भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.54

10.54.001

तं मानिनः स्वाभिभवं यशः-क्षयं $ परे जरासन्ध-मुखा न सेहिरे &अम्प्;
अहो धिग् अस्मान् यश आत्त-धन्वनां % गोपैर् हृतं केशरिणां मृगैर् इव ॥ भ्प्_10.53.057*
0 श्री-शुक उवाच
इति सर्वे सु-संरब्धा वाहान् आरुह्य दंशिताः ।
स्वैः स्वैर् बलैः परिक्रान्ता अन्वीयुर् धृत-कार्मुकाः

10.54.002

तान् आपतत आलोक्य यादवानीक-यूथपाः ।
तस्थुस् तत्-सम्मुखा राजन् विस्फूर्ज्य स्व-धनूंषि ते

10.54.003

अश्व-पृष्ठे गज-स्कन्धे रथोपस्थे ऽस्त्र कोविदाः ।
मुमुचुः शर-वर्षाणि मेघा अद्रिष्व् अपो यथा

10.54.004

पत्युर् बलं शरासारैश् छन्नं वीक्ष्य सु-मध्यमा ।
स-व्रीड्म् ऐक्षत् तद्-वक्त्रं भय-विह्वल-लोचना

10.54.005

प्रहस्य भगवान् आह मा स्म भैर् वाम-लोचने ।
विनङ्क्ष्यत्य् अधुनैवैतत् तावकैः शात्रवं बलम्

10.54.006

तेषां तद्-विक्रमं वीरा गद-सङ्कर्षनादयः ।
अमृष्यमाणा नाराचैर् जघ्नुर् हय-गजान् रथान्

10.54.007

पेतुः शिरांसि रथिनाम् अश्विनां गजिनां भुवि ।
स-कुण्डल-किरीटानि सोष्णीषाणि च कोटिशः

10.54.008

हस्ताः सासि-गदेष्व्-आसाः करभा ऊरवो ऽङ्घ्रयः ।
अश्वाश्वतर-नागोष्ट्र- खर-मर्त्य-शिरांसि च

10.54.009

हन्यमान-बलानीका वृष्णिभिर् जय-काङ्क्षिभिः ।
राजानो विमुखा जग्मुर् जरासन्ध-पुरः-सराः

10.54.010

शिशुपालं समभ्येत्य हृत-दारम् इवातुरम् ।
नष्ट-त्विषं गतोत्साहं शुष्यद्-वदनम् अब्रुवन्

10.54.011

भो भोः पुरुष-शार्दूल दौर्मनस्यम् इदं त्यज ।
न प्रियाप्रिययो राजन् निष्ठा देहिषु दृश्यते

10.54.012

यथा दारु-मयी योषित् नृत्यते कुहकेच्छया ।
एवम् ईश्वर-तन्त्रो ऽयम् ईहते सुख-दुःखयोः

10.54.013

शौरेः सप्त-दशाहं वै संयुगानि पराजितः ।
त्रयो-विंशतिभिः सैन्यैर् जिग्ये एकम् अहं परम्

10.54.014

तथाप्य् अहं न शोचामि न प्रहृष्यामि कर्हिचित् ।
कालेन दैव-युक्तेन जानन् विद्रावितं जगत्

10.54.015

अधुनापि वयं सर्वे वीर-यूथप-यूथपाः ।
पराजिताः फल्गु-तन्त्रैर् यदुभिः कृष्ण-पालितैः

10.54.016

रिपवो जिग्युर् अधुना काल आत्मानुसारिणि ।
तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः

10.54.017

भ्प्_10.54.017।0 श्री-शुक उवाच
एवं प्रबोधितो मित्रैश् चैद्यो ऽगात् सानुगः पुरम् ।
हत-शेषाः पुनस् ते ऽपि ययुः स्वं स्वं पुरं नृपाः

10.54.018

रुक्मी तु राक्षसोद्वाहं कृष्ण-द्विड् असहन् स्वसुः ।
पृष्ठतो ऽन्वगमत् कृष्णम् अक्षौहिण्या वृतो बली

10.54.019

रुक्म्य् अमर्षी सु-संरब्धः शृण्वतां सर्व-भूभुजाम् ।
प्रतिजज्ञे महा-बाहुर् दंशितः स-शरासनः

