भागवत पुराण · अध्याय 10.62
भ्प्_10.62.001।0 श्री-राजोवाच
बाणस्य तनयाम् ऊषाम् उपयेमे यदूत्तमः ।
तत्र युद्धम् अभूद् घोरं हरि-शङ्करयोर् महत् ।
एतत् सर्वं महा-योगिन् समाख्यातुं त्वम् अर्हसि
भ्प्_10.62.002।0 श्री-शुक उवाच
बाणः पुत्र-शत-ज्येष्ठो बलेर् आसीन् महात्मनः ।
येन वामन-रूपाय हरये ऽदायि मेदिनी
तस्यौरसः सुतो बानः शिव-भक्ति-रतः सदा ।
मान्यो वदान्यो धीमांश् च सत्य-सन्धो दृढ-व्रतः
शोणिताख्ये पुरे रम्ये स राज्यम् अकरोत् पुरा ।
तस्य शम्भोः प्रसादेन किङ्करा इव ते ऽमराः ।
सहस्र-बाहुर् वाद्येन ताण्दवे ऽतोषयन् मृडम्
भगवान् सर्व-भूतेशः शरण्यो भक्त-वत्सलः ।
वरेण छन्दयाम् आस स तं वव्रे पुराधिपम्
स एकदाह गिरिशं पार्श्व-स्थं वीर्य-दुर्मदः ।
किरीटेनार्क-वर्णेन संस्पृशंस् तत्-पदाम्बुजम्
नमस्ये त्वां महा-देव लोकानां गुरुम् ईश्वरम् ।
पुंसाम् अपूर्ण-कामानां काम-पूरामराङ्घ्रिपम्
दोः-सहस्रं त्वया दत्तं परं भाराय मे ऽभवत् ।
त्रि-लोक्यां प्रतियोद्धारं न लभे त्वद् ऋते समम्
कण्डूत्या निभृतैर् दोर्भिर् युयुत्सुर् दिग्-गजान् अहम् ।
आद्यायां चूर्णयन्न् अद्रीन् भीतास् ते ऽपि प्रदुद्रुवुः
तच् छ्रुत्वा भगवान् क्रुद्धः केतुस् ते भज्यते यदा ।
त्वद्-दर्प-घ्नं भवेन् मूढ संयुगं मत्-समेन ते
इत्य् उक्तः कुमतिर् हृष्टः स्व-गृहं प्राविशन् नृप ।
प्रतीक्षन् गिरिशादेशं स्व-वीर्य-नशनम् कुधीः
तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् ।
कन्यालभत कान्तेन प्राग् अदृष्ट-श्रुतेन सा
सा तत्र तम् अपश्यन्ती क्वासि कान्तेति वादिनी ।
सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम्
बाणस्य मन्त्री कुम्भाण्डश् चित्रलेखा च तत्-सुता ।
सख्य् अपृच्छत् सखीम् ऊषां कौतूहल-समन्विता
कं त्वं मृगयसे सु-भ्रु कीदृशस् ते मनोरथः ।
हस्त-ग्राहं न ते ऽद्यापि राज-पुत्र्य् उपलक्षये
दृष्टः कश्चिन् नरः स्वप्ने श्यामः कमल-लोचनः ।
पीत-वासा बृहद्-बाहुर् योषितां हृदयं-गमः
तम् अहं मृगये कान्तं पाययित्वाधरं मधु ।
क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे
भ्प्_10.62.016।0 चित्रलेखोवाच
व्यसनं ते ऽपकर्षामि त्रि-लोक्यां यदि भाव्यते ।
तम् आनेष्ये वरं यस् ते मनो-हर्ता तम् आदिश
इत्य् उक्त्वा देव-गन्धर्व सिद्ध-चारण-पन्नगान् ।
दैत्य-विद्याधरान् यक्षान् मनुजांश् च यथालिखत्
मनुजेषु च सा वृष्नीन् शूरम् आनकदुन्दुभिम् ।
व्यलिखद् राम-कृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता
अनिरुद्धं विलिखितं वीक्ष्योषावाङ्-मुखी ह्रिया ।
सो ऽसाव् असाव् इति प्राह स्मयमाना मही-पते
चित्रलेखा तम् आज्ञाय पौत्रं कृष्णस्य योगिनी ।
ययौ विहायसा राजन् द्वारकां कृष्ण-पालिताम्
तत्र सुप्तं सु-पर्यङ्के प्राद्युम्निं योगम् आस्थिता ।
गृहीत्वा शोणित-पुरं सख्यै प्रियम् अदर्शयत्
सा च तं सुन्दर-वरं विलोक्य मुदितानना ।
दुष्प्रेक्ष्ये स्व-गृहे पुम्भी रेमे प्राद्युम्निना समम्
परार्ध्य-वासः-स्रग्-गन्ध- धूप-दीपासनादिभिः ।
पान-भोजन-भक्ष्यैश् च वाक्यैः शुश्रूषणार्चितः
गूढः कन्या-पुरे शश्वत्- प्रवृद्ध-स्नेहया तया ।
नाहर्-गणान् स बुबुधे ऊषयापहृतेन्द्रियः
तां तथा यदु-वीरेण भुज्यमानां हत-व्रताम् ।
हेतुभिर् लक्षयां चक्रुर् आपृईतां दुरवच्छदैः
भटा आवेदयां चक्रू राजंस् ते दुहितुर् वयम् ।
विचेष्टितं लक्षयाम कन्यायाः कुल-दूषणम्
अनपायिभिर् अस्माभिर् गुप्तायाश् च गृहे प्रभो ।
कन्याया दूषणं पुम्भिर् दुष्प्रेक्ष्याया न विद्महे
ततः प्रव्यथितो बाणो दुहितुः श्रुत-दूषणः ।
त्वरितः कन्यकागारं प्राप्तो ऽद्राक्षीद् यदूद्वहम्
कामात्मजं तं भुवनैक-सुन्दरं श्यामं पिशङ्गाम्बरम् अम्बुजेक्षणम् ।
बृहद्-भुजं कुण्डल-कुन्तल-त्विषा स्मितावलोकेन च मण्डिताननम्
दीव्यन्तम् अक्षैः प्रिययाभिनृम्णया तद्-अङ्ग-सङ्ग-स्तन-कुङ्कुम-स्रजम् ।
बाह्वोर् दधानं मधु-मल्लिकाश्रितां तस्याग्र आसीनम् अवेक्ष्य विस्मितः
स तं प्रविष्टं वृतम् आततायिभिर् भटैर् अनीकैर् अवलोक्य माधवः ।
उद्यम्य मौर्वं परिघं व्यवस्थितो यथान्तको दण्ड-धरो जिघांसया
जिघृक्षया तान् परितः प्रसर्पतः शुनो यथा शूकर-यूथपो ऽहनत् ।
ते हन्यमाना भवनाद् विनिर्गता निर्भिन्न-मूर्धोरु-भुजाः प्रदुद्रुवुः
तं नाग-पाशैर् बलि-नन्दनो बली घ्नन्तं स्व-सैन्यं कुपितो बबन्ध ह ।
ऊषा भृशं शोक-विषाद-विह्वला बद्धं निशम्याश्रु-कलाक्ष्य् अरौत्सीत्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0