भागवत पुराण · अध्याय 10.56
यं वै मुहुः पितृ-सरूप-निजेश-भावास् $ तन्-मातरो यद् अभजन् रह-रूढ-भावाः &अम्प्;
चित्रं न तत् खलु रमास्पद-बिम्ब-बिम्बे % कामे स्मरे ऽक्ष-विषये किम् उतान्य-नार्यः ॥ भ्प्_10.55.040*
0 श्री-शुक उवाच
सत्राजितः स्व-तनयां कृष्णाय कृत-किल्बिषः ।
स्यमन्तकेन मणिना स्वयम् उद्यम्य दत्तवान्
भ्प्_10.56.002।0 श्री-राजोवाच
सत्राजितः किम् अकरोद् ब्रह्मन् कृष्णस्य किल्बिषः ।
स्यमन्तकः कुतस् तस्य कस्माद् दत्ता सुता हरेः
भ्प्_10.56.003।0 श्री-शुक उवाच
आसीत् सत्राजितः सूर्यो भक्तस्य परमः सखा ।
प्रीतस् तस्मै मणिं प्रादात् स च तुष्टः स्यमन्तकम्
स तं बिभ्रन् मणिं कण्ठे भ्राजमानो यथा रविः ।
प्रविष्टो द्वारकां राजन् तेजसा नोपलक्षितः
तं विलोक्य जना दूरात् तेजसा मुष्ट-दृष्टयः ।
दीव्यते ऽक्षैर् भगवते शशंसुः सूर्य-शङ्किताः
नारायण नमस् ते ऽस्तु शङ्ख-चक्र-गदा-धर ।
दामोदरारविन्दाक्ष गोविन्द यदु-नन्दन
एष आयाति सविता त्वां दिदृक्षुर् जगत्-पते ।
मुष्णन् गभस्ति-चक्रेण नृणां चक्षूंषि तिग्म-गुः
नन्व् अन्विच्छन्ति ते मार्गं त्री-लोक्यां विबुधर्षभाः ।
ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्य् अजः प्रभो
भ्प्_10.56.009।0 श्री-शुक उवाच
निशम्य बाल-वचनं प्रहस्याम्बुज-लोचनः ।
प्राह नासौ रविर् देवः सत्राजिन् मणिना ज्वलन्
सत्राजित् स्व-गृहं श्रीमत् कृत-कौतुक-मङ्गलम् ।
प्रविश्य देव-सदने मणिं विप्रैर् न्यवेशयत्
दिने दिने स्वर्ण-भारान् अष्टौ स सृजति प्रभो ।
दुर्भिक्ष-मार्य्-अरिष्टानि सर्पाधि-व्याधयो ऽशुभाः ।
न सन्ति मायिनस् तत्र यत्रास्ते ऽभ्यर्चितो मणिः
स याचितो मणिं क्वापि यदु-राजाय शौरिणा ।
नैवार्थ-कामुकः प्रादाद् याच्ञा-भङ्गम् अतर्कयन्
तम् एकदा मणिं कण्ठे प्रतिमुच्य महा-प्रभम् ।
प्रसेनो हयम् आरुह्य मृगायां व्यचरद् वने
प्रसेनं स-हयं हत्वा मणिम् आच्छिद्य केशरी ।
गिरिं विशन् जाम्बवता निहतो मणिम् इच्छता
सो ऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले ।
अपश्यन् भ्रातरं भ्राता सत्राजित् पर्यतप्यत
प्रायः कृष्णेन निहतो मणि-ग्रीवो वनं गतः ।
भ्राता ममेति तच् छ्रुत्वा कर्णे कर्णे ऽजपन् जनाः
भगवांस् तद् उपश्रुत्य दुर्यशो लिप्तम् आत्मनि ।
मार्ष्टुं प्रसेन-पदवीम् अन्वपद्यत नागरैः
हतं प्रसेनं अश्वं च वीक्ष्य केशरिणा वने ।
तं चाद्रि-पृष्ठे निहतम् ऋक्षेण ददृशुर् जनाः
ऋक्ष-राज-बिलं भीमम् अन्धेन तमसावृतम् ।
एको विवेश भगवान् अवस्थाप्य बहिः प्रजाः
तत्र दृष्ट्वा मणि-प्रेष्ठं बाल-क्रीडनकं कृतम् ।
हर्तुं कृत-मतिस् तस्मिन्न् अवतस्थे ऽर्भकान्तिके
तम् अपूर्वं नरं दृष्ट्वा धात्री चुक्रोश भीत-वत् ।
तच् छ्रुत्वाभ्यद्रवत् क्रुद्धो जाम्बवान् बलिनां वरः
स वै भगवता तेन युयुधे स्वामीनात्मनः ।
पुरुषम् प्राकृतं मत्वा कुपितो नानुभाव-वित्
द्वन्द्व-युद्धं सु-तुमुलम् उभयोर् विजिगीषतोः ।
आयुधाश्म-द्रुमैर् दोर्भिः क्रव्यार्थे श्येनयोर् इव
आसीत् तद् अष्टा-विम्शाहम् इतरेतर-मुष्टिभिः ।
वज्र-निष्पेष-परुषैर् अविश्रमम् अहर्-निशम्
कृष्ण-मुष्टि-विनिष्पात निष्पिष्टाङ्गोरु बन्धनः ।
क्षीण-सत्त्वः स्विन्न-गात्रस् तम् आहातीव विस्मितः
जाने त्वां सऋव-भूतानां प्राण ओजः सहो बलम् ।
विष्णुं पुराण-पुरुषं प्रभविष्णुम् अधीश्वरम्
त्वं हि विश्व-सृजाम् स्रष्टा सृष्टानाम् अपि यच् च सत् ।
कालः कलयताम् ईशः पर आत्मा तथात्मनाम्
यस्येषद्-उत्कलित-रोष-कटाक्ष-मोक्षैर् $ वर्त्मादिशत् क्षुभित-नक्र-तिमिङ्गलो ऽब्धिः &अम्प्;
सेतुः कृतः स्व-यश उज्ज्वलिता च लङ्का % रक्षः-शिरांसि भुवि पेतुर् इषु-क्षतानि ॥ भ्प्_10.56.028* ॥
इति विज्ञात-विइज्ञानम् ऋक्ष-राजानम् अच्युतः ।
व्याजहार महा-राज भगवान् देवकी-सुतः
अभिमृश्यारविन्दाक्षः पाणिना शं-करेण तम् ।
कृपया परया भक्तं मेघ-गम्भीरया गिरा
मणि-हेतोर् इह प्राप्ता वयम् ऋक्ष-पते बिलम् ।
मिथ्याभिशापं प्रमृजन्न् आत्मनो मणिनामुना
इत्य् उक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा ।
अर्हणार्थम् स मणिना कृष्णायोपजहार ह
अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः ।
प्रतीक्ष्य द्वादशाहानि दुःखिताः स्व-पुरं ययुः
निशम्य देवकी देवी रक्मिण्य् आनकदुन्दुभिः ।
सुहृदो ज्ञातयो ऽशोचन् बिलात् कृष्णम् अनिर्गतम्
सत्राजितं शपन्तस् ते दुःखिता द्वारकौकसः ।
उपतस्थुश् चन्द्रभागां दुर्गां कृष्णोपलब्धये
तेषां तु देव्य्-उपस्थानात् प्रत्यादिष्टाशिषा स च ।
प्रादुर्बभूव सिद्धार्थः स-दारो हर्षयन् हरिः
उपलभ्य हृषीकेशं मृतं पुनर् इवागतम् ।
सह पत्न्या मणि-ग्रीवं सर्वे जात-महोत्सवाः
सत्राजितं समाहूय सभायां राज-सन्निधौ ।
प्राप्तिं चाख्याय भगवान् मणिं तस्मै न्यवेदयत्
स चाति-व्रीडितो रत्नं गृहीत्वावाङ्-मुखस् ततः ।
अनुतप्यमानो भवनम् अगमत् स्वेन पाप्मना
सो ऽनुध्यायंस् तद् एवाघं बलवद्-विग्रहाकुलः ।
कथं मृजाम्य् आत्म-रजः प्रसीदेद् वाच्युतः कथम्
किम् कृत्वा साधु मह्यं स्यान् न शपेद् वा जनो यथा ।
अदीर्घ-दर्शनं क्षुद्रं मूढं द्रविण-लोलुपम्
दास्ये दुहितरं तस्मै स्त्री-रत्नं रत्नम् एव च ।
उपायो ऽयं समीचीनस् तस्य शान्तिर् न चान्यथा
एवं व्यवसितो बुद्ध्या सत्राजित् स्व-सुतां शुभाम् ।
मणिं च स्वयम् उद्यम्य कृष्णायोपजहार ह
तां सत्यभामां भगवान् उपयेमे यथा-विधि ।
बहुभिर् याचितां शील- रूपौदार्य-गुणान्विताम्
भगवान् आह न मणिं प्रतीच्छामो वयं नृप ।
तवास्तां देव-भक्तस्य वयं च फल-भागिनः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0