भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.68

10.68.001

भ्प्_10.68.001।0 श्री-शुक उवाच
दुर्योधन-सुतां राजन् लक्ष्मणां समितिं-जयः ।
स्वयंवर-स्थाम् अहरत् साम्बो जाम्बवती-सुतः

10.68.002

कौरवाः कुपिता ऊचुर् दुर्विनीतो ऽयम् अर्भकः ।
कदर्थी-कृत्य नः कन्याम् अकामाम् अहरद् बलात्

10.68.003

बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः ।
ये ऽस्मत्-प्रसादोपचितां दत्तां नो भुञ्जते महीम्

10.68.004

निगृहीतं सुतं श्रुत्वा यद्य् एष्यन्तीह वृष्णयः ।
भग्न-दर्पाः शमं यान्ति प्राणा इव सु-संयताः

10.68.005

इति कर्णः शलो भूरिर् यज्ञकेतुः सुयोधनः ।
साम्बम् आरेभिरे योद्धुं कुरु-वृद्धानुमोदिताः

10.68.006

दृष्ट्वानुधावतः साम्बो धार्तराष्ट्रान् महा-रथः ।
प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः

10.68.007

तं ते जिघृक्षवः क्रुद्धास् तिष्ठ तिष्ठेति भाषिणः ।
आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन्

10.68.008

सो ऽपविद्धः कुरु-श्रेष्ठ कुरुभिर् यदु-नन्दनः ।
नामृष्यत् तद् अचिन्त्यार्भः सिंह क्षुद्र-मृगैर् इव

10.68.009

विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः ।
कर्णादीन् षड् रथान् वीरस् तावद्भिर् युगपत् पृथक्

10.68.010

चतुर्भिश् चतुरो वाहान् एकैकेन च सारथीन् ।
रथिनश् च महेष्वासांस् तस्य तत् ते ऽभ्यपूजयन्

10.68.011

तं तु ते विरथं चक्रुश् चत्वारश् चतुरो हयान् ।
एकस् तु सारथिं जघ्ने चिच्छेदण्यः शरासनम्

10.68.012

तं बद्ध्वा विरथी-कृत्य कृच्छ्रेण कुरवो युधि ।
कुमारं स्वस्य कन्यां च स्व-पुरं जयिनो ऽविशन्

10.68.013

तच् छ्रुत्वा नारदोक्तेन राजन् सञ्जात-मन्यवः ।
कुरून् प्रत्य् उद्यमं चक्रुर् उग्रसेन-प्रचोदिताः

10.68.014

सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णि-पुङ्गवान् ।
नैच्छत् कुरूणां वृष्णीनां कलिं कलि-मलापहः

10.68.015

जगाम हास्तिन-पुरं रथेनादित्य-वर्चसा ।
ब्राह्मणैः कुल-वृद्धैश् च वृतश् चन्द्र इव ग्रहैः

10.68.016

गत्वा गजाह्वयं रामो बाह्योपवनम् आस्थितः ।
उद्धवं प्रेषयाम् आस धृतराष्ट्रं बुभुत्सया

10.68.017

सो ऽभिवन्द्याम्बिका-पुत्रं भीष्मं द्रोणं च बाह्लिकम् ।
दुर्योधनं च विधि-वद् रामम् आगतं अब्रवीत्

10.68.018

ते ऽति-प्रीतास् तम् आकर्ण्य प्राप्तं रामं सुहृत्-तमम् ।
तम् अर्चयित्वाभिययुः सर्वे मङ्गल-पाणयः

10.68.019

तं सङ्गम्य यथा-न्यायं गाम् अर्घ्यं च न्यवेदयन् ।
तेषां ये तत्-प्रभाव-ज्ञाः प्रणेमुः शिरसा बलम्

10.68.020

बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवम् अनामयम् ।
परस्परम् अथो रामो बभाषे ऽविक्लवं वचः

10.68.021

उग्रसेनः क्षितेशेशो यद् व आज्ञापयत् प्रभुः ।
तद् अव्यग्र-धियः श्रुत्वा कुरुध्वम् अविलम्बितम्

10.68.022

यद् यूयं बहवस् त्व् एकं जित्वाधर्मेण धार्मिकम् ।
अबध्नीताथ तन् मृष्ये बन्धूनाम् ऐक्य-काम्यया

10.68.023

वीर्य-शौर्य-बलोन्नद्धम् आत्म-शक्ति-समं वचः ।
कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः

10.68.024

अहो महच् चित्रम् इदं काल-गत्या दुरत्यया ।
आरुरुक्षत्य् उपानद् वै शिरो मुकुट-सेवितम्

10.68.025

एते यौनेन सम्बद्धाः सह-शय्यासनाशनाः ।
वृष्णयस् तुल्यतां नीता अस्मद्-दत्त-नृपासनाः

10.68.026

चामर-व्यजने शङ्खम् आतपत्रं च पाण्डुरम् ।
किरीटम् आसनं शय्यां भुञ्जते ऽस्मद्-उपेक्षया

10.68.027

अलं यदूनां नरदेव-लाञ्छनैर् दातुः प्रतीपैः फणिनाम् इवामृतम् ।
ये ऽस्मत्-प्रसादोपचिता हि यादवा आज्ञापयन्त्य् अद्य गत-त्रपा बत

10.68.028

कथम् इन्द्रो ऽपि कुरुभिर् भीष्म-द्रोणार्जुनादिभिः ।
अदत्तम् अवरुन्धीत सिंह-ग्रस्तम् इवोरणः

10.68.029

भ्प्_10.68.029।0 श्री-बादरायणिर् उवाच
जन्म-बन्धु-श्रीयोन्नद्ध- मदास् ते भरतर्षभ ।
आश्राव्य रामं दुर्वाच्यम् असभ्याः पुरम् आविशन्

10.68.030

दृष्ट्वा कुरूनां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः ।
अवोचत् कोप-संरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः

10.68.031

नूनं नाना-मदोन्नद्धाः शान्तिं नेच्छन्त्य् असाधवः ।
तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा

10.68.032

अहो यदून् सु-संरब्धान् कृष्णं च कुपितं शनैः ।
सान्त्वयित्वाहम् एतेषां शमम् इच्छन्न् इहागतः

10.68.033

त इमे मन्द-मतयः कलहाभिरताः खलाः ।
तं माम् अवज्ञाय मुहुर् दुर्भाषान् मानिनो ऽब्रुवन्

10.68.034

नोग्रसेनः किल विभुर् भोज-वृष्ण्य्-अन्धकेश्वरः ।
शक्रादयो लोक-पाला यस्यादेशानुवर्तिनः

10.68.035

सुधर्माक्रम्यते येन पारिजातो ऽमराङ्घ्रिपः ।
आनीय भुज्यते सो ऽसौ न किलाध्यासनार्हणः

10.68.036

यस्य पाद-युगं साक्षाच् छ्रीर् उपास्ते ऽखिलेश्वरी ।
स नार्हति किल श्रीशो नरदेव-परिच्छदान्

10.68.038

यस्याङ्घ्रि-पङ्कज-रजो ऽखिल-लोक-पालैर् $ मौल्य्-उत्तमैर् धृतम् उपासित-तीर्थ-तीर्थम् &अम्प्;
ब्रह्मा भवो ऽहम् अपि यस्य कलाः कलायाः % श्रीश् चोद्वहेम चिरम् अस्य नृपासनं क्व ॥ भ्प्_10.68.037* ॥
भुञ्जते कुरुभिर् दत्तं भू-खण्डं वृष्णयः किल ।
उपानहः किल वयं स्वयं तु कुरवः शिरः

10.68.039

अहो ऐश्वर्य-मत्तानां मत्तानाम् इव मानिनाम् ।
असम्बद्धा गिऋओ रुक्षाः कः सहेतानुशासीता

10.68.040

अद्य निष्कौरवं पृथ्वीं करिष्यामीत्य् अमर्षितः ।
गृहीत्वा हलम् उत्तस्थौ दहन्न् इव जगत्-त्रयम्

10.68.041

लाङ्गलाग्रेण नगरम् उद्विदार्य गजाह्वयम् ।
विचकर्ष स गङ्गायां प्रहरिष्यन्न् अमर्षितः

10.68.042

जल-यानम् इवाघूर्णं गङ्गायां नगरं पतत् ।
आकृष्यमाणम् आलोक्य कौरवाः जात-सम्भ्रमाः

10.68.043

तम् एव शरणं जग्मुः स-कुटुम्बा जिजीविषवः ।
स-लक्ष्मणं पुरस्-कृत्य साम्बं प्राञ्जलयः प्रभुम्

10.68.044

राम रामाखिलाधार प्रभावं न विदाम ते ।
मूढानां नः कु-बुद्धीनां क्षन्तुम् अर्हस्य् अतिक्रमम्

10.68.045

स्थित्य्-उत्पत्त्य्-अप्ययानां त्वम् एको हेतुर् निराश्रयः ।
लोकान् क्रीडनकान् ईश क्रीडतस् ते वदन्ति हि

10.68.046

त्वम् एव मूर्ध्नीदम् अनन्त लीलया भू-मण्डलं बिभर्षि सहस्र-मूर्धन् ।
अन्ते च यः स्वात्म-निरुद्ध-विश्वः शेषे ऽद्वितीयः परिशिष्यमाणः

10.68.047

कोपस् ते ऽखिल-शिक्षार्थं न द्वेषान् न च मत्सरात् ।
बिभ्रतो भगवन् सत्त्वं स्थिति-पालन-तत्परः

10.68.048

नमस् ते सर्व-भूतात्मन् सर्व-शक्ति-धराव्यय ।
विश्व-कर्मन् नमस् ते ऽस्तु त्वां वयं शरणं गताः

10.68.049

भ्प्_10.68.049।0 श्री-शुक उवाच
एवं प्रपन्नैः संविग्नैर् वेपमानायनैर् बलः ।
प्रसादितः सु-प्रसन्नो मा भैष्टेत्य् अभयं ददौ

10.68.050

दुर्योधनः पारिबर्हं कुञ्जरान् षष्टि-हायनान् ।
ददौ च द्वादश-शतान्य् अयुतानि तुरङ्गमान्

10.68.051

रथानां षट्-सहस्राणि रौक्माणां सूर्य-वर्चसाम् ।
दासीनां निष्क-कण्ठीनां सहस्रं दुहितृ-वत्सलः

10.68.052

प्रतिगृह्य तु तत् सर्वं भगवान् सात्वतर्षभः ।
स-सुतः स-स्नुषः प्रायात् सुहृद्भिर् अभिनन्दितः

10.68.054

ततः प्रविष्टः स्व-पुरं हलायुधः $ समेत्य बन्धून् अनुरक्त-चेतसः &अम्प्;
शशंस सर्वं यदु-पुङ्गवानां % मध्ये सभायां कुरुषु स्व-चेष्टितम् ॥ भ्प्_10.68.053* ॥
अद्यापि च पुरं ह्य् एतत् सूचयद् राम-विक्रमम् ।
समुन्नतं दक्षिणतो गङ्गायाम् अनुदृश्यते

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc