भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.63

10.63.001

भ्प्_10.63.001।0 शृई-शुक उवाच
अपश्यतां चानिरुद्धं तद्-बन्धूनां च भारत ।
चत्वारो वार्षिका मासा व्यतीयुर् अनुशोचताम्

10.63.002

नारदात् तद् उपाकर्ण्य वार्तां बद्धस्य कर्म च ।
प्रययुः शोणित-पुरं वृष्णयः कृष्ण-दैवताः

10.63.003

प्रद्युम्नो युयुधानश् च गदः साम्बो ऽथ सारणः ।
नन्दोपनन्द-भद्राद्या राम-कृष्णानुवर्तिनः

10.63.004

अक्षौहिणीभिर् द्वादशभिः समेताः सर्वतो दिशम् ।
रुरुधुर् बाण-नगरं समन्तात् सात्वतर्षभाः

10.63.005

भज्यमान-पुरोद्यान- प्राकाराट्टाल-गोपुरम् ।
प्रेक्षमाणो रुषाविष्टस् तुल्य-सैन्यो ऽभिनिर्ययौ

10.63.006

बाणार्थे भगवान् रुद्रः स-सुतः प्रमथैर् वृतः ।
आरुह्य नन्दि-वृषभं युयुधे राम-कृष्णयोः

10.63.007

आसीत् सु-तुमुलं युद्धम् अद्भुतं रोम-हर्षणम् ।
कृष्ण-शङ्करयो राजन् प्रद्युम्न-गुहयोर् अपि

10.63.008

कुम्भाण्ड-कूपकर्णाभ्यां बलेन सह संयुगः ।
साम्बस्य बाण-पुत्रेण बाणेन सह सात्यकेः

10.63.009

ब्रह्मादयः सुराधीशा मुनयः सिद्ध-चारणाः ।
गन्धर्वाप्सरसो यक्षा विमानैर् द्रष्टुम् आगमन्

10.63.010

शङ्करानुचरान् शौरिर् भूत-प्रमथ-गुह्यकान् ।
डाकिनीर् यातुधानांश् च वेतालान् स-विनायकान्

10.63.011

प्रेत-मातृ-पिशाचांश् च कुष्माण्डान् ब्रह्म-राक्षसान् ।
द्रावयाम् आस तीक्ष्णाग्रैः शरैः शार्ङ्ग-धनुश्-च्युतैः

10.63.012

पृथग्-विधानि प्रायुङ्क्त पिणाक्य् अस्त्राणि शार्ङ्गिणे ।
प्रत्य्-अस्त्रैः शमयाम् आस शार्ङ्ग-पाणिर् अविस्मितः

10.63.013

ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ।
आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च

10.63.014

मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् ।
बाणस्य पृतनां शौरिर् जघानासि-गदेषुभिः

10.63.015

स्कन्दः प्रद्युम्न-बाणौघैर् अर्द्यमानः समन्ततः ।
असृग् विमुञ्चन् गात्रेभ्यः शिखिनापक्रमद् रणात्

10.63.016

कुम्भाण्ड-कूपकर्णश् च पेततुर् मुषलार्दितौ ।
दुद्रुवुस् तद्-अनीकनि हत-नाथानि सर्वतः

10.63.017

विशीर्यमाणम् स्व-बलं दृष्ट्वा बाणो ऽत्य्-अमर्षितः ।
कृष्णम् अभ्यद्रवत् सङ्ख्ये रथी हित्वैव सात्यकिम्

10.63.018

धनूंष्य् आकृष्य युगपद् बाणः पञ्च-शतानि वै ।
एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रण-दुर्मदः

10.63.019

तानि चिच्छेद भगवान् धनूंसि युगपद् धरिः ।
सारथिं रथम् अश्वांश् च हत्वा शङ्खम् अपूरयत्

10.63.020

तन्-माता कोटरा नाम नग्ना मक्त-शिरोरुहा ।
पुरो ऽवतस्थे कृष्णस्य पुत्र-प्राण-रिरक्षया

10.63.021

ततस् तिर्यङ्-मुखो नग्नाम् अनिरीक्षन् गदाग्रजः ।
बाणश् च तावद् विरथश् छिन्न-धन्वाविशत् पुरम्

10.63.022

विद्राविते भूत-गणे ज्वरस् तु त्री-शिरास् त्री-पात् ।
अभ्यधावत दाशार्हं दहन्न् इव दिशो दश

10.63.023

अथ नारायणः देवः तं दृष्ट्वा व्यसृजज् ज्वरम् ।
माहेश्वरो वैष्णवश् च युयुधाते ज्वराव् उभौ

10.63.024

माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः ।
अलब्ध्वाभयम् अन्यत्र भीतो माहेश्वरो ज्वरः ।
शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः

10.63.025

भ्प्_10.63.025।0 ज्वर उवाच
नमामि त्वानन्त-शक्तिं परेशम् सर्वात्मानं केवलं ज्ञप्ति-मात्रम् ।
विश्वोत्पत्ति-स्थान-संरोध-हेतुं यत् तद् ब्रह्म ब्रह्म-लिङ्गम् प्रशान्तम्

10.63.026

कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।
तत्-सङ्घातो बीज-रोह-प्रवाहस् त्वन्-मायैषा तन्-निषेधं प्रपद्ये

10.63.027

नाना-भावैर् लीलयैवोपपन्नैर् देवान् साधून् लोक-सेतून् बिभर्षि ।
हंस्य् उन्मार्गान् हिंसया वर्तमानान् जन्मैतत् ते भार-हाराय भूमेः

10.63.028

तप्तो ऽहम् ते तेजसा दुःसहेन शान्तोग्रेणात्य्-उल्बणेन ज्वरेण ।
तावत् तापो देहिनां ते ऽन्घ्रि-मूलं नो सेवेरन् यावद् आशानुबद्धाः

10.63.029

भ्प्_10.63.029।0 श्री-भगवान् उवाच
त्रि-शिरस् ते प्रसन्नो ऽस्मि व्येतु ते मज्-ज्वराद् भयम् ।
यो नौ स्मरति संवादं तस्य त्वन् न भवेद् भयम्

10.63.030

इत्य् उक्तो ऽच्युतम् आनम्य गतो माहेश्वरो ज्वरः ।
बाणस् तु रथम् आरूढः प्रागाद् योत्स्यन् जनार्दनम्

10.63.031

ततो बाहु-सहस्रेण नानायुध-धरो ऽसुरः ।
मुमोच परम-क्रुद्धो बाणांश् चक्रायुधे नृप

10.63.032

तस्यास्यतो ऽस्त्राण्य् असकृच् चक्रेण क्षुर-नेमिना ।
चिच्छेद भगवान् बाहून् शाखा इव वनस्पतेः

10.63.033

बाहुषु छिद्यमानेषु बाणस्य भगवान् भवः ।
भक्तानकम्प्य् उपव्रज्य चक्रायुधम् अभाषत

10.63.034

भ्प्_10.63.034।0 श्री-रुद्र उवाच
त्वं हि ब्रह्म परं ज्योतिर् गूढं ब्रह्मणि वाङ्-मये ।
यं पश्यन्त्य् अमलात्मान आकाशम् इव केवलम्

10.63.037

नाभिर् नभो ऽग्निर् मुखम् अम्बु रेतो $ द्यौः शीर्षम् आशाः श्रुतिर् अङ्घ्रिर् उर्वी &अम्प्;
चन्द्रो मनो यस्य दृग् अर्क आत्मा % अहं समुद्रो जठरं भुजेन्द्रः ॥ भ्प्_10.63.035* ॥
रोमाणि यस्यौषधयो ऽम्बु-वाहाः $ केशा विरिञ्चो धिषणा विसर्गः &
रोमाणि यस्यौषधयो ऽम्बु-वाहाः $ केशा विरिञ्चो धिषणा विसर्गः &
प्रजा-पतिर् हृदयं यस्य धर्मः % स वै भवान् पुरुषो लोक-कल्पः ॥ भ्प्_10.63.036* ॥
तवावतारो ऽयम् अकुण्ठ-धामन् धर्मस्य गुप्त्यै जगतो हिताय ।
वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि सप्त

10.63.038

त्वम् एक आद्यः पुरुषो ऽद्वितीयस् तुर्यः स्व-दृग् धेतुर् अहेतुर् ईशः ।
प्रतीयसे ऽथापि यथा-विकारं स्व-मायया सर्व-गुण-प्रसिद्ध्यै

10.63.040

यथैव सूर्यः पिहितश् छायया स्वया $ छायां च रूपाणि च सञ्चकास्ति &अम्प्;
एवं गुणेनापिहितो गुणांस् त्वम् % आत्म-प्रदीपो गुणिनश् च भूमन् ॥ भ्प्_10.63.039* ॥
यन्-माया-मोहित-धियः पुत्र-दार-गृहादिषु ।
उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे

10.63.041

देव-दत्तम् इमं लब्ध्वा नृ-लोकम् अजितेन्द्रियः ।
यो नाद्रियेत त्वत्-पादौ स शोच्यो ह्य् आत्म-वञ्चकः

10.63.042

यस् त्वां विसृजते मर्त्य आत्मानं प्रियम् ईश्वरम् ।
विपर्ययेन्द्रियार्थार्थं विषम् अत्त्य् अमृतं त्यजन्

10.63.043

अहं ब्रह्माथ विबुधा मुनयश् चामलाशयाः ।
सर्वात्मना प्रपन्नास् त्वाम् आत्मानं प्रेष्ठम् ईश्वरम्

10.63.045

तं त्वा जगत्-स्थित्य्-उदयान्त-हेतुं $ समं प्रसान्तं सुहृद्-आत्म-दैवम् &अम्प्;
अनन्यम् एकं जगद्-आत्म-केतं % भवापवर्गाय भजाम देवम् ॥ भ्प्_10.63.044* ॥
अयं ममेष्टो दयितो ऽनुवर्ती मयाभयं दत्तम् अमुष्य देव ।
सम्पाद्यतां तद् भवतः प्रसादो यथा हि ते दैत्य-पतौ प्रसादः

10.63.046

भ्प्_10.63.046।0 श्री-भगवान् उवाच
यद् आत्थ भगवंस् त्वं नः करवाम प्रियं तव ।
भवतो यद् व्यवसितं तन् मे साध्व् अनुमोदितम्

10.63.047

अवध्यो ऽयं ममाप्य् एष वैरोचनि-सुतो ऽसुरः ।
प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वयः

10.63.048

दर्पोपशमनायास्य प्रवृक्णा बाहवो मया ।
सूदितं च बलं भूरि यच् च भारायितं भुवः

10.63.049

चत्वारो ऽस्य भुजाः शिष्टा भविष्यत्य् अजरामरः ।
पार्षद-मुख्यो भवतो न कुतश्चिद्-भयो ऽसुरः

10.63.050

इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः ।
प्राद्युम्निं रथम् आरोप्य स-वध्वो समुपानयत्

10.63.051

अक्षौहिण्या परिवृतं सु-वासः-समलङ्कृतम् ।
स-पत्नीकं पुरस्-कृत्य ययौ रुद्रानुमोदितः

10.63.053

स्व-राजधानीं समलङ्कृतां ध्वजैः $ स-तोरणैर् उक्षित-मार्ग-चत्वराम् &अम्प्;
विवेश शङ्खानक-दुन्दुभि-स्वनैर् % अभ्युद्यतः पौर-सुहृद्-द्विजातिभिः ॥ भ्प्_10.63.052* ॥
य एवं कृष्ण-विजयं शङ्करेण च संयुगम् ।
संस्मरेत् प्रातर् उत्थाय न तस्य स्यात् पराजयः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc