भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.60

10.60.001

इत्थं रमा-पतिम् अवाप्य पतिं स्त्रियस् ता $ ब्रह्मादयो ऽपि न विदुः पदवीं यदीयाम् &अम्प्;
भेजुर् मुदाविरतम् एधितयानुराग % हासावलोक-नव-सङ्गम-जल्प-लज्जाः ॥ भ्प्_10.59.044* ॥
प्रत्युद्गमासन-वरार्हण-पद-शौच- $ ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः &
प्रत्युद्गमासन-वरार्हण-पद-शौच- $ ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः &
केश-प्रसार-शयन-स्नपनोपहार्यैः % दासी-शता अपि विभोर् विदधुः स्म दास्यम् ॥ भ्प्_10.59.045*
0 श्री-बादरायणिर् उवाच
कर्हिचित् सुखम् आसीनं स्व-तल्प-स्थं जगद्-गुरुम् ।
पतिं पर्यचरद् भैष्मी व्यजनेन सखी-जनैः

10.60.002

यस् त्व् एतल् लीलया विश्वं सृजत्य् अत्त्य् अवतीश्वरः ।
स हि जातः स्व-सेतूनां गोपीथाय यदुष्व् अजः

10.60.003

तस्मिन् अन्तर्-गृहे भ्राजन्- मुक्ता-दाम-विलम्बिना ।
विराजिते वितानेन दीपैर् मणि-मयैर् अपि

10.60.004

मल्लिका-दामभिः पुष्पैर् द्विरेफ-कुल-नादिते ।
जाल-रन्ध्र-प्रविष्टैश् च गोभिश् चन्द्रमसो ऽमलैः

10.60.005

पारिजात-वनामोद- वायुनोद्यान-शालिना ।
धूपैर् अगुरु-जै राजन् जाल-रन्ध्र-विनिर्गतैः

10.60.006

पयः-फेन-निभे शुभ्रे पर्यङ्के कशिपूत्तमे ।
उपतस्थे सुखासीनं जगताम् ईश्वरं पतिम्

10.60.007

वाल-व्यजनम् आदाय रत्न-दण्डं सखी-करात् ।
तेन वीजयती देवी उपासां चक्र ईश्वरम्

10.60.010

सोपाच्युतं क्वणयती मणि-नूपुराभ्यां $ रेजे ऽङ्गुलीय-वलय-व्यजनाग्र-हस्ता &अम्प्;
वस्त्रान्त-गूढ-कुच-कुङ्कुम-शोण-हार- % भासा नितम्ब-धृतया च परार्ध्य-काञ्च्या ॥ भ्प्_10.60.008* ॥
तां रूपिणीं श्रीयम् अनन्य-गतिं निरीक्ष्य $ या लीलया धृत-तनोर् अनुरूप-रूपा &
तां रूपिणीं श्रीयम् अनन्य-गतिं निरीक्ष्य $ या लीलया धृत-तनोर् अनुरूप-रूपा &
प्रीतः स्मयन्न् अलक-कुण्डल-निष्क-कण्ठ- % वक्त्रोल्लसत्-स्मित-सुधां हरिर् आबभाषे ॥ भ्प्_10.60.009*
0 श्री-भगवान् उवाच
राज-पुत्रीप्सिता भूपैर् लोक-पाल-विभूतिभिः ।
महानुभावैः श्रीमद्भी रूपौदार्य-बलोर्जितैः

10.60.011

तान् प्राप्तान् अर्थिनो हित्वा चैद्यादीन् स्मर-दुर्मदान् ।
दत्ता भ्रात्रा स्व-पित्रा च कस्मान् नो ववृषे ऽसमान्

10.60.012

राजभ्यो बिभ्यतः सु-भ्रु समुद्रं शरणं गतान् ।
बलवद्भिः कृत-द्वेषान् प्रायस् त्यक्त-नृपासनान्

10.60.013

अस्पष्ट-वर्त्मनाम् पुंसाम् अलोक-पथम् ईयुषाम् ।
आस्थिताः पदवीं सु-भ्रु प्रायः सीदन्ति योषितः

10.60.014

निष्किञ्चना वयं शश्वन् निष्किञ्चन-जन-प्रियाः ।
तस्मा त्प्रायेण न ह्य् आढ्या मां भजन्ति सु-मध्यमे

10.60.015

ययोर् आत्म-समं वित्तं जन्मैश्वर्याकृतिर् भवः ।
तयोर् विवाहो मैत्री च नोत्तमाधमयोः क्वचित्

10.60.016

वैदर्भ्य् एतद् अविज्ञाय त्वयादीर्घ-समीक्षया ।
वृता वयं गुणैर् हीना भिक्षुभिः श्लाघिता मुधा

10.60.017

अथात्मनो ऽनुरूपं वै भजस्व क्षत्रियर्षभम् ।
येन त्वम् आशिषः सत्या इहामुत्र च लप्स्यसे

10.60.018

चैद्य-शाल्व-जरासन्ध दन्तवक्रादयो नृपाः ।
मम द्विषन्ति वामोरु रुक्मी चापि तवाग्रजः

10.60.019

तेषां वीर्य-मदान्धानां दृप्तानां स्मय-नुत्तये ।
आनितासि मया भद्रे तेजोपहरतासताम्

10.60.020

उदासीना वयं नूनं न स्त्र्य्-अपत्यार्थ-कामुकाः ।
आत्म-लब्ध्यास्महे पूर्णा गेहयोर् ज्योतिर्-अक्रियाः

10.60.021

भ्प्_10.60.021।0 श्री-शुक उवाच
एतावद् उक्त्वा भगवान् आत्मानं वल्लभाम् इव ।
मन्यमानाम् अविश्लेषात् तद्-दर्प-घ्न उपारमत्

10.60.022

इति त्रिलोकेश-पतेस् तदात्मनः प्रियस्य देव्य् अश्रुत-पूर्वम् अप्रियम् ।
आश्रुत्य भीता हृदि जात-वेपथुश् चिन्तां दुरन्तां रुदती जगाम ह

10.60.023

पदा सु-जातेन नखारुण-श्रीया भुवं लिखन्त्य् अश्रुभिर् अञ्जनासितैः ।
आसिञ्चती कुङ्कुम-रूषितौ स्तनौ तस्थाव् अधो-मुख्य् अति-दुःख-रुद्ध-वाक्

10.60.025

तस्याः सु-दुःख-भय-शोक-विनष्ट-बुद्धेर् $ हस्ताच् छ्लथद्-वलयतो व्यजनं पपात &अम्प्;
देहश् च विक्लव-धियः सहसैव मुह्यन् % रम्भेव वायु-विहतो प्रविकीर्य केशान् ॥ भ्प्_10.60.024* ॥
तद् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम् ।
हास्य-प्रौढिम् अजानन्त्याः करुणः सो ऽन्वकम्पत

10.60.026

पर्यङ्काद् अवरुह्याशु ताम् उत्थाप्य चतुर्-भुजः ।
केशान् समुह्य तद्-वक्त्रं प्रामृजत् पद्म-पाणिना

10.60.027

प्रमृज्याश्रु-कले नेत्रे स्तनौ चोपहतौ शुचा ।
आश्लिष्य बाहुना राजन् अनन्य-विषयां सतीम्

10.60.028

सान्त्वयाम् आस सान्त्व-ज्ञः कृपया कृपणां प्रभुः ।
हास्य-प्रौढि-भ्रमच्-चित्ताम् अतद्-अर्हां सतां गतिः

10.60.029

भ्प्_10.60.029।0 श्री-भगवान् उवाच
मा मा वैदर्भ्य् असूयेथा जाने त्वां मत्-परायणाम् ।
त्वद्-वचः श्रोतु-कामेन क्ष्वेल्याचरितम् अङ्गने

10.60.030

मुखं च प्रेम-संरम्भ- स्फुरिताधरम् ईक्षितुम् ।
कटा-क्षेपारुणापाङ्गं सुन्दर-भ्रु-कुटी-तटम्

10.60.031

अयं हि परमो लाभो गृहेषु गृह-मेधिनाम् ।
यन् नर्मैर् ईयते यामः प्रियया भीरु भामिनि

10.60.032

भ्प्_10.60.032।0 श्री-शुक उवाच
सैवं भगवता राजन् वैदर्भी परिसान्त्विता ।
ज्ञात्वा तत्-परिहासोक्तिं प्रिय-त्याग-भयं जहौ

10.60.033

बभाष ऋषभं पुंसां वीक्षन्ती भगवन्-मुखम् ।
स-व्रीड-हास-रुचिर- स्निग्धापाङ्गेन भारत

10.60.034

भ्प्_10.60.034।0 श्री-रुक्मिण्य् उवाच
नन्व् एवम् एतद् अरविन्द-विलोचनाह यद् वै भवान् भगवतो ऽसदृशी विभूम्नः ।
क्व स्वे महिम्न्य् अभिरतो भगवांस् त्र्य्-अधीशः क्वाहं गुण-प्रकृतिर् अज्ञ-गृहीत-पादा

10.60.047

सत्यं भयाद् इव गुणेभ्य उरुक्रमान्तः $ शेते समुद्र उपलम्भन-मात्र आत्मा &अम्प्;
नित्यं कद्-इन्द्रिय-गणैः कृत-विग्रहस् त्वं % त्वत्-सेवकैर् नृप-पदं विधुतं तमो ऽन्धम् ॥ भ्प्_10.60.035* ॥
त्वत्-पाद-पद्म-मकरन्द-जुषां मुनीनां $ वर्त्मास्फुटं न्र्-पशुभिर् ननु दुर्विभाव्यम् &
त्वत्-पाद-पद्म-मकरन्द-जुषां मुनीनां $ वर्त्मास्फुटं न्र्-पशुभिर् ननु दुर्विभाव्यम् &
यस्माद् अलौकिकम् इवेहितम् ईश्वरस्य % भूमंस् तवेहितम् अथो अनु ये भवन्तम् ॥ भ्प्_10.60.036* ॥
निष्किञ्चनो ननु भवान् न यतो ऽस्ति किञ्चिद् $ यस्मै बलिं बलि-भुजो ऽपि हरन्त्य् अजाद्याः &
निष्किञ्चनो ननु भवान् न यतो ऽस्ति किञ्चिद् $ यस्मै बलिं बलि-भुजो ऽपि हरन्त्य् अजाद्याः &
न त्वा विदन्त्य् असु-तृपो ऽन्तकम् आढ्यतान्धाः % प्रेष्ठो भवान् बलि-भुजाम् अपि ते ऽपि तुभ्यम् ॥ भ्प्_10.60.037* ॥
त्वं वै समस्त-पुरुषार्थ-मयः फलात्मा $ यद्-वाञ्छया सु-मतयो विसृजन्ति कृत्स्नम् &
त्वं वै समस्त-पुरुषार्थ-मयः फलात्मा $ यद्-वाञ्छया सु-मतयो विसृजन्ति कृत्स्नम् &
तेषां विभो समुचितो भवतः समाजः % पुंसः स्त्रियाश् च रतयोः सुख-दुःखिनोर् न ॥ भ्प्_10.60.038* ॥
त्वं न्यस्त-दण्ड-मुनिभिर् गदितानुभाव $ आत्मात्म-दश् च जगताम् इति मे वृतो ऽसि &
त्वं न्यस्त-दण्ड-मुनिभिर् गदितानुभाव $ आत्मात्म-दश् च जगताम् इति मे वृतो ऽसि &
हित्वा भवद्-भ्रुव उदीरित-काल-वेग- % ध्वस्ताशिषो ऽब्ज-भव-नाक-पतीन् कुतो ऽन्ये ॥ भ्प्_10.60.039* ॥
जाड्यं वचस् तव गदाग्रज यस् तु भूपान् $ विद्राव्य शार्ङ्ग-निनदेन जहर्थ मां त्वम् &
जाड्यं वचस् तव गदाग्रज यस् तु भूपान् $ विद्राव्य शार्ङ्ग-निनदेन जहर्थ मां त्वम् &
सिंहो यथा स्व-बलिम् ईश पशून् स्व-भागं % तेभ्यो भयाद् यद् उदधिं शरणं प्रपन्नः ॥ भ्प्_10.60.040* ॥
यद्-वाञ्छया नृप-शिखामणयो ऽन्ग-वैन्य- $ जायन्त-नाहुष-गयादय ऐक्य-पत्यम् &
यद्-वाञ्छया नृप-शिखामणयो ऽन्ग-वैन्य- $ जायन्त-नाहुष-गयादय ऐक्य-पत्यम् &
राज्यं विसृज्य विविशुर् वनम् अम्बुजाक्ष % सीदन्ति ते ऽनुपदवीं त इहास्थिताः किम् ॥ भ्प्_10.60.041* ॥
कान्यं श्रयेत तव पाद-सरोज-गन्धम् $ आघ्राय सन्-मुखरितं जनतापवर्गम् &
कान्यं श्रयेत तव पाद-सरोज-गन्धम् $ आघ्राय सन्-मुखरितं जनतापवर्गम् &
लक्ष्म्य्-आलयं त्व् अविगणय्य गुणालयस्य % मर्त्या सदोरु-भयम् अर्थ-विविइत-दृष्टिः ॥ भ्प्_10.60.042* ॥
तं त्वानुरूपम् अभजं जगताम् अधीशम् $ आत्मानम् अत्र च परत्र च काम-पूरम् &
तं त्वानुरूपम् अभजं जगताम् अधीशम् $ आत्मानम् अत्र च परत्र च काम-पूरम् &
स्यान् मे तवाङ्घ्रिर् अरणं सृतिभिर् भ्रमन्त्या % यो वै भजन्तम् उपयात्य् अनृतापवर्गः ॥ भ्प्_10.60.043* ॥
तस्याः स्युर् अच्युत नृपा भवतोपदिष्टाः $ स्त्रीणां गृहेषु खर-गो-श्व-विडाल-भृत्याः &
तस्याः स्युर् अच्युत नृपा भवतोपदिष्टाः $ स्त्रीणां गृहेषु खर-गो-श्व-विडाल-भृत्याः &
यत्-कर्ण-मूलम् अन्-कर्षण नोपयायाद् % युष्मत्-कथा मृड-विरिञ्च-सभासु गीता ॥ भ्प्_10.60.044* ॥
त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर् $ मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् &
त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर् $ मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् &
जीवच्-छवं भजति कान्त-मतिर् विमूढा % या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥ भ्प्_10.60.045* ॥
अस्त्व् अम्बुजाक्ष मम ते चरणानुराग $ आत्मन् रतस्य मयि चानतिरिक्त-दृष्टेः &
अस्त्व् अम्बुजाक्ष मम ते चरणानुराग $ आत्मन् रतस्य मयि चानतिरिक्त-दृष्टेः &
यर्ह्य् अस्य वृद्धय उपात्त-रजो-ऽति-मात्रो % माम् ईक्षसे तद् उ ह नः परमानुकम्पा ॥ भ्प्_10.60.046* ॥
नैवालीकम् अहं मन्ये वचस् ते मधुसूदन ।
अम्बाया एव हि प्रायः कन्यायाः स्याद् रतिः क्वचित्

10.60.048

व्यूढायाश् चापि पुंश्चल्या मनो ऽभ्येति नवं नवम् ।
बुधो ऽसतीं न बिभृयात् तां बिभ्रद् उभय-च्युतः

10.60.049

भ्प्_10.60.049।0 श्री-भगवान् उवाच
साध्व्य् एतच्-छ्रोतु-कामैस् त्वं राज-पुत्री प्रलम्भिता ।
मयोदितं यद् अन्वात्थ सर्वं तत् सत्यम् एव हि

10.60.050

यान् यान् कामयसे कामान् मय्य् अकामाय भामिनि ।
सन्ति ह्य् एकान्त-भक्तायास् तव कल्याणि नित्यद

10.60.051

उपलब्धं पति-प्रेम पाति-व्रत्यं च ते ऽनघे ।
यद् वाक्यैश् चाल्यमानाया न धीर् मय्य् अपकर्षिता

10.60.052

ये मां भजन्ति दाम्पत्ये तपसा व्रत-चर्यया ।
कामात्मानो ऽपवर्गेशं मोहिता मम मायया

10.60.054

मां प्राप्य मानिन्य् अपवर्ग-सम्पदं $ वाञ्छन्ति ये सम्पद एव तत्-पतिम् &अम्प्;
ते मन्द-भागा निरये ऽपि ये नृणां % मात्रात्मकत्वात् निरयः सु-सङ्गमः ॥ भ्प्_10.60.053* ॥
दिष्ट्या गृहेश्वर्य् असकृन् मयि त्वया कृतानुवृत्तिर् भव-मोचनी खलैः ।
सु-दुष्करासौ सुतरां दुराशिषो ह्य् असुं-भराया निकृतिं जुषः स्त्रियाः

10.60.058

न त्वादृशीम् प्रणयिनीं गृहिणीं गृहेषु $ पश्यामि मानिनि यया स्व-विवाह-काले &अम्प्;
प्राप्तान् नृपान् न विगणय्य रहो-हरो मे % प्रस्थापितो द्विज उपश्रुत-सत्-कथस्य ॥ भ्प्_10.60.055* ॥
भ्रातुर् विरूप-करणं युधि निर्जितस्य $ प्रोद्वाह-पर्वणि च तद्-वधम् अक्ष-गोष्ठ्याम् &
भ्रातुर् विरूप-करणं युधि निर्जितस्य $ प्रोद्वाह-पर्वणि च तद्-वधम् अक्ष-गोष्ठ्याम् &
दुःखं समुत्थम् असहो ऽस्मद्-अयोग-भीत्या % नैवाब्रवीः किम् अपि तेन वयं जितास् ते ॥ भ्प्_10.60.056* ॥
दूतस् त्वयात्म-लभने सु-विविक्त-मन्त्रः $ प्रस्थापितो मयि चिरायति शून्यम् एतत् &
दूतस् त्वयात्म-लभने सु-विविक्त-मन्त्रः $ प्रस्थापितो मयि चिरायति शून्यम् एतत् &
मत्वा जिहास इदं अङ्गम् अनन्य-योग्यं % तिष्ठेत तत् त्वयि वयं प्रतिनन्दयामः ॥ भ्प्_10.60.057*
0 श्री-शुक उवाच
एवं सौरत-संलापैर् भगवान् जगद्-ईश्वरः ।
स्व-रतो रमया रेमे नर-लोकं विडम्बयन्

10.60.059

तथान्यासाम् अपि विभुर् गृहेसु गृहवान् इव ।
आस्थितो गृह-मेधीयान् धर्मान् लोक-गुरुर् हरिः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc