भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.61

10.61.001

भ्प्_10.61.001।0 श्री-शुक उवाच
एकैकशस् ताः कृष्णस्य पुत्रान् दश-दशाबआः ।
अजीजनन्न् अनवमान् पितुः सर्वात्म-सम्पदा

10.61.002

गृहाद् अनपगं वीक्ष्य राज-पुत्र्यो ऽच्युतं स्थितम् ।
प्रेष्ठं न्यमंसत स्वं स्वं न तत्-तत्त्व-विदः स्त्रियः

10.61.007

चार्व्-अब्ज-कोश-वदनायत-बाहु-नेत्र- $ स-प्रेम-हास-रस-वीक्षित-वल्गु-जल्पैः &अम्प्;
सम्मोहिता भगवतो न मनो विजेतुं % स्वैर् विभ्रमैः समशकन् वनिता विभूम्नः ॥ भ्प्_10.61.003* ॥
स्मायावलोक-लव-दर्शित-भाव-हारि $ भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः &
स्मायावलोक-लव-दर्शित-भाव-हारि $ भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः &
पत्न्यस् तु शोडश-सहस्रम् अनङ्ग-बाणैर् % यस्येन्द्रियं विमथितुम् करणैर् न शेकुः ॥ भ्प्_10.61.004* ॥
इत्थं रमा-पतिम् अवाप्य पतिं स्त्रियस् ता $ ब्रह्मादयो ऽपि न विदुः पदवीं यदीयाम् &
इत्थं रमा-पतिम् अवाप्य पतिं स्त्रियस् ता $ ब्रह्मादयो ऽपि न विदुः पदवीं यदीयाम् &
भेजुर् मुदाविरतम् एधितयानुराग- % हासावलोक-नव-सङ्गम-लालसाद्यम् ॥ भ्प्_10.61.005* ॥
प्रत्युद्गमासन-वरार्हण-पाद-शौच- $ ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः &
प्रत्युद्गमासन-वरार्हण-पाद-शौच- $ ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः &
केश-प्रसार-शयन-स्नपनोपहार्यैः % दासी-शता अपि विभोर् विदधुः स्म दास्यम् ॥ भ्प्_10.61.006* ॥
तासां या दश-पुत्राणां कृष्ण-स्त्रीणां पुरोदिताः ।
अष्टौ महिष्यस् तत्-पुत्रान् प्रद्युम्नादीन् गृणामि ते

10.61.008

चारुदेष्णः सुदेष्णश् च चारुदेहश् च वीर्यवान् ।
सुचारुश् चारुगुप्तश् च भद्रचारुस् तथापरः

10.61.009

चारुचन्द्रो विचारुश् च चारुश् च दशमो हरेः ।
प्रद्युम्न-प्रमुखा जाता रुक्मिण्यां नावमाः पितुः

10.61.010

भानुः सुभानुः स्वर्भानुः प्रभानुर् भानुमांस् तथा ।
चन्द्रभानुर् बृहद्भानुर् अतिभानुस् तथाष्टमः

10.61.011

श्रीभानुः प्रतिभानुश् च सत्यभामात्मजा दश ।
साम्बः सुमित्रः पुरुजिच् छतजिच् च सहस्रजित्

10.61.012

विययश् चित्रकेतुश् च वसुमान् द्रविडः क्रतुः ।
जाम्बवत्याः सुता ह्य् एते साम्बाद्याः पितृ-सम्मताः

10.61.013

वीरश् चन्द्रो ऽश्वसेनश् च चित्रगुर् वेगवान् वृषः ।
आमः शङ्कुर् वसुः श्रीमान् कुन्तिर् नाग्नजितेः सुताः

10.61.014

श्रुतः कविर् वृषो वीरः सुबाहुर् भद्र एकलः ।
शान्तिर् दर्शः पूर्णमासः कालिन्द्याः सोमको ऽवरः

10.61.015

प्रघोषो गात्रवान् सिंहो बलः प्रबल ऊर्धगः ।
माद्र्याः पुत्रा महाशक्तिः सह ओजो ऽपराजितः

10.61.016

वृको हर्षो ऽनिलो गृध्रो वर्धनोन्नाद एव च ।
महांसः पावनो वह्निर् मित्रविन्दात्मजाः क्षुधिः

10.61.017

सङ्ग्रामजिद् बृहत्सेनः शूरः प्रहरणो ऽरिजित् ।
जयः सुभद्रो भद्राया वाम आयुश् च सत्यकः

10.61.018

दीप्तिमांस् ताम्रतप्ताद्या रोहिण्यास् तनया हरेः ।
प्रद्यम्नाच् चानिरुद्धो ऽभूद् रुक्मवत्यां महा-बलः ।
पुत्र्यां तु रुक्मिणो राजन् नाम्ना भोजकटे पुरे

10.61.019

एतेषां पुत्र-पौत्राश् च बभूवुः कोटिशो नृप ।
मातरः कृष्ण-जातीनां सहस्राणि च षोडश

10.61.020

भ्प्_10.61.020।0 श्री-राजोवाच
कथं रुक्म्य् अरी-पुत्राय प्रादाद् दुहितरं युधि ।
कृष्णेन परिभूतस् तं हन्तुं रन्ध्रं प्रतीक्षते ।
एतद् आख्याहि मे विद्वन् द्विषोर् वैवाहिकं मिथः

10.61.021

अनागतम् अतीतं च वर्तमानम् अतीन्द्रियम् ।
विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिनः

10.61.022

भ्प्_10.61.022।0 श्री-शुक उवाच
वृतः स्वयं-वरे साक्षाद् अनण्गो ऽण्ग-युतस् तया ।
राज्ञः समेतान् निर्जित्य जहारैक-रथो युधि

10.61.023

यद्य् अप्य् अनुस्मरन् वैरं रुक्मी कृष्णावमानितः ।
व्यतरद् भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम्

10.61.024

रुक्मिण्यास् तनयां राजन् कृतवर्म-सुतो बली ।
उपयेमे विशालाक्षीं कन्यां चारुमतीं किल

10.61.025

दौहित्रायानिरुद्धाय पौत्रीं रुक्म्य् आददाद् धरेः ।
रोचनां बद्ध-वैरो ऽपि स्वसुः प्रिय-चिकीर्षया ।
जानन्न् अधर्मं तद् यौनं स्नेह-पाशानुबन्धनः

10.61.026

तस्मिन्न् अभ्युदये राजन् रुक्मिणी राम-केशवौ ।
पुरं भोजकटं जग्मुः साम्ब-प्रद्युम्नकादयः

10.61.027

तस्मिन् निवृत्त उद्वाहे कालिङ्ग-प्रमुखा नृपाः ।
दृप्तास् ते रुक्मिणं प्रोचुर् बलम् अक्षैर् विनिर्जय

10.61.028

अनक्ष-ज्ञो ह्य् अयं राजन्न् अपि तद्-व्यसनं महत् ।
इत्य् उक्तो बलम् आहूय तेनाक्षैर् रुक्म्य् अदीव्यत

10.61.029

शतं सहस्रम् अयुतं रामस् तत्राददे पणम् ।
तं तु रुक्म्य् अजयत् तत्र कालिङ्गः प्राहसद् बलम् ।
दन्तान् सन्दर्शयन्न् उच्चैर् नामृष्यत् तद् धलायुधः

10.61.030

ततो लक्षं रुक्म्य् अगृह्णाद् ग्लहं तत्राजयद् बलः ।
जितवान् अहम् इत्य् आह रुक्मी कैतवम् आश्रितः

10.61.031

मन्युना क्षुभितः श्रीमान् समुद्र इव पर्वणि ।
जात्यारुणाक्षो ऽति-रुषा न्यर्बुदं ग्लहम् आददे

10.61.032

तं चापि जितवान् रामो धर्मेण छलम् आश्रितः ।
रुक्मी जितं मयात्रेमे वदन्तु प्राश्निका इति

10.61.033

तदाब्रवीन् नभो-वाणी बलेनैव जितो ग्लहः ।
धर्मतो वचनेनैव रुक्मी वदति वै मृषा

10.61.034

ताम् अनादृत्य वैदर्भो दुष्ट-राजन्य-चोदितः ।
सङ्कर्षणं परिहसन् बभाषे काल-चोदितः

10.61.035

नैवाक्ष-कोविदा यूयं गोपाला वन-गोचराः ।
अक्षैर् दीव्यन्ति राजानो बाणैश् च न भवादृशाः

10.61.036

रुक्मिणैवम् अधिक्षिप्तो राजभिश् चोपहासितः ।
क्रुद्धः परिघम् उद्यम्य जघ्ने तं नृम्ण-संसदि

10.61.037

कलिङ्ग-राजं तरसा गृहीत्वा दशमे पदे ।
दन्तान् अपातयत् क्रुद्धो यो ऽहसद् विवृतैर् द्विजैः

10.61.038

अन्ये निर्भिन्न-बाहूरु- शिरसो रुधिरोक्षिताः ।
राजानो दुद्रवर् भीता बलेन पङ्घार्दिताः

10.61.039

निहते रुक्मिणि श्याले नाब्रवीत् साध्व् असाधु वा ।
रक्मिणी-बलयो राजन् स्नेह-भङ्ग-भयाद् धरिः

10.61.040

ततो ऽनिरुद्धं सह सूर्यया वरं रथं समारोप्य ययुः कुशस्थलीम् ।
रामादयो भोजकटाद् दशार्हाः सिद्धाखिलार्था मधुसूदनाश्रयाः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc