भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.53

10.53.001

भ्प्_10.53.001।0 श्री-शुक उवाच
वैदर्भ्याः स तु सन्देशं निशम्य यदु-नन्दनः ।
प्रगृह्य पाणिना पाणिं प्रहसन्न् इदम् अब्रवीत्

10.53.002

भ्प्_10.53.002।0 श्री-भगवान् उवाच
तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि ।
वेदाहम् रुक्मिणा द्वेषान् ममोद्वाहो निवारितः

10.53.003

ताम् आनयिष्य उन्मथ्य राजन्यापसदान् मृधे ।
मत्-पराम् अनवद्याङ्गीम् एधसो ऽग्नि-शिखाम् इव

10.53.004

भ्प्_10.53.004।0 श्री-शुक उवाच
उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः ।
रथः संयुज्यताम् आशु दारुकेत्य् आह सारथिम्

10.53.005

स चाश्वैः शैब्य-सुग्रीव- मेघपुष्प-बलाहकैः ।
युक्तं रथम् उपानीय तस्थौ प्राञ्जलिर् अग्रतः

10.53.006

आरुह्य स्यन्दनं शौरिर् द्विजम् आरोप्य तूर्ण-गैः ।
आनर्ताद् एक-रात्रेण विदर्भान् अगमद् धयैः

10.53.007

राजा स कुण्डिन-पतिः पुत्र-स्नेह-वशानुगः ।
शिशुपालाय स्वां कन्यां दास्यन् कर्माण्य् अकारयत्

10.53.008

पुरं सम्मृष्ट-संसिक्त- मार्ग-रथ्या-चतुष्पथम् ।
चित्र-ध्वज-पताकाभिस् तोरणैः समलङ्कृतम्

10.53.009

स्रग्-गन्ध-माल्याभरणैर् विरजो-ऽम्बर-भूषितैः ।
जुष्टं स्त्री-पुरुषैः श्रीमद्- गृहैर् अगुरु-धूपितैः

10.53.010

पितॄन् देवान् समभ्यर्च्य विप्रांश् च विधि-वन् नृप ।
भोजयित्वा यथा-न्यायं वाचयाम् आस मङ्गलम्

10.53.011

सु-स्नातां सु-दतीं कन्यां कृत-कौतुक-मङ्गलाम् ।
आहतांशुक-युग्मेन भूषितां भूषणोत्तमैः

10.53.012

चक्रुः साम-र्ग्-यजुर्-मन्त्रैर् वध्वा रक्षां द्विजोत्तमाः ।
पुरोहितो ऽथर्व-विद् वै जुहाव ग्रह-शान्तये

10.53.013

हिरण्य-रूप्य वासांसि तिलांश् च गुड-मिश्रितान् ।
प्रादाद् धेनूश् च विप्रेभ्यो राजा विधि-विदां वरः

10.53.014

एवं चेदि-पती राजा दमघोषः सुताय वै ।
कारयाम् आस मन्त्र-ज्ञैः सर्वम् अभ्युदयोचितम्

10.53.015

मद-च्युद्भिर् गजानीकैः स्यन्दनैर् हेम-मालिभिः ।
पत्त्य्-अश्व-सङ्कुलैः सैन्यैः परीतः कुण्दीनं ययौ

10.53.016

तं वै विदर्भाधिपतिः समभ्येत्याभिपूज्य च ।
निवेशयाम् आस मुदा कल्पितान्य-निवेशने

10.53.017

तत्र शाल्वो जरासन्धो दन्तवक्रो विदूरथः ।
आजग्मुश् चैद्य-पक्षीयाः पौण्ड्रकाद्याः सहस्रशः

10.53.018

कृष्ण-राम-द्विषो यत्ताः कन्यां चैद्याय साधितुम् ।
यद्य् आगत्य हरेत् कृष्नो रामाद्यैर् यदुभिर् वृतः

10.53.019

योत्स्यामः संहतास् तेन इति निश्चित-मानसाः ।
आजग्मुर् भू-भुजः सर्वे समग्र-बल-वाहनाः

10.53.020

श्रुत्वैतद् भगवान् रामो विपक्षीय नृपोद्यमम् ।
कृष्णं चैकं गतं हर्तुं कन्यां कलह-शङ्कितः

10.53.021

बलेन महता सार्धं भ्रातृ-स्नेह-परिप्लुतः ।
त्वरितः कुण्डिनं प्रागाद् गजाश्व-रथ-पत्तिभिः

10.53.022

भीष्म-कन्या वरारोहा काङ्क्षन्त्य् आगमनं हरेः ।
प्रत्यापत्तिम् अपश्यन्ती द्विजस्याचिन्तयत् तदा

10.53.023

अहो त्रि-यामान्तरित उद्वाहो मे ऽल्प-राधसः ।
नागच्छत्य् अरविन्दाक्षो नाहं वेद्म्य् अत्र कारणम् ।
सो ऽपि नावर्तते ऽद्यापि मत्-सन्देश-हरो द्विजः

10.53.024

अपि मय्य् अनवद्यात्मा दृष्ट्वा किञ्चिज् जुगुप्सितम् ।
मत्-पाणि-ग्रहणे नूनं नायाति हि कृतोद्यमः

10.53.025

दुर्भगाया न मे धाता नानुकूलो महेश्वरः ।
देवी वा विमुखी गौरी रुद्राणी गिरिजा सती

10.53.026

एवं चिन्तयती बाला गोविन्द-हृत-मानसा ।
न्यमीलयत काल-ज्ञा नेत्रे चाश्रु-कलाकुले

10.53.027

एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप ।
वाम ऊरुर् भुजो नेत्रम् अस्फुरन् प्रिय-भाषिणः

10.53.028

अथ कृष्ण-विनिर्दिष्टः स एव द्विज-सत्तमः ।
अन्तःपुर-चरीं देवीं राज-पुत्रीम् ददर्श ह

10.53.029

सा तं प्रहृष्ट-वदनम् अव्यग्रात्म-गतिं सती ।
आलक्ष्य लक्षणाभिज्ञा समपृच्छच् छुचि-स्मिता

10.53.030

तस्या आवेदयत् प्राप्तं शशंस यदु-नन्दनम् ।
उक्तं च सत्य-वचनम् आत्मोपनयनं प्रति

10.53.031

तम् आगतं समाज्ञाय वैदर्भी हृष्ट-मानसा ।
न पश्यन्ती ब्राह्मणाय प्रियम् अन्यन् ननाम सा

10.53.032

प्राप्तौ श्रुत्वा स्व-दुहितुर् उद्वाह-प्रेक्षणोत्सुकौ ।
अभ्ययात् तूर्य-घोषेण राम-कृष्णौ समर्हणैः

10.53.033

मधु-पर्कम् उपानीय वासांसि विरजांसि सः ।
उपायनान्य् अभीष्टानि विधि-वत् समपूजयत्

10.53.034

तयोर् निवेशनं श्रीमद् उपाकल्प्य महा-मतिः ।
स-सैन्ययोः सानुगयोर् आतिथ्यं विदधे यथा

10.53.035

एवं राज्ञां समेतानां यथा-वीर्यं यथा-वयः ।
यथा-बलं यथा-वित्तं सर्वैः कामैः समर्हयत्

10.53.036

कृष्णम् आगतम् आकर्ण्य विदर्भ-पुर-वासिनः ।
आगत्य नेत्राञ्जलिभिः पपुस् तन्-मुख-पङ्कजम्

10.53.037

अस्यैव भार्या भवितुं रुक्मिण्य् अर्हति नापरा ।
असाव् अप्य् अनवद्यात्मा भैष्म्याः समुचितः पतिः

10.53.038

किञ्चित् सु-चरितं यन् नस् तेन तुष्टस् त्रि-लोक-कृत् ।
अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिम् अच्युतः

10.53.039

एवं प्रेम-कला-बद्धा वदन्ति स्म पुरौकसः ।
कन्या चान्तः-पुरात् प्रागाद् भटैर् गुप्ताम्बिकालयम्

10.53.040

पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पाद-पल्लवम् ।
सा चानुध्यायती सम्यङ् मुकुन्द-चरणाम्बुजम्

10.53.041

यत-वाङ् मातृभिः सार्धं सखीभिः परिवारिता ।
गुप्ता राज-भटैः शूरैः सन्नद्धैर् उद्यतायुधैः ।
मृडङ्ग-शङ्ख-पणवास् तूर्य-भेर्यश् च जघ्निरे

10.53.042

नानोपहार बलिभिर् वारमुख्याः सहस्रशः ।
स्रग्-गन्ध-वस्त्राभरणैर् द्विज-पत्न्यः स्व्-अलङ्कृताः

10.53.043

गायन्त्यश् च स्तुवन्तश् च गायका वाद्य-वादकाः ।
परिवार्य वधूं जग्मुः सूत-मागध-वन्दिनः

10.53.044

आसाद्य देवी-सदनं धौत-पाद-कराम्बुजा ।
उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम्

10.53.045

तां वै प्रवयसो बालां विधि-ज्ञा विप्र-योषितः ।
भवानीं वन्दयां चक्रुर् भव-पत्नीं भवान्विताम्

10.53.046

नमस्ये त्वाम्बिके ऽभीक्ष्णं स्व-सन्तान-युतां शिवाम् ।
भूयात् पतिर् मे भगवान् कृष्णस् तद् अनुमोदताम्

10.53.047

अद्भिर् गन्धाक्षतैर् धूपैर् वासः-स्रङ्-माल्य भूषणैः ।
नानोपहार-बलिभिः प्रदीपावलिभिः पृथक्

10.53.048

विप्र-स्त्रियः पतिमतीस् तथा तैः समपूजयत् ।
लवणापूप-ताम्बूल- कण्ठ-सूत्र-फलेक्षुभिः

10.53.049

तस्यै स्त्रियस् ताः प्रददुः शेषां युयुजुर् आशिषः ।
ताभ्यो देव्यै नमश् चक्रे शेषां च जगृहे वधूः

10.53.050

मुनि-व्रतम् अथ त्यक्त्वा निश्चक्रामाम्बिका-गृहात् ।
प्रगृह्य पाणिना भृत्यां रत्न-मुद्रोपशोभिना

10.53.051

तां देव-मायाम् इव धीर-मोहिनीं सु-मध्यमां कुण्डल-मण्डिताननाम् ।
श्यामां नितम्बार्पित-रत्न-मेखलां व्यञ्जत्-स्तनीं कुन्तल-शङ्कितेक्षणाम्

10.53.052

शुचि-स्मितां बिम्ब-फलाधर-द्युति- शोणायमान-द्विज-कुन्द-कुड्मलाम् ।
पदा चलन्तीं कल-हंस-गामिनीं सिञ्जत्-कला-नूपुर-धाम-शोभिना

10.53.053

विलोक्य वीरा मुमुहुः समागता यशस्विनस् तत्-कृत-हृच्-छयार्दिताः ।
यां वीक्ष्य ते नृपतयस् तद् उदार-हास- व्रीदावलोक-हृत-चेतस उज्झितास्त्राः

10.53.054

पेतुः क्षितौ गज-रथाश्व-गता विमूढा यात्रा-च्छलेन हरये ऽर्पयतीं स्व-शोभाम् ।
सैवं शनैश् चलयती चल-पद्म-कोशौ प्राप्तिं तदा भगवतः प्रसमीक्षमाणा

10.53.055

उत्सार्य वाम-करजैर् अलकान् अपङ्गैः प्राप्तान् ह्रियैक्षत नृपान् ददृशे ऽच्युतं च ।
तां राज-कन्यां रथम् आरुरक्षतीं जहार कृष्णो द्विषतां समीक्षताम्

10.53.056

रथं समारोप्य सुपर्ण-लक्षणं राजन्य-चक्रं परिभूय माधवः ।
ततो ययौ राम-पुरोगमः शनैः शृगाल-मध्याद् इव भाग-हृद् धरिः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc