भागवत पुराण · अध्याय 10.65
भ्प्_10.65.001।0 श्री-शुक उवाच
बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः ।
सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम्
परिष्वक्तश् चिरोत्कण्ठैर् गोपैर् गोपीभिर् एव च ।
रामो ऽभिवाद्य पितराव् आशीर्भिर् अभिनन्दितः
चिरं नः पाहि दाशार्ह सानुजो जगद्-ईश्वरः ।
इत्य् आरोप्याङ्कम् आलिङ्ग्य नेत्रैः सिषिचतुर् जलैः
गोप-वृद्धांश् च विधि-वद् यविष्ठैर् अभिवन्दितः ।
यथा-वयो यथा-सख्यं यथा-सम्बन्धम् आत्मनः
समुपेत्याथ गोपालान् हास्य-हस्त-ग्रहादिभिः ।
विश्रान्तम् सुखम् आसीनं पप्रच्छुः पर्युपागताः
पृष्टाश् चानामयं स्वेषु प्रेम-गद्गदया गिरा ।
कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधसः
कच्चिन् नो बान्धवा राम सर्वे कुशलम् आसते ।
कच्चित् स्मरथ नो राम यूयं दार-सुतान्विताः
दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्-जनाः ।
निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रीताः
गोप्यो हसन्त्यः पप्रच्छू राम-सन्दर्शनादृताः ।
कच्चिद् आस्ते सुखं कृष्णः पुर-स्त्री-जन-वल्लभः
कच्चित् स्मरति वा बन्धून् पितरं मातरं च सः ।
अप्य् असौ मातरं द्रष्टुं सकृद् अप्य् आगमिष्यति ।
अपि वा स्मरते ऽस्माकम् अनुसेवां महा-भुजः
मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄन् अपि ।
यद्-अर्थे जहिम दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो
ता नः सद्यः परित्यज्य गतः सञ्छिन्न-सौहृदः ।
कथं नु तादृशं स्त्रीभिर् न श्रद्धीयेत भाषितम्
कथं नु गृह्णन्त्य् अनवस्थितात्मनो $ वचः कृत-घ्नस्य बुधाः पुर-स्त्रियः &अम्प्;
गृह्णन्ति वै चित्र-कथस्य सुन्दर- % स्मितावलोकोच्छ्वसित-स्मरातुराः ॥ भ्प्_10.65.013* ॥
किं नस् तत्-कथया गोप्यः कथाः कथयतापराः ।
यात्य् अस्माभिर् विना कालो यदि तस्य तथैव नः
इति प्रहसितं शौरेर् जल्पितं चारु-वीक्षितम् ।
गतिं प्रेम-परिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः
सङ्कर्षणस् ताः कृष्णस्य सन्देशैर् हृदयं-गमैः ।
सान्त्वयाम् आस भगवान् नानानुनय-कोविदः
द्वौ मासौ तत्र चावात्सीन् मधुं माधवं एव च ।
रामः क्षपासु भगवान् गोपीनां रतिम् आवहन्
पूर्ण-चन्द्र-कला-मृष्टे कौमुदी-गन्ध-वायुना ।
यमुनोपवने रेमे सेविते स्त्री-गणैर् वृतः
वरुण-प्रेषिता देवी वारुणी वृक्ष-कोटरात् ।
पतन्ती तद् वनं सर्वं स्व-गन्धेनाध्यवासयत्
तं गन्धं मधु-धाराया वायुनोपहृतं बलः ।
आघ्रायोपगतस् तत्र ललनाभिः समं पपौ
उपगीयमानो गन्धर्वैर् वनिता-शोभि-मण्डले ।
रेमे करेणु-यूथेशो माहेन्द्र इव वारणः
नेदुर् दुन्दुभयो व्योम्नि ववृषुः कुसुमैर् मुदा ।
गन्धर्वा मुनयो रामं तद्-वीर्यैर् ईडिरे तदा
उपगीयमान-चरितो वनिताभिर् हलायुध ।
वनेषु व्यचरत् क्षीवो मद-विह्वल-लोचनः
स्रग्व्य् एक-कुण्डलो मत्तो वैजयन्त्या च मालया ।
बिभ्रत् स्मित-मुखाम्भोजं स्वेद-प्रालेय-भूषितम्
स आजुहाव यमुनां जल-क्रीडार्थम् ईश्वरः ।
निजं वाक्यम् अनादृत्य मत्त इत्य् आपगां बलः
अनागतां हलाग्रेण कुपितो विचकर्ष ह ।
पापे त्वं माम् अवज्ञाय यन् नायासि मयाहुता ।
नेष्ये त्वां लाङ्गलाग्रेण शतधा काम-चारिणीम्
एवं निर्भर्त्सिता भीता यमुना यदु-नन्दनम् ।
उवाच चकिता वाचं पतिता पादयोर् नृप
राम राम महा-बाहो न जाने तव विक्रमम् ।
यस्यैकांशेन विधृता जगती जगतः पते
परं भावं भगवतो भगवन् माम् अजानतीम् ।
मोक्तुम् अर्हसि विश्वात्मन् प्रपन्नां भक्त-वत्सल
ततो व्यमुञ्चद् यमुनां याचितो भगवान् बलः ।
विजगाह जलं स्त्रीभिः करेणुभिर् इवेभ-राट्
कामं विहृत्य सलिलाद् उत्तीर्णायासीताम्बरे ।
भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम्
वसित्वा वाससी नीले मालां आमुच्य काञ्चनीम् ।
रेये स्व्-अलङ्कृतो लिप्तो माहेन्द्र इव वारणः
अद्यापि दृश्यते राजन् यमुनाकृष्ट-वर्त्मना ।
बलस्यानन्त-वीर्यस्य वीर्यं सूचयतीव हि
एवं सर्वा निशा याता एकेव रमतो व्रजे ।
रामस्याक्षिप्त-चित्तस्य माधुर्यैर् व्रज-योषिताम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0