10.54.020

अहत्वा समरे कृष्णम् अप्रत्यूह्य च रुक्मिणीम् ।
कुण्डिनं न प्रवेक्ष्यामि सत्यम् एतद् ब्रवीमि वः

10.54.021

इत्य् उक्त्वा रथम् आरुह्य सारथिं प्राह सत्वरः ।
चोदयाश्वान् यतः कृष्णः तस्य मे संयुगं भवेत्

10.54.022

अद्याहं निशितैर् बाणैर् गोपालस्य सु-दुर्मतेः ।
नेष्ये वीर्य-मदं येन स्वसा मे प्रसभं हृता

10.54.023

विकत्थमानः कुमतिर् ईश्वरस्याप्रमाण-वित् ।
रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्य् अथाह्वयत्

10.54.024

धनुर् विकृष्य सु-दृढं जघ्ने कृष्णं त्रिभिः शरैः ।
आह चात्र क्षणं तिष्ठ यदूनां कुल-पांसन

10.54.025

यत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्ष-वद् धविः ।
हरिष्ये ऽद्य मदं मन्द मायिनः कूट-योधिनः

10.54.026

यावन् न मे हतो बाणैः शयीथा मुञ्च दारीकाम् ।
स्मयन् कृष्णो धनुश् छित्त्वा षड्भिर् विव्याध रुक्मिणम्

10.54.027

अष्टभिश् चतुरो वाहान् द्वाभ्यां सूतं ध्वजं त्रिभिः ।
स चान्यद् धनुर् आधाय कृष्णं विव्याध पञ्चभिः

10.54.028

तैस् तादितः शरौघैस् तु चिच्छेद धनुर् अच्युतः ।
पुनर् अन्यद् उपादत्त तद् अप्य् अच्छिनद् अव्ययः

10.54.029

परिघं पट्टिशं शूलं चर्मासी शक्ति-तोमरौ ।
यद् यद् आयुधम् आदत्त तत् सर्वं सो ऽच्छिनद् धरिः

10.54.030

ततो रथाद् अवप्लुत्य खड्ग-पाणिर् जिघांसया ।
कृष्णम् अभ्यद्रवत् क्रुद्धः पतङ्ग इव पावकम्

10.54.031

तस्य चापततः खड्गं तिलशश् चर्म चेषुभिः ।
छित्त्वासिम् आददे तिग्मं रुक्मिणं हन्तुम् उद्यतः

10.54.032

दृष्ट्वा भ्रातृ-वधोद्योगं रुक्मिणी भय-विह्वला ।
पतित्वा पादयोर् भर्तुर् उवाच करुणं सती

10.54.033

भ्प्_10.54.033।0 श्री-रुक्मिण्य् उवाच
योगेश्वराप्रमेयात्मन् देव-देव जगत्-पते ।
हन्तुं नार्हसि कल्याण भ्रातरं मे महा-भुज

10.54.034

भ्प्_10.54.034।0 श्री-शुक उवाच
तया परित्रास-विकम्पिताङ्गया शुचावशुष्यन्-मुख-रुद्ध-कण्ठया ।
कातर्य-विस्रंसित-हेम-मालया गृहीत-पादः करुणो न्यवर्तत

10.54.035

चैलेन बद्ध्वा तम् असाधु-कारीणं स-श्मश्रु-केशं प्रवपन् व्यरूपयत् ।
तावन् ममर्दुः पर-सैन्यम् अद्भुतं यदु-प्रवीरा नलिनीं यथा गजाः

10.54.036

कृष्णान्तिकम् उपव्रज्य ददृशुस् तत्र रुक्मिणम् ।
तथा-भूतं हत-प्रायं दृष्ट्वा सङ्कर्षणो विभुः ।
विमुच्य बद्धं करुणो भगवान् कृष्णम् अब्रवीत्

10.54.037

असाध्व् इदं त्वया कृष्ण कृतम् अस्मज्-जुगुप्सितम् ।
वपनं श्मश्रु-केशानां वैरूप्यं सुहृदो वधः

10.54.038

मैवास्मान् साध्व्य् असूयेथा भ्रातुर् वैरूप्य-चिन्तया ।
सुख-दुःख-दो न चान्यो ऽस्ति यतः स्व-कृत-भुक् पुमान्

10.54.039

बन्धुर् वधार्ह-दोषो ऽपि न बन्धोर् वधम् अर्हति ।
त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः

10.54.040

क्षत्रियाणाम् अयं धर्मः प्रजापति-विनिर्मितः ।
भ्रातापि भ्रातरं हन्याद् येन घोरतमस् ततः

10.54.041

राज्यस्य भूमेर् वित्तस्य स्त्रियो मानस्य तेजसः ।
मानिनो ऽन्यस्य वा हेतोः श्री-मदान्धाः क्षिपन्ति हि

10.54.042

तवेयं विषमा बुद्धिः सर्व-भूतेषु दुर्हृदाम् ।
यन् मन्यसे सदाभद्रं सुहृदां भद्रम् अज्ञ-वत्

10.54.043

आत्म-मोहो नृणाम् एव कल्पते देव-मायया ।
सुहृद् दुर्हृद् उदासीन इति देहात्म-मानिनाम्

10.54.044

एक एव परो ह्य् आत्मा सर्वेषाम् अपि देहिनाम् ।
नानेव गृह्यते मूढैर् यथा ज्योतिर् यथा नभः

10.54.045

देह आद्य्-अन्तवान् एष द्रव्य-प्राण-गुणात्मकः ।
आत्मन्य् अविद्यया कॢप्तः संसारयति देहिनम्

10.54.046

नात्मनो ऽन्येन संयोगो वियोगश् चसतः सति ।
तद्-धेतुत्वात् तत्-प्रसिद्धेर् दृग्-रूपाभ्यां यथा रवेः

10.54.047

जन्मादयस् तु देहस्य विक्रिया नात्मनः क्वचित् ।
कलानाम् इव नैवेन्दोर् मृतिर् ह्य् अस्य कुहूर् इव

10.54.048

यथा शयान आत्मानं विषयान् फलम् एव च ।
अनुभुङ्क्ते ऽप्य् असत्य् अर्थे तथाप्नोत्य् अबुधो भवम्

10.54.049

तस्माद् अज्ञान-जं शोकम् आत्म-शोष-विमोहनम् ।
तत्त्व-ज्ञानेन निर्हृत्य स्व-स्था भव शुचि-स्मिते

10.54.050

भ्प्_10.54.050।0 श्री-शुक उवाच
एवं भगवता तन्वी रामेण प्रतिबोधिता ।
वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे

10.54.051

प्राणावशेष उत्सृष्टो द्विड्भिर् हत-बल-प्रभः ।
स्मरन् विरूप-करणं वितथात्म-मनोरथः ।
चक्रे भोजकटं नाम निवासाय महत् पुरम्

10.54.052

अहत्वा दुर्मतिं कृष्णम् अप्रत्यूह्य यवीयसीम् ।
कुण्डिनं न प्रवेक्ष्यामीत्य् उक्त्वा तत्रावसद् रुषा

10.54.053

भगवान् भीष्मक-सुताम् एवं निर्जित्य भूमि-पान् ।
पुरम् आनीय विधि-वद् उपयेमे कुरूद्वह

10.54.054

तदा महोत्सवो नॄणां यदु-पुर्यां गृहे गृहे ।
अभूद् अनन्य-भावानां कृष्णे यदु-पतौ नृप

10.54.055

नरा नार्यश् च मुदिताः प्रमृष्ट-मणि-कुण्डलाः ।
पारिबर्हम् उपाजह्रुर् वरयोश् चित्र-वाससोः

10.54.057

सा वृष्णि-पुर्य् उत्तम्भितेन्द्र-केतुभिर् $ विचित्र-माल्याम्बर-रत्न-तोरणैः &अम्प्;
बभौ प्रति-द्वार्य् उपकॢप्त-मङ्गलैर् % आपूर्ण-कुम्भागुरु-धूप-दीपकैः ॥ भ्प्_10.54.056* ॥
सिक्त-मार्गा मद-च्युद्भिर् आहूत-प्रेष्ठ-भूभुजाम् ।
गजैर् द्वाःसु परामृष्ट- रम्भा-पूगोपशोभिता

10.54.058

कुरु-सृञ्जय-कैकेय- विदर्भ-यदु-कुन्तयः ।
मिथो मुमुदिरे तस्मिन् सम्भ्रमात् परिधावताम्

10.54.059

रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस् ततः ।
राजानो राज-कन्याश् च बभूवुर् भृश-विस्मिताः

10.54.060

द्वारकायाम् अभूद् राजन् महा-मोदः पुरौकसाम् ।
रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc