भागवत पुराण · अध्याय 10.66
भ्प्_10.66.001।0 श्री-शुक उवाच
नन्द-व्रजं गते रामे करूषाधिपतिर् नृप ।
वासुदेवो ऽहम् इत्य् अज्ञो दूतं कृष्णाय प्राहिणोत्
त्वं वासुदेवो भगवान् अवतीऋनो जगत्-पतिः ।
इति प्रस्तोभितो बालैर् मेन आत्मानम् अच्युतम्
दूतं च प्राहिणोन् मन्दः कृष्णायाव्यक्त-वर्त्मने ।
द्वारकायां यथा बालो नृपो बाल-कृतो ऽबुधः
दूतस् तु द्वारकाम् एत्य सभायाम् आस्थितं प्रभुम् ।
कृष्णं कमल-पत्राक्षं राज-सन्देशम् अब्रवीत्
वासुदेवो ऽवतीर्नो ऽहम् एक एव न चापरः ।
भूतानाम् अनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज
यानि त्वम् अस्मच्-चिह्नानि मौढ्याद् बिभर्षि सात्वत ।
त्यक्त्वैहि मां त्वं शरणं नो चेद् देहि ममाहवम्
भ्प्_10.66.007।0 श्री-शुक उवाच
कत्थनं तद् उपाकर्ण्य पौण्ड्रकस्याल्प-मेधसः ।
उग्रसेनादयः सभ्या उच्चकैर् जहसुस् तदा
उवाच दूतं भगवान् परिहास-कथाम् अनु ।
उत्स्रक्ष्ये मूढ चिह्नानि यैस् त्वम् एवं विकत्थसे
मुखं तद् अपिधायाज्ञ कङ्क-गृध्र-वटैर् वृतः ।
शयिष्यसे हतस् तत्र भविता शरणं शुनाम्
इति दूतस् तम् आक्षेपं स्वामिने सर्वम् आहरत् ।
कृष्णो ऽपि रथम् आस्थाय काशीम् उपजगाम ह
पौण्ड्रको ऽपि तद्-उद्योगम् उपलभ्य महा-रथः ।
अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद् द्रुतम्
तस्य काशी-पतिर् मित्रं पार्ष्णि-ग्राहो ऽन्वयान् नृप ।
अक्षौहिणीभिस् तिसृभिर् अपश्यत् पौण्ड्रकं हरिः
शङ्खार्य्-असि-गदा-शार्ङ्ग- श्रीवत्साद्य्-उपलक्षितम् ।
बिभ्राणं कौस्तुभ-मणिं वन-माला-विभूषितम्
कौशेय-वाससी पीते वसानं गरुड-ध्वजम् ।
अमूल्य-मौल्य्-आभरणं स्फुरन्-मकर-कुण्डलम्
दृष्ट्वा तम् आत्मनस् तुल्यं वेषं कृत्रिमम् आस्थितम् ।
यथा नटं रङ्ग-गतं विजहास भृशं हरीः
शुलैर् गदाभिः परिघैः शक्त्य्-ऋष्टि-प्रास-तोमरैः ।
असिभिः पट्टिशैर् बाणैः प्राहरन्न् अरयो हरिम्
कृष्णस् तु तत् पौण्ड्रक-काशिराजयोर् $ बलं गज-स्यन्दन-वाजि-पत्ति-मत् &अम्प्;
गदासि-चक्रेषुभिर् आर्दयद् भृशं % यथा युगान्ते हुत-भुक् पृथक् प्रजाः ॥ भ्प्_10.66.017* ॥
आयोधनं तद् रथ-वाजि-कुञ्जर- द्विपत्-खरोष्ट्रैर् अरिणावखण्डितैः ।
बभौ चितं मोद-वहं मनस्विनाम् आक्रीडनं भूत-पतेर् इवोल्बणम्
अथाह पौण्ड्रकं शौरिर् भो भो पौण्ड्रक यद् भवान् ।
दूत-वाक्येन माम् आह तान्य् अस्त्रण्य् उत्सृजामि ते
त्याजयिष्ये ऽभिधानं मे यत् त्वयाज्ञ मृषा धृतम् ।
व्रजामि शरनं ते ऽद्य यदि नेच्छामि संयुगम्
इति क्षिप्त्वा शितैर् बाणैर् विरथी-कृत्य पौण्ड्रकम् ।
शिरो ऽवृश्चद् रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः
तथा काशी-पतेः कायाच् छिर उत्कृत्य पत्रिभिः ।
न्यपातयत् काशी-पुर्यां पद्म-कोशम् इवानिलः
एवं मत्सरिणम् हत्वा पौण्ड्रकं स-सखं हरिः ।
द्वारकाम् आविशत् सिद्धैर् गीयमान-कथामृतः
स नित्यं भगवद्-ध्यान- प्रध्वस्ताखिल-बन्धनः ।
बिभ्राणश् च हरे राजन् स्वरूपं तन्-मयो ऽभवत्
शिरः पतितम् आलोक्य राज-द्वारे स-कुण्डलम् ।
किम् इदं कस्य वा वक्त्रम् इति संशिशिरे जनाः
राज्ञः काशी-पतेर् ज्ञात्वा महिष्यः पुत्र-बान्धवाः ।
पौराश् च हा हता राजन् नाथ नाथेति प्रारुदन्
सुदक्षिणस् तस्य सुतः कृत्वा संस्था-विधिं पतेः ।
निहत्य पितृ-हन्तारं यास्याम्य् अपचितिं पितुः
इत्य् आत्मनाभिसन्धाय सोपाध्यायो महेश्वरम् ।
सु-दक्षिणो ऽर्चयाम् आस परमेण समाधिना
प्रीतो ऽविमुक्ते भगवांस् तस्मै वरम् अदाद् विभुः ।
पितृ-हन्तृ-वधोपायं स वव्रे वरम् ईप्सितम्
दक्षिणाग्निं परिचर ब्राह्मणैः समम् ऋत्विजम् ।
अभिचार-विधानेन स चाग्निः प्रमथैर् वृतः
साधयिष्यति सङ्कल्पम् अब्रह्मण्ये प्रयोजितः ।
इत्य् आदिष्टस् तथा चक्रे कृष्णायाभिचरन् व्रती
ततो ऽग्निर् उत्थितः कुण्डान् मूर्तिमान् अति-भीषणः ।
तप्त-ताम्र-शिखा-श्मश्रुर् अङ्गारोद्गारि-लोचनः
दंष्ट्रोग्र-भ्रु-कुटी-दण्ड- कठोरास्यः स्व-जिह्वया ।
आलिहन् सृक्वणी नग्नो विधुन्वंस् त्रि-शिखं ज्वलत्
पद्भ्यां ताल-प्रमाणाभ्यां कम्पयन्न् अवनी-तलम् ।
सो ऽभ्यधावद् वृतो भूतैर् द्वारकां प्रदहन् दिशः
तम् आभिचार-दहनम् आयान्तं द्वारकौकसः ।
विलोक्य तत्रसुः सर्वे वन-दाहे मृगा यथा
अक्षैः सभायां क्रीडन्तं भगवन्तं भयातुराः ।
त्राहि त्राहि त्रि-लोकेश वह्नेः प्रदहतः पुरम्
श्रुत्वा तज् जन-वैक्लव्यं दृष्ट्वा स्वानां च साध्वसम् ।
शरण्यः सम्प्रहस्याह मा भैष्टेत्य् अवितास्म्य् अहम्
सर्वस्यान्तर्-बहिः-साक्षी कृत्यां माहेश्वरीं विभुः ।
विज्ञाय तद्-विघातार्थं पार्श्व-स्थं चक्रम् आदिशत्
तत् सूर्य-कोटि-प्रतिमं सुदर्शनं जाज्वल्यमानं प्रलयानल-प्रभम् ।
स्व-तेजसा खं ककुभो ऽथ रोदसी चक्रं मुकुन्दास्त्रं अथाग्निम् आर्दयत्
कृत्यानलः प्रतिहतः स रथान्ग-पाणेर् $ अस्त्रौजसा स नृप भग्न-मुखो निवृत्तः &अम्प्;
वाराणसीं परिसमेत्य सुदक्षिणं तं % सर्त्विग्-जनं समदहत् स्व-कृतो ऽभिचारः ॥ भ्प्_10.66.040* ॥
चक्रं च विष्णोस् तद्-अनुप्रविष्टं वारानसीं साट्ट-सभालयापणाम् ।
स-गोपुराट्टालक-कोष्ठ-सङ्कुलां स-कोश-हस्त्य्-अश्व-रथान्न-शालिनीम्
दग्ध्वा वाराणसीं सर्वां विष्णोश् चक्रं सुदर्शनम् ।
भूयः पार्श्वम् उपातिष्ठत् कृष्णस्याक्लिष्ट-कर्मणः
य एनं श्रावयेन् मर्त्य उत्तमः-श्लोक-विक्रमम् ।
समाहितो वा शृणुयात् सर्व-पापैः प्रमुच्यते
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0