भागवत पुराण · अध्याय 10.58
यस् त्व् एतद् भगवत ईश्वरस्य विष्णोर् $ वीर्याढ्यं वृजिन-हरं सु-मङ्गलं च &अम्प्;
आख्यानं पठति शृणोत्य् अनुस्मरेद् वा % दुष्कीर्तिं दुरितम् अपोह्य याति शान्तिम् ॥ भ्प्_10.57.042*
0 श्री-शुक उवाच
एकदा पाण्डवान् द्रष्टुं प्रतीतान् पुरुषोत्तमः ।
इन्द्रप्रस्थं गतः शृईमान् युयुधानादिभिर् वृतः
दृष्ट्वा तम् आगतं पार्था मुकुन्दम् अखिलेश्वरम् ।
उत्तस्थुर् युगपद् वीराः प्राणा मुख्यम् इवागतम्
परिष्वज्याच्युतं वीरा अङ्ग-सङ्ग-हतैनसः ।
सानुराग-स्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः
युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम् ।
फाल्गुनं परिरभ्याथ यमाभ्यां चाभिवन्दितः
परमासन आसीनं कृष्णा कृष्णम् अनिन्दिता ।
नवोढा व्रीडिता किञ्चिच् छनैर् एत्याभ्यवन्दत
तथैव सात्यकिः पार्थैः पूजितश् चाभिवन्दितः ।
निषसादासने ऽन्ये च पूजिताः पर्युपासत
पृथाम् समागत्य कृताभिवादनस् तयाति-हार्दार्द्र-दृशाभिरम्भितः ।
आपृष्टवांस् तां कुशलं सह-स्नुषां पितृ-ष्वसारम् परिपृष्ट-बान्धवः
तम् आह प्रेम-वैक्लव्य- रुद्ध-कण्ठाश्रु-लोचना ।
स्मरन्ती तान् बहून् क्लेशान् क्लेशापायात्म-दर्शनम्
तदैव कुशलं नो ऽभूत् स-नाथास् ते कृता वयम् ।
ज्ञतीन् नः स्मरता कृष्ण भ्राता मे प्रेषितस् त्वया
न ते ऽस्ति स्व-पर-भ्रान्तिर् विश्वस्य सुहृद्-आत्मनः ।
तथापि स्मरतां शश्वत् क्लेशान् हंसि हृदि स्थितः
भ्प्_10.58.011।0 युधिष्ठिर उवाच
किं न आचरितं श्रेयो न वेदाहम् अधीश्वर ।
योगेश्वराणां दुर्दर्शो यन् नो दृष्टः कु-मेधसाम्
इति वै वार्षिकान् मासान् राज्ञा सो ऽभ्यर्थितः सुखम् ।
जनयन् नयनानन्दम् इन्द्रप्रस्थौकसां विभुः
एकदा रथम् आरुह्य विजयो वानर-ध्वजम् ।
गाण्डीवं धनुर् आदाय तूणौ चाक्षय-सायकौ
साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत् ।
बहु-व्याल-मृगाकीर्णं प्राविशत् पर-वीर-हा
तत्राविध्यच् छरैर् व्याघ्रान् शूकरान् महिषान् रुरून् ।
शरभान् गवयान् खड्गान् हरिणान् शश-शल्लकान्
तान् निन्युः किङ्करा राज्ञे मेध्यान् पर्वण्य् उपागते ।
तृट्-परीतः परिश्रान्तो बिभत्सुर् यमुनाम् अगात्
तत्रोपस्पृश्य विशदं पीत्वा वारि महा-रथौ ।
कृष्णौ ददृशतुः कन्यां चरन्तीं चारु-दर्शनाम्
ताम् आसाद्य वरारोहां सु-द्विजां रुचिराननाम् ।
पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम्
का त्वं कस्यासि सु-श्रोणि कुतो वा किं चिकीर्षसि ।
मन्ये त्वां पतिम् इच्छन्तीं सर्वं कथय शोभने
भ्प्_10.58.020।0 श्री-कालिन्द्य् उवाच
अहं देवस्य सवितुर् दुहिता पतिम् इच्छती ।
विष्णुं वरेण्यं वर-दं तपः परमम् आस्थितः
नान्यं पतिं वृणे वीर तम् ऋते श्री-निकेतनम् ।
तुष्यतां मे स भगवान् मुकुन्दो ऽनाथ-संश्रयः
कालिन्दीति समाख्याता वसामि यमुना-जले ।
निर्मिते भवने पित्रा यावद् अच्युत-दर्शनम्
तथावदद् गुडाकेशो वासुदेवाय सो ऽपि ताम् ।
रथम् आरोप्य तद्-विद्वान् धर्म-राजम् उपागमत्
यदैव कृष्णः सन्दिष्टः पार्थानां परमाद्बुतम् ।
कारयाम् आस नगरं विचित्रं विश्वकर्मणा
भगवांस् तत्र निवसन् स्वानां प्रिय-चिकीर्षया ।
अग्नये खाण्डवं दातुम् अर्जुनस्यास सारथिः
सो ऽग्निस् तुष्टो धनुर् अदाद् धयान् श्वेतान् रथं नृप ।
अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यम् अस्त्रिभिः
मयश् च मोचितो वह्नेः सभां सख्य उपाहरत् ।
यस्मिन् दुर्योधनस्यासीज् जल-स्थल-दृशि-भ्रमः
स तेन समनुज्ञातः सुहृद्भिश् चानुमोदितः ।
आययौ द्वारकां भूयः सात्यकि-प्रमखैर् वृतः
अथोपयेमे कालिन्दीं सु-पुण्य-र्त्व्-ऋक्ष ऊर्जिते ।
वितन्वन् परमानन्दं स्वानां परम-मङ्गलः
विन्द्यानुविन्द्याव् आवन्त्यौ दुर्योधन-वशानुगौ ।
स्वयं-वरे स्व-भगिनीं कृष्णे सक्तां न्यषेधताम्
राजाधिदेव्यास् तनयां मित्रविन्दां पितृ-ष्वसुः ।
प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम्
नग्नजिन् नाम कौशल्य आसीद् राजाति-धार्मिकः ।
तस्य सत्याभवत् कन्या देवी नाग्नजिती नृप
न तां शेकुर् नृपा वोढुम् अजित्वा सप्त-गो-वृषान् ।
तीक्ष्ण-शृङ्गान् सु-दुर्धर्षान् वीर्य-गन्धासहान् खलान्
तां श्रुत्वा वृष-जिल्-लभ्यां भगवान् सात्वतां पतिः ।
जगाम कौशल्य-पुरं सैन्येन महता वृतः
स कोशल-पतिः प्रीतः प्रत्युत्थानासनादिभिः ।
अर्हणेनापि गुरुणा पूजयन् प्रतिनन्दितः
वरं विलोक्याभिमतं समागतं नरेन्द्र-कन्या चकमे रमा-पतिम् ।
भूयाद् अयं मे पतिर् आशिषो ऽनलः करोतु सत्या यदि मे धृतो व्रतः
यत्-पाद-पङ्कज-रजः शिरसा बिभर्ति $ शृईर् अब्य-जः स-गिरिशः सह लोक-पालैः &अम्प्;
लीला-तनुः स्व-कृत-सेतु-परीप्सया यः % काले ऽदधत् स भगवान् मम केन तुष्येत् ॥ भ्प्_10.58.037* ॥
अर्चितं पुनर् इत्य् आह नारायण जगत्-पते ।
आत्मानन्देन पूर्णस्य करवाणि किम् अल्पकः
भ्प्_10.58.039।0 श्री-शुक उवाच
तम् आह भगवान् हृष्टः कृतासन-परिग्रहः ।
मेघ-गम्भीरया वाचा स-स्मितं कुरु-नन्दन
भ्प्_10.58.040।0 श्री-भगवान् उवाच
नरेन्द्र याच्ञा कविभिर् विगर्हिता राजन्य-बन्धोर् निज-धर्म-वर्तिनः ।
तथापि याचे तव सौहृदेच्छया कन्यां त्वदीयां न हि शुल्क-दा वयम्
भ्प्_10.58.041।0 श्री-राजोवाच
को ऽन्यस् ते ऽभ्यधिको नाथ कन्या-वर इहेप्सितः ।
गुणैक-धाम्नो यस्याङ्गे श्रीर् वसत्य् अनपायिनी
किन्त्व् अस्माभिः कृतः पूर्वं समयः सात्वतर्षभ ।
पुंसां वीर्य-परीक्षार्थं कन्या-वर-परीप्सया
सप्तैते गो-वृषा वीर दुर्दान्ता दुरवग्रहाः ।
एतैर् भग्नाः सु-बहवो भिन्न-गात्रा नृपात्मजाः
यद् इमे निगृहीताः स्युस् त्वयैव यदु-नन्दन ।
वरो भवान् अभिमतो दुहितुर् मे श्रियः-पते
एवं समयम् आकर्ण्य बद्ध्वा परिकरं प्रभुः ।
आत्मानं सप्तधा कृत्वा न्यगृह्णाल् लीलयैव तान्
बद्ध्वा तान् दामभिः शौरिर् भग्न-दर्पान् हतौजसः ।
व्यकर्सल् लीलया बद्धान् बालो दारु-मयान् यथा
ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः ।
तां प्रत्यगृह्णाद् भगवान् विधि-वत् सदृशीं प्रभुः
राज-पत्न्यश् च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम् ।
लेभिरे परमानन्दं जातश् च परमोत्सवः
शङ्ख-भेर्य्-आनका नेदुर् गीत-वाद्य-द्विजाशिषः ।
नरा नार्यः प्रमुदिताः सुवासः-स्रग्-अलङ्कृताः
दश-धेनु-सहस्राणि पारिबर्हम् अदाद् विभुः ।
युवतीनां त्रि-साहस्रं निष्क-ग्रीव-सुवाससम्
नव-नाग-सहस्राणि नागाच् छत-गुणान् रथान् ।
रथाच् छत-गुणान् अश्वान् अश्वाच् छत-गुणान् नरान्
दम्पती रथम् आरोप्य महत्या सेनया वृतौ ।
स्नेह-प्रक्लिन्न-हृदयो यापयाम् आस कोशलः
श्रुत्वैतद् रुरुधुर् भूपा नयन्तं पथि कन्यकाम् ।
भग्न-वीर्याः सु-दुर्मर्षा यदुभिर् गो-वृषैः पुरा
तान् अस्यतः शर-व्रातान् बन्धु-प्रिय-कृद् अर्जुनः ।
गाण्डीवी कालयाम् आस सिंहः क्षुद्र-मृगान् इव
पारिबर्हम् उपागृह्य द्वारकाम् एत्य सत्यया ।
रेमे यदूनाम् ऋषभो भगवान् देवकी-सुतः
श्रुतकीर्तेः सुतां भद्रां उपयेमे पितृ-ष्वसुः ।
कैकेयीं भ्रातृभिर् दत्तां कृष्णः सन्तर्दनादिभिः
सुतां च मद्राधिपतेर् लक्ष्मणां लक्षणैर् यताम् ।
स्वयं-वरे जहारैकः स सुपर्णः सुधाम् इव
अन्याश् चैवं-विधा भार्याः कृष्णस्यासन् सहस्रशः ।
भौमं हत्वा तन्-निरोधाद् आहृताश् चारु-दर्शनाः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0