भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.59

10.59.001

श्री-राजोवाच यथा हतो भगवता भौमो येने च ताः स्त्रियः ।
निरुद्धा एतद् आचक्ष्व विक्रमं शार्ङ्ग-धन्वनः

10.59.002

भ्प्_10.59.002।0 श्री-शुक उवाच
इन्द्रेण हृत-छत्रेण हृत-कुण्डल-बन्धुना ।
हृतामराद्रि-स्थानेन ज्ञापितो भौम-चेष्टितम्

10.59.003

स-भार्यो गरुडारूढः प्राग्-ज्योतिष-पुरं ययौ ।
गिरि-दुर्गैः शस्त्र-दुर्गैर् जलाग्न्य्-अनिल-दुर्गमम् ।
मुर-पाशायुतैर् घोरैर् दृढैः सर्वत आवृतम्

10.59.004

गदया निर्बिभेदाद्रीन् शस्त्र-दुर्गाणि सायकैः ।
चक्रेणाग्निं जलं वायुं मुर-पाशांस् तथासिना

10.59.005

शङ्ख-नादेन यन्त्राणि हृदयानि मनस्विनाम् ।
प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः

10.59.006

पाञ्चजन्य-ध्वनिं श्रुत्वा युगान्तशनि-भीषणम् ।
मुरः शयान उत्तस्थौ दैत्यः पञ्च-शिरा जलात्

10.59.007

त्रि-शूलम् उद्यम्य सु-दुर्निरीक्षणो युगान्त-सूर्यानल-रोचिर् उल्बणः ।
ग्रसंस् त्रि-लोकीम् इव पञ्चभिर् मुखैर् अभ्यद्रवत् तार्क्ष्य-सुतं यथोरगः

10.59.008

आविध्य शूलं तरसा गरुत्मते निरस्य वक्त्रैर् व्यनदत् स पञ्चभिः ।
स रोदसी सर्व-दिशो ऽम्बरं महान् आपूरयन्न् अण्ड-कटाहम् आवृणोत्

10.59.009

तदापतद् वै त्रि-शिखं गरुत्मते हरिः शराभ्याम् अभिनत् त्रिधोजसा ।
मुखेषु तं चापि शरैर् अताडयत् तस्मै गदां सो ऽपि रुषा व्यमुञ्चत

10.59.010

ताम् आपतन्तीं गदया गदां मृधे गदाग्रजो निर्बिभिदे सहस्रधा ।
उद्यम्य बाहून् अभिधावतो ऽजितः शिरांसि चक्रेण जहार लीलया

10.59.011

व्यसुः पपाताम्भसि कृत्त-शीर्षो निकृत्त-शृङ्गो ऽद्रिर् इवेन्द्र-तेजसा ।
तस्यात्मजाः सप्त पितुर् वधातुराः प्रतिक्रियामर्ष-जुषः समुद्यताः

10.59.013

ताम्रो ऽन्तरिक्षः श्रवणो विभावसुर् $ वसुर् नभस्वान् अरुणश् च सप्तमः &अम्प्;
पीठं पुरस्कृत्य चमू-पतिं मृधे % भौम-प्रयुक्ता निरगन् धृतायुधाः ॥ भ्प्_10.59.012* ॥
प्रायुञ्जतासाद्य शरान् असीन् गदाः शक्त्य्-ऋष्टि-शूलान्य् अजिते रुषोल्बणाः ।
तच्-छस्त्र-कूटं भगवान् स्व-मार्गणैर् अमोघ-वीर्यस् तिलशश् चकर्त ह

10.59.017

तान् पीठ-मुख्यान् अनयद् यम-क्षयं $ निकृत्त-शीर्षोरु-भुजाङ्घ्रि-वर्मणः &
स्वानीक-पान् अच्युत-चक्र-सायकैस् % तथा निरस्तान् नरको धरा-सुतः \
निरीक्ष्य दुर्मर्षण आस्रवन्-मदैर् # गजैः पयोधि-प्रभवैर् निराक्रमात् ॥ भ्प्_10.59.014* ॥
दृष्ट्वा स-भार्यं गरुडोपरि स्थितं $ सूर्योपरिष्टात् स-तडिद् घनं यथा &अम्प्;
कृष्णं स तस्मै व्यसृजच् छत-घ्नीं % योधाश् च सर्वे युगपच् च विव्यधुः ॥ भ्प्_10.59.015* ॥
तद् भौम-सैन्यं भगवान् गदाग्रजो $ विचित्र-वाजैर् निशितैः शिलीमुखैः &
तद् भौम-सैन्यं भगवान् गदाग्रजो $ विचित्र-वाजैर् निशितैः शिलीमुखैः &
निकृत्त-बाहूरु-शिरोध्र-विग्रहं % चकार तर्ह्य् एव हताश्व-कुञ्जरम् ॥ भ्प्_10.59.016* ॥
यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह ।
हरिस् तान्य् अच्छिनत् तीक्ष्णैः शरैर् एकैकशस् त्रीभिः

10.59.018

उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान् ।
गुरुत्मता हन्यमानास् तुण्ड-पक्ष-नखेर् गजाः

10.59.019

पुरम् एवाविशन्न् आर्ता नरको युध्य् अयुध्यत ।
दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकं

10.59.020

तं भौमः प्राहरच् छक्त्या वज्रः प्रतिहतो यतः ।
नाकम्पत तया विद्धो मालाहत इव द्विपः

10.59.021

शूलं भौमो ऽच्युतं हन्तुम् आददे वितथोद्यमः ।
तद्-विसर्गात् पूर्वम् एव नरकस्य शिरो हरिः ।
अपाहरद् गज-स्थस्य चक्रेण क्षुर-नेमिना

10.59.022

स-कुण्डलं चारु-किरीट-भूषणं बभौ पृथिव्यां पतितम् समुज्ज्वलम् ।
ह हेति साध्व् इत्य् ऋषयः सुरेश्वरा माल्यैर् मुकुन्दं विकिरन्त ईदिरे

10.59.024

ततश् च भूः कृष्णम् उपेत्य कुण्डले $ प्रतप्त-जाम्बूनद-रत्न-भास्वरे &अम्प्;
स-वैजयन्त्या वन-मालयार्पयत् % प्राचेतसं छत्रम् अथो महा-मणिम् ॥ भ्प्_10.59.023* ॥
अस्तौषीद् अथ विश्वेशं देवी देव-वरार्चितम् ।
प्राञ्जलिः प्रणता राजन् भक्ति-प्रवणया धिया

10.59.025

भ्प्_10.59.025।0 भूमिर् उवाच
नमस् ते देव-देवेश शङ्ख-चक्र-गदा-धर ।
भक्तेच्छोपात्त-रूपाय परमात्मन् नमो ऽस्तु ते

10.59.026

नमः पङ्कज-नाभाय नमः पङ्कज-मालिने ।
नमः पङ्कज-नेत्राय नमस् तेपङ्कजाङ्घ्रये

10.59.027

नमो भगवते तुभ्यं वासुदेवाय विष्णवे ।
पुरुषायादि-बीजाय पूर्ण-बोधाय ते नमः

10.59.028

अजाय जनयित्रे ऽस्य ब्रह्मणे ऽनन्त-शक्तये ।
परावरात्मन् भूतात्मन् परमात्मन् नमो ऽस्तु ते

10.59.030

त्वं वै सिसृक्षुर् अज उत्कटं प्रभो $ तमो निरोधाय बिभर्ष्य् असंवृतः &अम्प्;
स्थानाय सत्त्वं जगतो जगत्-पते % कालः प्रधानं पुरुषो भवान् परः ॥ भ्प्_10.59.029* ॥
अहं पयो ज्योतिर् अथानिलो नभो मात्राणि देवा मन इन्द्रियाणि ।
कर्ता महान् इत्य् अखिलं चराचरं त्वय्य् अद्वितीये भगवन् अयं भ्रमः

10.59.031

तस्यात्मजो ऽयं तव पाद-पङ्कजं भीतः प्रपन्नार्ति-हरोपसादितः ।
तत् पालयैनं कुरु हस्त-पङ्कजं शिरस्य् अमुष्याखिल-कल्मषापहम्

10.59.032

भ्प्_10.59.032।0 श्री-शुक उवाच
इति भूम्य्-अर्थितो वाग्भिर् भगवान् भक्ति-नम्रया ।
दत्त्वाभयं भौम-गृहम् प्राविशत् सकलर्द्धिमत्

10.59.033

तत्र राजन्य-कन्यानां षट्-सहस्राधिकायुतम् ।
भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः

10.59.034

तम् प्रविष्टं स्त्रियो वीक्ष्य नर-वर्यं विमोहिताः ।
मनसा वव्रिरे ऽभीष्टं पतिं दैवोपसादितम्

10.59.035

भूयात् पतिर् अयं मह्यं धाता तद् अनुमोदताम् ।
इति सर्वाः पृथक् कृष्णे भावेन हृदयं दधुः

10.59.036

ताः प्राहिणोद् द्वारवतीं सु-मृष्ट-विरजो-ऽम्बराः ।
नर-यानैर् महा-कोशान् रथाश्वान् द्रविणं महात्

10.59.037

ऐरावत-कुलेभांश् च चतुर्-दन्तांस् तरस्विनः ।
पाण्डुरांश् च चतुः-षष्टिं प्रेरयाम् आस केशवः

10.59.038

गत्वा सुरेन्द्र-भवनं दत्त्वादित्यै च कुण्डले ।
पूजितस् त्रिदशेन्द्रेण महेन्द्र्याण्या च स-प्रियः

10.59.039

चोदितो भार्ययोत्पाट्य पारीजातं गरुत्मति ।
आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत् पुरम्

10.59.040

स्थापितः सत्यभामाया गृहोद्यानोपशोभनः ।
अन्वगुर् भ्रमराः स्वर्गात् तद्-गन्धासव-लम्पटाः

10.59.041

ययाच आनम्य किरीट-कोटिभिः पादौ स्पृशन्न् अच्युतम् अर्थ-साधनम् ।
सिद्धार्थ एतेन विगृह्यते महान् अहो सुराणां च तमो धिग् आढ्यताम्

10.59.042

अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः ।
यथोपयेमे भगवान् तावद्-रूप-धरो ऽव्ययः

10.59.043

गृहेषु तासाम् अनपाय्य् अतर्क-कृन् निरस्त-साम्यातिशयेष्व् अवस्थितः ।
रेमे रमाभिर् निज-काम-सम्प्लुतो यथेतरो गार्हक-मेधिकांश् चरन्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc