भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.64

10.64.001

भ्प्_10.64.001।0 श्री-बादरायणिर् उवाच
एकदोपवनं राजन् जग्मुर् यदु-कुमारकाः ।
विहर्तुं साम्ब-प्रद्युम्न चारु-भानु-गदादयः

10.64.002

क्रीडित्वा सु-चिरं तत्र विचिन्वन्तः पिपासिताः ।
जलं निरुदके कूपे ददृशुः सत्त्वम् अद्भुतम्

10.64.003

कृकलासं गिरि-निभं वीक्ष्य विस्मित-मानसाः ।
तस्य चोद्धरणे यत्नं चक्रुस् ते कृपयान्विताः

10.64.004

चर्म-जैस् तान्तवैः पाशैर् बद्ध्वा पतितम् अर्भकाः ।
नाशक्नुरन् समुद्धर्तुं कृष्णायाचख्युर् उत्सुकाः

10.64.005

तत्रागत्यारविन्दाक्षो भगवान् विश्व-भावनः ।
वीक्ष्योज्जहार वामेन तं करेण स लीलया

10.64.006

स उत्तमः-श्लोक-कराभिमृष्टो विहाय सद्यः कृकलास-रूपम् ।
सन्तप्त-चामीकर-चारु-वर्णः स्वर्ग्य् अद्भुतालङ्करणाम्बर-स्रक्

10.64.007

पप्रच्छ विद्वान् अपि तन्-निदानं जनेषु विख्यापयितुं मुकुन्दः ।
कस् त्वं महा-भाग वरेण्य-रूपो देवोत्तमं त्वां गणयामि नूनम्

10.64.008

दशाम् इमां वा कतमेन कर्मणा सम्प्रापितो ऽस्य् अतद्-अर्हः सु-भद्र ।
आत्मानम् आख्याहि विवित्सतां नो यन् मन्यसे नः क्षमम् अत्र वक्तुम्

10.64.009

भ्प्_10.64.009।0 श्री-शुक उवाच
इति स्म राजा सम्पृष्टः कृष्णेनानन्त-मूर्तिना ।
माधवं प्रणिपत्याह किरीटेनार्क-वर्चसा

10.64.010

भ्प्_10.64.010।0 नृग उवाच
नृगो नाम नरेन्द्रो ऽहम् इक्ष्वाकु-तनयः प्रभो ।
दानिष्व् आख्यायमानेषु यदि ते कर्णम् अस्पृशम्

10.64.011

किं नु ते ऽविदितं नाथ सर्व-भूतात्म-साक्षिणः ।
कालेनाव्याहत-दृशो वक्ष्ये ऽथापि तवाज्ञया

10.64.012

यावत्यः सिकता भूमेर् यावत्यो दिवि तारकाः ।
यावत्यो वर्ष-धाराश् च तावतीर् अददं स्म गाः

10.64.013

पयस्विनीस् तरुणीः शील-रूप- गुणोपपन्नाः कपिला हेम-सृङ्गीः ।
न्यायार्जिता रूप्य-खुराः स-वत्सा दुकूल-मालाभरणा ददाव् अहम्

10.64.014

स्व्-अलङ्कृतेभ्यो गुण-शीलवद्भ्यः सीदत्-कुटुम्बेभ्य ऋत-व्रतेभ्यः ।
तपः-श्रुत-ब्रह्म-वदान्य-सद्भ्यः प्रादां युवभ्यो द्विज-पुङ्गवेभ्यः

10.64.015

गो-भू-हिरण्यायतनाश्व-हस्तिनः कन्याः स-दासीस् तिल-रूप्य-शय्याः ।
वासांसि रत्नानि परिच्छदान् रथान् इष्टं च यज्ञैश् चरितं च पूर्तम्

10.64.016

कस्यचिद् द्विज-मुख्यस्य भ्रष्टा गौर् मम गो-धने ।
सम्पृक्ताविदुषा सा च मया दत्ता द्विजातये

10.64.017

तां नीयमानां तत्-स्वामी दृष्ट्रोवाच ममेति तम् ।
ममेति परिग्राह्य् आह नृगो मे दत्तवान् इति

10.64.018

विप्रौ विवदमानौ माम् ऊचतुः स्वार्थ-साधकौ ।
भवान् दातापहर्तेति तच् छ्रुत्वा मे ऽभवद् भ्रमः

10.64.019

अनुनीताव् उभौ विप्रौ धर्म-कृच्छ्र-गतेन वै ।
गवां लक्षं प्रकृष्टानां दास्याम्य् एषा प्रदीयताम्

10.64.020

भवन्ताव् अनुगृह्णीतां किङ्करस्याविजानतः ।
समुद्धरतं मां कृच्छ्रात् पतन्तं निरये ऽशुचौ

10.64.021

नाहं प्रतीच्छे वै राजन्न् इत्य् उक्त्वा स्वाम्य् अपाक्रमत् ।
नान्यद् गवाम् अप्य् अयुतम् इच्छामीत्य् अपरो ययौ

10.64.022

एतस्मिन्न् अन्तरे यामैर् दूतैर् नीतो यम-क्षयम् ।
यमेन पृष्टस् तत्राहं देव-देव जगत्-पते

10.64.023

पूर्वं त्वम् अशुभं भुङ्क्ष उताहो नृपते शुभम् ।
नान्तं दानस्य धर्मस्य पश्ये लोकस्य भास्वतः

10.64.024

पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति सः ।
तावद् अद्राक्षम् आत्मानं कृकलासं पतन् प्रभो

10.64.025

ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव ।
स्मृतिर् नाद्यापि विध्वस्ता भवत्-सन्दर्शनार्थिनः

10.64.027

स त्वं कथं मम विभो ऽक्षि-पथः परात्मा $ योगेश्वरः श्रुति-दृशामल-हृद्-विभाव्यः &अम्प्;
साक्षाद् अधोक्षज उरु-व्यसनान्ध-बुद्धेः % स्यान् मे ऽनुदृश्य इह यस्य भवापवर्गः ॥ भ्प्_10.64.026* ॥
देव-देव जगन्-नाथ गोविन्द पुरुषोत्तम ।
नारायण हृषीकेश पुण्य-श्लोकाच्युताव्यय

10.64.028

अनुजानीहि मां कृष्ण यान्तं देव-गतिं प्रभो ।
यत्र क्वापि सतश् चेतो भूयान् मे त्वत्-पदास्पदम्

10.64.029

नमस् ते सर्व-भावाय ब्रह्मणे ऽनन्त-शक्तये ।
कृष्णाय वासुदेवाय योगानां पतये नमः

10.64.030

इत्य् उक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्व-मौलिना ।
अनुज्ञातो विमानाग्र्यम् आरुहत् पश्यतां नृणाम्

10.64.031

कृष्णः परिजनं प्राह भगवान् देवकी-सुतः ।
ब्रह्मण्य-देवो धर्मात्मा राजन्यान् अनुशिक्षयन्

10.64.032

दुर्जरं बत ब्रह्म-स्वं भुक्तम् अग्नेर् मनाग् अपि ।
तेजीयसो ऽपि किम् उत राज्ञां ईश्वर-मानिनाम्

10.64.033

नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया ।
ब्रह्म-स्वं हि विषं प्रोक्तं नास्य प्रतिविधिर् भुवि

10.64.034

हिनस्ति विषम् अत्तारं वह्निर् अद्भिः प्रशाम्यति ।
कुलं स-मूलं दहति ब्रह्म-स्वारणि-पावकः

10.64.035

ब्रह्म-स्वं दुरनुज्ञातं भुक्तं हन्ति त्रि-पूरुषम् ।
प्रसह्य तु बलाद् भुक्तं दश पूर्वान् दशापरान्

10.64.036

राजानो राज-लक्ष्म्यान्धा नात्म-पातं विचक्षते ।
निरयं ये ऽभिमन्यन्ते ब्रह्म-स्वं साधु बालिशाः

10.64.037

गृह्णन्ति यावतः पांशून् क्रन्दताम् अश्रु-बिन्दवः ।
विप्राणां हृत-वृत्तीनाम् वदान्यानां कुटुम्बिनाम्

10.64.038

राजानो राज-कुल्याश् च तावतो ऽब्दान् निरङ्कुशाः ।
कुम्भी-पाकेषु पच्यन्ते ब्रह्म-दायापहारिणः

10.64.039

स्व-दत्तां पर-दत्तां वा ब्रह्म-वृत्तिं हरेच् च यः ।
षष्टि-वर्ष-सहस्राणि विष्ठायां जायते कृमिः

10.64.040

न मे ब्रह्म-धनं भूयाद् यद् गृध्वाल्पायुषो नराः ।
पराजिताश् च्युता राज्याद् भवन्त्य् उद्वेजिनो ऽहयः

10.64.041

विप्रं कृतागसम् अपि नैव द्रुह्यत मामकाः ।
घ्नन्तं बहु शपन्तं वा नमस्-कुरुत नित्यशः

10.64.042

यथाहं प्रणमे विप्रान् अनुकालं समाहितः ।
तथा नमत यूयं च यो ऽन्यथा मे स दण्ड-भाक्

10.64.043

ब्राह्मणार्थो ह्य् अपहृतो हर्तारं पातयत्य् अधः ।
अजानन्तम् अपि ह्य् एनं नृगं ब्राह्मण-गौर् इव

10.64.044

एवं विश्राव्य भगवान् मुकुन्दो द्वारकौकसः ।
पावनः सर्व-लोकानां विवेश निज-मन्दिरम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc