भागवत पुराण · अध्याय 10.55
भ्प्_10.55.001।0 श्री-शुक उवाच
कामस् तु वासुदेवांशो दग्धः प्राग् रुद्र-मन्युना ।
देहोपपत्तये भूयस् तम् एव प्रत्यपद्यत
स एव जातो वैदर्भ्यां कृष्ण-वीर्य-समुद्भवः ।
प्रद्युम्न इति विख्यातः सर्वतो ऽनवमः पितुः
तं शम्बरः काम-रूपी हृत्वा तोकम् अनिर्दशम् ।
स विदित्वात्मनः शत्रुं प्रास्योदन्वत्य् अगाद् गृहम्
तं निर्जगार बलवान् मीनः सो ऽप्य् अपरैः सह ।
वृतो जालेन महता गृहीतो मत्स्य-जीविभिः
तं शम्बराय कैवर्ता उपाजह्रुर् उपायनम् ।
सूदा महानसं नीत्वा- वद्यन् सुधितिनाद्भुतम्
दृष्ट्वा तद्-उदरे बालम् मायावत्यै न्यवेदयन् ।
नारदो ऽकथयत् सर्वं तस्याः शङ्कित-चेतसः ।
बालस्य तत्त्वम् उत्पत्तिं मत्स्योदर-निवेशनम्
सा च कामस्य वै पत्नी रतिर् नाम यशस्विनी ।
पत्युर् निर्दग्ध-देहस्य देहोत्पत्तिम् प्रतीक्षती
निरूपिता शम्बरेण सा सूदौदन-साधने ।
कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके
नाति-दीर्घेण कालेन स कार्ष्णि रूढ-यौवनः ।
जनयाम् आस नारीणां वीक्षन्तीनां च विभ्रमम्
सा तम् पतिं पद्म-दलायतेक्षणं प्रलम्ब-बाहुं नर-लोक-सुन्दरम् ।
स-व्रीड-हासोत्तभित-भ्रुवेक्षती प्रीत्योपतस्थे रतिर् अङ्ग सौरतैः
ताम् अह भगवान् कार्ष्णिर् मातस् ते मतिर् अन्यथा ।
मातृ-भावम् अतिक्रम्य वर्तसे कामिनी यथा
भ्प्_10.55.012।0 रतिर् उवाच
भवान् नारायण-सुतः शम्बरेण हृतो गृहात् ।
अहं ते ऽधिकृता पत्नी रतिः कामो भवान् प्रभो
एष त्वानिर्दशं सिन्धाव् अक्षिपच् छम्बरो ऽसुरः ।
मत्स्यो ऽग्रसीत् तद्-उदराद् इतः प्राप्तो भवान् प्रभो
तम् इमं जहि दुर्धर्षं दुर्जयं शत्रुम् आत्मनः ।
माया-शत-विदं तं च मायाभिर् मोहनादिभिः
परीशोचति ते माता कुररीव गत-प्रजा ।
पुत्र-स्नेहाकुला दीना विवत्सा गौर् इवातुरा
प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने ।
मायावती महा-मायां सर्व-माया-विनाशिनीम्
स च शम्बरम् अभ्येत्य संयुगाय समाह्वयत् ।
अविषह्यैस् तम् आक्षेपैः क्षिपन् सञ्जनयन् कलिम्
सो ऽधिक्षिप्तो दुर्वाचोभिः पदाहत इवोरगः ।
निश्चक्राम गदा-पाणिर् अमर्षात् ताम्र-लोचनः
गदाम् आविध्य तरसा प्रद्युम्नाय महात्मने ।
प्रक्षिप्य व्यनदन् नादं वज्र-निष्पेष-निष्ठुरम्
ताम् आपतन्तीं भगवान् प्रद्युम्नो गदया गदाम् ।
अपास्य शत्रवे क्रुद्धः प्राहिणोत् स्व-गदां नृप
स च मायां समाश्रित्य दैतेयीं मय-दर्शितम् ।
मुमुचे ऽस्त्र-मयं वर्षं कार्ष्णौ वैहायसो ऽसुरः
बाध्यमानो ऽस्त्र-वर्षेण रौक्मिणेयो महा-रथः ।
सत्त्वात्मिकां महा-विद्यां सर्व-मायोपमर्दिनीम्
ततो गौह्यक-गान्धर्व- पैशाचोरग-राक्षसीः ।
प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर् व्यधमयत् स ताः
निशातम् असिम् उद्यम्य स-किरीटं स-कुण्डलम् ।
शम्बरस्य शिरः कायात् ताम्र-श्मश्र्व् ओजसाहरत्
आकीर्यमाणो दिवि-जैः स्तुवद्भिः कुसुमोत्करैः ।
भार्ययाम्बर-चारिण्या पुरं नीतो विहायसा
अन्तः-पुर-वरं राजन् ललना-शत-सङ्कुलम् ।
विवेश पत्न्या गगनाद् विद्युतेव बलाहकः
तं दृष्ट्वा जलद-श्यामं पीत-कौशेय-वाससम् ।
प्रलम्ब-बाहुं ताम्राक्षं सु-स्मितं रुचिराननम्
स्व्-अलङ्कृत-मुखाम्भोजं नील-वक्रालकालिभिः ।
कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस् तत्र तत्र ह
अवधार्य शनैर् ईषद् वैलक्षण्येन योषितः ।
उपजग्मुः प्रमुदिताः स-स्त्री रत्नं सु-विस्मिताः
अथ तत्रासितापाङ्गी वैदर्भी वल्गु-भाषिणी ।
अस्मरत् स्व-सुतं नष्टं स्नेह-स्नुत-पयोधरा
को न्व् अयम् नर-वैदूर्यः कस्य वा कमलेक्षणः ।
धृतः कया वा जठरे केयं लब्धा त्व् अनेन वा
मम चाप्य् आत्मजो नष्टो नीतो यः सूतिका-गृहात् ।
एतत्-तुल्य-वयो-रूपो यदि जीवति कुत्रचित्
कथं त्व् अनेन सम्प्राप्तं सारूप्यं शार्ङ्ग-धन्वनः ।
आकृत्यावयवैर् गत्या स्वर-हासावलोकनैः
स एव वा भवेन् नूनं यो मे गर्भे धृतो ऽर्भकः ।
अमुष्मिन् प्रीतिर् अधिका वामः स्फुरति मे भुजः
एवं मीमांसमणायां वैदर्भ्यां देवकी-सुतः ।
देवक्य्-आनकदुन्दुभ्याम् उत्तमः-श्लोक आगमत्
विज्ञातार्थो ऽपि भगवांस् तूष्णीम् आस जनार्दनः ।
नारदो ऽकथयत् सर्वं शम्बराहरणादिकम्
तच् छ्रुत्वा महद् आश्चर्यं कृष्णान्तः-पुर-योषितः ।
अभ्यनन्दन् बहून् अब्दान् नष्टं मृतम् इवागतम्
देवकी वसुदेवश् च कृष्ण-रामौ तथा स्त्रियः ।
दम्पती तौ परिष्वज्य रुक्मिणी च ययुर् मुदम्
नष्टं प्रद्युम्नम् आयातम् आकर्ण्य द्वारकौकसः ।
अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0