभिर् ऊर्जितैः ।
पूर्तयन्तं क्वचिद् धर्मं कूर्पाराम-मठादिभिः

10.69.035

चरन्तं मृगयां क्वापि हयम् आरुह्य सैन्धवम् ।
घ्नन्तं तत्र पशून् मेध्यान् परीतं यदु-पुङ्गवैः

10.69.036

अव्यक्त-लिन्गं प्रकृतिष्व् अन्तः-पुर-गृहादिषु ।
क्वचिच् चरन्तं योगेशं तत्-तद्-भाव-बुभुत्सया

10.69.037

अथोवाच हृषीकेशं नारदः प्रहसन्न् इव ।
योग-मायोदयं वीक्ष्य मानुषीम् ईयुषो गतिम्

10.69.038

विदाम योग-मायास् ते दुर्दर्शा अपि मायिनाम् ।
योगेश्वरात्मन् निर्भाता भवत्-पाद-निषेवया

10.69.039

अनुजानीहि मां देव लोकांस् ते यशसाप्लुतान् ।
पर्यटामि तवोद्गायन् लीला भुवन-पावनीः

10.69.040

भ्प्_10.69.040।0 श्री-भगवान् उवाच
ब्रह्मन् धन्नस्य वक्ताहं कर्ता तद्-अनुमोदिता ।
तच् छिक्षयन् लोकम् इमम् आस्थितः पुत्र मा खिदः

10.69.041

भ्प्_10.69.041।0 श्री-शुक उवाच
इत्य् आचरन्तं सद्-धर्मान् पावनान् गृह-मेधिनाम् ।
तम् एव सर्व-गेहेषु सन्तम् एकं ददर्श ह

10.69.042

कृष्णस्यानन्त-वीर्यस्य योग-माया-महोदयम् ।
मुहुर् दृष्ट्वा ऋषिर् अभूद् विस्मितो जात-कौतुकः

10.69.043

इत्य् अर्थ-काम-धर्मेषु कृष्णेन श्रद्धितात्मना ।
सम्यक् सभाजितः प्रीतस् तम् एवानुस्मरन् ययौ

10.69.044

एवं मनुष्य-पदवीम् अनुवर्तमानो नारायणो ऽखिल-भवाय गृहीत-शक्तिः ।
रेमे ऽण्ग षोडश-सहस्र-वराङ्गनानां स-व्रीड-सौहृद-निरीक्षण-हास-जुष्टः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc