भागवत पुराण · अध्याय 10.57
भ्प्_10.57.001।0 श्री-बादरायणिर् उवाच
विज्ञातार्थो ऽपि गोविन्दो दग्धान् आकर्ण्य पाण्डवान् ।
कुन्तीं च कुल्य-करणे सह-रामो ययौ कुरून्
भीष्मं कृपं स विदुरं गान्धारीं द्रोणम् एव च ।
तुल्य-दुःखौ च सङ्गम्य हा कष्टम् इति होचतुः
लब्ध्वैतद् अन्तरं राजन् शतधन्वानम् ऊचतुः ।
अक्रूर-कृतवर्माणौ मनिः कस्मान् न गृह्यते
यो ऽस्मभ्यं सम्प्रतिश्रुत्य कन्या-रत्नं विगर्ह्य नः ।
कृष्णायादान् न सत्राजित् कस्माद् भ्रातरम् अन्वियात्
एवं भिन्न-मतिस् ताभ्यां सत्राजितम् असत्तमः ।
शयानम् अवधील् लोभात् स पापः क्षीण जीवितः
स्त्रीणां विक्रोशमानानां क्रन्दन्तीनाम् अनाथ-वत् ।
हत्वा पशून् सौनिक-वन् मणिम् आदाय जग्मिवान्
सत्यभामा च पितरं हतं वीक्ष्य शुचार्पिता ।
व्यलपत् तात तातेति हा हतास्मीति मुह्यती
तैल-द्रोण्यां मृतं प्रास्य जगाम गजसाह्वयम् ।
कृष्णाय विदितार्थाय तप्ताचख्यौ पितुर् वधम्
तद् आकर्ण्येश्वरौ राजन्न् अनुसृत्य नृ-लोकताम् ।
अहो नः परमं कष्टम् इत्य् अस्राक्षौ विलेपतुः
आगत्य भगवांस् तस्मात् स-भार्यः साग्रजः पुरम् ।
शतधन्वानम् आरेभे हन्तुं हर्तुं मणिं ततः
सो ऽपि कृतोद्यमं ज्ञात्वा भीतः प्राण-परीप्सया ।
साहाय्ये कृतवर्माणम् अयाचत स चाब्रवीत्
नाहम् ईस्वरयोः कुर्यां हेलनं राम-कृष्णयोः ।
को नु क्षेमाय कल्पेत तयोर् वृजिनम् आचरन्
कंसः सहानुगो ऽपीतो यद्-द्वेषात् त्याजितः श्रिया ।
जरासन्धः सप्तदश- संयुगाद् विरथो गतः
प्रत्याख्यातः स चाक्रूरं पार्ष्णि-ग्राहम् अयाचत ।
सो ऽप्य् आह को विरुध्येत विद्वान् ईश्वरयोर् बलम्
य इदं लीलया विश्वं सृजत्य् अवति हन्ति च ।
चेष्टां विश्व-सृजो यस्य न विदुर् मोहिताजया
यः सप्त-हायनः शैलम् उत्पाट्यैकेन पाणिना ।
दधार लीलया बाल उच्छिलीन्ध्रम् इवार्भकः
नमस् तस्मै भगवते कृष्णायाद्भुत-कर्मणे ।
अनन्तायादि-भूताय कूट-स्थायात्मने नमः
प्रत्याख्यातः स तेनापि शतधन्वा महा-मणिम् ।
तस्मिन् न्यस्याश्वम् आरुह्य शत-योजन-गं ययौ
गरुड-ध्वजम् आरुह्य रथं राम-जनार्दनौ ।
अन्वयातां महा-वेगैर् अश्वै राजन् गुरु-द्रुहम्
मिथिलायाम् उपवने विसृज्य पतितं हयम् ।
पद्भ्याम् अधावत् सन्त्रस्तः कृष्णो ऽप्य् अन्वद्रवद् रुषा
पदातेर् भगवांस् तस्य पदातिस् तिग्म-नेमिना ।
चक्रेण शिर उत्कृत्य वाससोर् व्यचिनोन् मणिम्
अलब्ध-मणिर् आगत्य कृष्ण आहाग्रजान्तिकम् ।
वृथा हतः शतधनुर् मणिस् तत्र न विद्यते
तत आह बलो नूनं स मणिः शतधन्वना ।
कस्मिंश्चित् पुरुषे न्यस्तस् तम् अन्वेष पुरं व्रज
अहं वैदेहम् इच्छामि द्रष्टुं प्रियतमं मम ।
इत्य् उक्त्वा मिथिलां राजन् विवेश यद-नन्दनः
तं दृष्ट्वा सहसोत्थाय मैथिलः प्रीत-मानसः ।
अर्हयां आस विधि-वद् अर्हणीयं समर्हणैः
उवास तस्यां कतिचिन् मिथिलायां समा विभुः ।
मानितः प्रीति-युक्तेन जनकेन महात्मना ।
ततो ऽशिक्षद् गदां काले धार्तराष्ट्रः सुयोधनः
केशवो द्वारकाम् एत्य निधनं शतधन्वनः ।
अप्राप्तिं च मणेः प्राह प्रियायाः प्रिय-कृद् विभुः
ततः स कारयाम् आस क्रिया बन्धोर् हतस्य वै ।
साकं सुहृद्भिर् भगवान् या याः स्युः साम्परायिकीः
अक्रूरः कृतवर्मा च श्रुत्वा शतधनोर् वधम् ।
व्यूषतुर् भय-वित्रस्तौ द्वारकायाः प्रयोजकौ
अक्रूरे प्रोषिते ऽरिष्टान्य् आसन् वै द्वारकौकसाम् ।
शारीरा मानसास् तापा मुहुर् दैविक-भौतिकाः
इत्य् अङ्गोपदिशन्त्य् एके विस्मृत्य प्राग् उदाहृतम् ।
मुनि-वास-निवासे किं घटेतारिष्ट-दर्शनम्
देवे ऽवर्षति काशीशः श्वफल्कायागताय वै ।
स्व-सुतां गाण्दिनीं प्रादात् ततो ऽवर्षत् स्म काशिषु
तत्-सुतस् तत्-प्रभावो ऽसाव् अक्रूरो यत्र यत्र ह ।
देवो ऽभिवर्षते तत्र नोपतापा न मारीकाः
इति वृद्ध-वचः श्रुत्वा नैतावद् इह कारणम् ।
इति मत्वा समानाय्य प्राहाक्रूरं जनार्दनः
पूजयित्वाभिभाष्यैनं कथयित्वा प्रियाः कथाः ।
विज्ञताखिल-चित्त ज्ञः स्मयमान उवाच ह
ननु दान-पते न्यस्तस् त्वय्य् आस्ते शतधन्वना ।
स्यमन्तको मनिः श्रीमान् विदितः पूर्वम् एव नः
सत्राजितो ऽनपत्यत्वाद् गृह्णीयुर् दुहितुः सुताः ।
दायं निनीयापः पिण्डान् विमुच्यर्णं च शेषितम्
तथापि दुर्धरस् त्व् अन्यैस् त्वय्य् आस्तां सु-व्रते मणिः ।
किन्तु माम् अग्रजः सम्यङ् न प्रत्येति मणिं प्रति
दर्शयस्व महा-भाग बन्धूनां शान्तिम् आवह ।
अव्युच्छिन्ना मखास् ते ऽद्य वर्तन्ते रुक्म-वेदयः
एवं सामभिर् आलब्धः श्वफल्क-तनयो मणिम् ।
आदाय वाससाच्छन्नः ददौ सूर्य-सम-प्रभम्
स्यमन्तकं दर्शयित्वा ज्ञातिभ्यो रज आत्मनः ।
विमृज्य मणिना भूयस् तस्मै प्रत्यर्पयत् प्रभुः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0