भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.67

10.67.001

भ्प्_10.67.001।0 श्री-राजोवाच
भुयो ऽहं श्रोतुम् इच्छामि रामस्याद्भुत-कर्मणः ।
अनन्तस्याप्रमेयस्य यद् अन्यत् कृतवान् प्रभुः

10.67.002

भ्प्_10.67.002।0 श्री-शुक उवाच
नरकस्य सखा कश्चिद् द्विविदो नाम वानरः ।
सुग्रीव-सचिवः सो ऽथ भ्राता मैन्दस्य वीर्यवान्

10.67.003

सख्युः सो ऽपचितिं कुर्वन् वानरो राष्ट्र-विप्लवम् ।
पुर-ग्रामाकरान् घोषान् अदहद् वह्निम् उत्सृजन्

10.67.004

क्वचित् स शैलान् उत्पाट्य तैर् देशान् समचूर्णयत् ।
आनर्तान् सुतराम् एव यत्रास्ते मित्र-हा हरिः

10.67.005

क्वचित् समुद्र-मध्य-स्थो दोर्भ्याम् उत्क्षिप्य तज्-जलम् ।
देशान् नागायुत-प्राणो वेला-कूले न्यमज्जयत्

10.67.006

आश्रमान् ऋषि-मुख्यानां कृत्वा भग्न-वनस्पतीन् ।
अदूषयच् छकृन्-मूत्रैर् अग्नीन् वैतानिकान् खलः

10.67.007

पुरुषान् योषितो दृप्तः क्ष्माभृद्-द्रोनी-गुहासु सः ।
निक्षिप्य चाप्यधाच् छैलैः पेशष्कारीव कीटकम्

10.67.008

एवं देशान् विप्रकुर्वन् दूषयंश् च कुल-स्त्रियः ।
श्रुत्वा सु-ललितं गीतं गिरिं रैवतकं ययौ

10.67.009

तत्रापश्यद् यदु-पतिं रामं पुष्कर-मालिनम् ।
सुदर्शनीय-सर्वाङ्गं ललना-यूथ-मध्य-गम्

10.67.010

गायन्तं वारुणीं पीत्वा मद-विह्वल-लोचनम् ।
विभ्राजमानं वपुषा प्रभिन्नम् इव वारणम्

10.67.011

दुष्टः शाखा-मृगः शाखाम् आरूढः कम्पयन् द्रुमान् ।
चक्रे किलकिला-शब्दम् आत्मानं सम्प्रदर्शयन्

10.67.012

तस्य धार्ष्ट्यं कपेर् वीक्ष्य तरुण्यो जाति-चापलाः ।
हास्य-प्रिया विजहसुर् बलदेव-परिग्रहाः

10.67.013

ता हेलयाम् आस कपिर् भ्रू-क्षेपैर् सम्मुखादिभिः ।
दर्शयन् स्व-गुदं तासां रामस्य च निरीक्षितः

10.67.014

तं ग्राव्णा प्राहरत् क्रुद्धो बलः प्रहरतां वरः ।
स वञ्चयित्वा ग्रावाणं मदिरा-कलशं कपिः

10.67.015

गृहीत्वा हेलयाम् आस धूर्तस् तं कोपयन् हसन् ।
निर्भिद्य कलशं दुष्टो वासांस्य् आस्फालयद् बलम्

10.67.016

कदर्थी-कृत्य बलवान् विप्रचक्रे मदोद्धतः ।
तं तस्याविनयं दृष्ट्वा देशांश् च तद्-उपद्रुतान्

10.67.017

क्रुद्धो मुषलम् आदत्त हलं चारि-जिघांसया ।
द्विविदो ऽपि महा-वीर्यः शालम् उद्यम्य पाणिना

10.67.018

अभ्येत्य तरसा तेन बलं मूर्धन्य् अताडयत् ।
तं तु सङ्कर्षणो मूर्ध्नि पतन्तम् अचलो यथा

10.67.019

प्रतिजग्राह बलवान् सुनन्देनाहनच् च तम् ।
मूषलाहत-मस्तिष्को विरेजे रक्त-धारया

10.67.020

गिरिर् यथा गैरिकया प्रहारं नानुचिन्तयन् ।
पुनर् अन्यं समुत्क्षिप्य कृत्वा निष्पत्रम् ओजसा

10.67.021

तेनाहनत् सु-सङ्क्रुद्धस् तं बलः शतधाच्छिनत् ।
ततो ऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत्

10.67.022

एवं युध्यन् भगवता भग्ने भग्ने पुनः पुनः ।
आकृष्य सर्वतो वृक्षान् निर्वृक्षम् अकरोद् वनम्

10.67.023

ततो ऽमुञ्चच् छिला-वर्षं बलस्योपर्य् अमर्षितः ।
तत् सर्वं चूर्णयां आस लीलया मुषलायुधः

10.67.024

स बाहू ताल-सङ्काशौ मुष्टी-कृत्य कपीश्वरः ।
आसाद्य रोहिणी-पुत्रं ताभ्यां वक्षस्य् अरूरुजत्

10.67.025

यादवेन्द्रो ऽपि तं दोर्भ्यां त्यक्त्वा मुषल-लाङ्गले ।
जत्राव् अभ्यर्दयत् क्रुद्धः सो ऽपतद् रुधिरं वमन्

10.67.026

चकम्पे तेन पतता स-टङ्कः स-वनस्पतिः ।
पर्वतः कुरु-शार्दूल वायुना नौर् इवाम्भसि

10.67.027

जय-शब्दो नमः-शब्दः साधु साध्व् इति चाम्बरे ।
सुर-सिद्ध-मुनीन्द्राणाम् आसीत् कुसुम-वर्षिणाम्

10.67.028

एवं निहत्य द्विविदं जगद्-व्यतिकरावहम् ।
संस्तूयमानो भगवान् जनैः स्व-पुरम् आविशत्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc