भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.52

10.52.001

भ्प्_10.52.001।0 श्री-शुक उवाच
इत्थं सो ऽनग्रहीतो ऽन्ग कृष्णेनेक्ष्वाकु नन्दनः ।
तं परिक्रम्य सन्नम्य निश्चक्राम गुहा-मुखात्

10.52.002

संवीक्ष्य क्षुल्लकान् मर्त्यान् पशून् वीरुद्-वनस्पतीन् ।
मत्वा कलि-युगं प्राप्तं जगाम दिशम् उत्तराम्

10.52.003

तपः-श्रद्धा-युतो धीरो निःसङ्गो मुक्त-संशयः ।
समाधाय मनः कृष्णे प्राविशद् गन्धमादनम्

10.52.004

बदर्य्-आश्रमम् आसाद्य नर-नारायणालयम् ।
सर्व-द्वन्द्व-सहः शान्तस् तपसाराधयद् धरिम्

10.52.005

भगवान् पुनर् आव्रज्य पुरीं यवन-वेष्टिताम् ।
हत्वा म्लेच्छ-बलं निन्ये तदीयं द्वारकां धनम्

10.52.006

नीयमाने धने गोभिर् नृभिश् चाच्युत-चोदितैः ।
आजगाम जरासन्धस् त्रयो-विंशत्य्-अनीक-पः

10.52.007

विलोक्य वेग-रभसं रिपु-सैन्यस्य माधवौ ।
मनुष्य-चेष्टाम् आपन्नौ राजन् दुद्रुवतुर् द्रुतम्

10.52.008

विहाय वित्तं प्रचुरम् अभीतौ भीरु-भीत-वत् ।
पद्भ्यां पलाशाभ्यां चेलतुर् बहु-योजनम्

10.52.009

पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली ।
अन्वधावद् रथानीकैर् ईशयोर् अप्रमाण-वित्

10.52.010

प्रद्रुत्य दूरं संश्रान्तौ तुङ्गम् आरुहतां गिरिम् ।
प्रवर्षणाख्यं भगवान् नित्यदा यत्र वर्षति

10.52.011

गिरौ निलीनाव् आज्ञाय नाधिगम्य पदं नृप ।
ददाह गिरिम् एधोभिः समन्ताद् अग्निम् उत्सृजन्

10.52.012

तत उत्पत्य तरसा दह्यमान-तटाद् उभौ ।
दशैक-योजनात् तुङ्गान् निपेततुर् अधो भुवि

10.52.013

अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ ।
स्व-पुरं पुनर् आयातौ समुद्र-परिखां नृप

10.52.014

सो ऽपि दग्धाव् इति मृषा मन्वानो बल-केशवौ ।
बलम् आकृष्य सु-महन् मगधान् मागधो ययौ

10.52.015

आनर्ताधिपतिः श्रीमान् रैवतो रैवतीं सुताम् ।
ब्रह्मणा चोदितः प्रादाद् बलायेति पुरोदितम्

10.52.016

भगवान् अपि गोविन्द उपयेमे कुरूद्वह ।
वैदर्भीं भीष्मक-सुतां श्रियो मात्रां स्वयं-वरे

10.52.017

प्रमथ्य तरसा राज्ञः शाल्वादींश् चैद्य-पक्ष-गान् ।
पश्यतां सर्व-लोकानां तार्क्ष्य-पुत्रः सुधाम् इव

10.52.018

भ्प्_10.52.018।0 श्री-राजोवाच
भगवान् भीष्मक-सुतां रुक्मिणीं रुचिराननाम् ।
राक्षसेन विधानेन उपयेम इति श्रुतम्

10.52.019

भगवन् श्रोतुम् इच्छामि कृष्णस्यामित-तेजसः ।
यथा मागध-शाल्वादीन् जित्वा कन्याम् उपाहरत्

10.52.020

ब्रह्मन् कृष्ण-कथाः पुण्या माध्वीर् लोक-मलापहाः ।
को नु तृप्येत शृण्वानः श्रुत-ज्ञो नित्य-नूतनाः

10.52.021

भ्प्_10.52.021।0 श्री-बादरायणिर् उवाच
राजासीद् भीष्मको नाम विदर्भाधिपतिर् महान् ।
तस्य पन्चाभवन् पुत्राः कन्यैका च वरानना

10.52.022

रुक्म्य् अग्रजो रुक्मरथो रुक्मबाहुर् अनन्तरः ।
रुक्मकेशो रुक्ममाली रुक्मिण्य् एषा स्वसा सती

10.52.023

सोपश्रुत्य मुकुन्दस्य रूप-वीर्य-गुण-श्रियः ।
गृहागतैर् गीयमानास् तं मेने सदृशं पतिम्

10.52.024

तां बुद्धि-लक्षणौदार्य- रूप-शील-गुणाश्रयाम् ।
कृष्णश् च सदृशीं भार्यां समुद्वोढुं मनो दधे

10.52.025

बन्धूनाम् इच्छतां दातुं कृष्णाय भगिनीं नृप ।
ततो निवार्य कृष्ण-द्विड् रुक्मी चैद्यम् अमन्यत

10.52.026

तद् अवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम् ।
विचिन्त्याप्तं द्विजं कञ्चित् कृष्णाय प्राहिणोद् द्रुतम्

10.52.027

द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः ।
अपश्यद् आद्यं पुरुषम् आसीनं काञ्चनासने

10.52.028

दृष्ट्वा ब्रह्मण्य-देवस् तम् अवरुह्य निजासनात् ।
उपवेश्यार्हयां चक्रे यथात्मानं दिवौकसः

10.52.029

तं भुक्तवन्तं विश्रान्तम् उपगम्य सतां गतिः ।
पाणिनाभिमृशन् पादाव् अव्यग्रस् तम् अपृच्छत

10.52.030

कच्चिद् द्विज-वर-श्रेष्ठ धर्मस् ते वृद्ध-सम्मतः ।
वर्तते नाति-कृच्छ्रेण सन्तुष्ट-मनसः सदा

10.52.031

सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित् ।
अहीयमानः स्वद् धर्मात् स ह्य् अस्याखिल-काम-धुक्

10.52.032

असन्तुष्टो ऽसकृल् लोकान् आप्नोत्य् अपि सुरेश्वरः ।
अकिञ्चनो ऽपि सन्तुष्टः शेते सर्वाङ्ग-विज्वरः

10.52.033

विप्रान् स्व-लाभ-सन्तुष्टान् साधून् भूत-सुहृत्तमान् ।
निरहङ्कारिणः शान्तान् नमस्ये शिरसासकृत्

10.52.034

कच्चिद् वः कुशलं ब्रह्मन् राजतो यस्य हि प्रजाः ।
सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः

10.52.035

यतस् त्वम् आगतो दुर्गं निस्तीर्येह यद्-इच्छया ।
सर्वं नो ब्रूह्य् अगुह्यं चेत् किं कार्यं करवाम ते

10.52.036

एवं सम्पृष्ट-सम्प्रश्नो ब्राह्मणः परमेष्ठिना ।
लीला-गृहीत-देहेन तस्मै सर्वम् अवर्णयत्

10.52.044

भ्प्_10.52.037।0 श्री-रुक्मिण्य् उवाच
श्रुत्वा गुणान् भुवन-सुन्दर शृण्वतां ते $ निर्विश्य कर्ण-विवरैर् हरतो ऽङ्ग-तापम् &
श्रुत्वा गुणान् भुवन-सुन्दर शृण्वतां ते $ निर्विश्य कर्ण-विवरैर् हरतो ऽङ्ग-तापम् &
रूपं दृशां दृशिमताम् अखिलार्थ-लाभं % त्वय्य् अच्युताविशति चित्तम् अपत्रपं मे ॥ भ्प्_10.52.037* ॥
का त्वा मुकुन्द महती कुल-शील-रूप- $ विद्या-वयो-द्रविण-धामभिर् आत्म-तुल्यम् &
का त्वा मुकुन्द महती कुल-शील-रूप- $ विद्या-वयो-द्रविण-धामभिर् आत्म-तुल्यम् &
धीरा पतिं कुलवती न वृणीत कन्या % काले नृ-सिंह नर-लोक-मनो-ऽभिरामम् ॥ भ्प्_10.52.038* ॥
तन् मे भवान् खलु वृतः पतिर् अङ्ग जायाम् $ आत्मार्पितश् च भवतो ऽत्र विभो विधेहि &
तन् मे भवान् खलु वृतः पतिर् अङ्ग जायाम् $ आत्मार्पितश् च भवतो ऽत्र विभो विधेहि &
मा वीर-भागम् अभिमर्शतु चैद्य आराद् % गोमायु-वन् मृग-पतेर् बलिम् अम्बुजाक्ष ॥ भ्प्_10.52.039* ॥
पूर्तेष्ट-दत्त-नियम-व्रत-देव-विप्र $ गुर्व्-अर्चनादिभिर् अलं भगवान् परेशः &
पूर्तेष्ट-दत्त-नियम-व्रत-देव-विप्र $ गुर्व्-अर्चनादिभिर् अलं भगवान् परेशः &
आराधितो यदि गदाग्रज एत्य पाणिं % गृह्णातु मे न दमघोष-सुतादयो ऽन्ये ॥ भ्प्_10.52.040* ॥
श्वो भाविनि त्वम् अजितोद्वहने विदर्भान् $ गुप्तः समेत्य पृतना-पतिभिः परीतः &
श्वो भाविनि त्वम् अजितोद्वहने विदर्भान् $ गुप्तः समेत्य पृतना-पतिभिः परीतः &
निर्मथ्य चैद्य-मगधेन्द्र-बलं प्रसह्य % मां राक्षसेन विधिनोद्वह वीर्य-शुल्काम् ॥ भ्प्_10.52.041* ॥
अन्तः-पुरान्तर-चरीम् अनिहत्य बन्धून् $ त्वाम् उद्वहे कथम् इति प्रवदाम्य् उपायम् &
अन्तः-पुरान्तर-चरीम् अनिहत्य बन्धून् $ त्वाम् उद्वहे कथम् इति प्रवदाम्य् उपायम् &
पूर्वे-द्युर् अस्ति महती कुल-देव-यात्रा % यस्यां बहिर् नव-वधूर् गिरिजाम् उपेयात् ॥ भ्प्_10.52.042* ॥
यस्याङ्घ्रि-पङ्कज-रजः-स्नपनं महान्तो $ वाञ्छन्त्य् उमा-पतिर् इवात्म-तमो-ऽपहत्यै &
यस्याङ्घ्रि-पङ्कज-रजः-स्नपनं महान्तो $ वाञ्छन्त्य् उमा-पतिर् इवात्म-तमो-ऽपहत्यै &
यर्ह्य् अम्बुजाक्ष न लभेय भवत्-प्रसादं % जह्याम् असून् व्रत-कृशान् शत-जन्मभिः स्यात् ॥ भ्प्_10.52.043*
0 ब्राह्मण उवाच
इत्य् एते गुह्य-सन्देशा यदु-देव मयाहृताः ।
विमृश्य कर्तुं यच् चात्र क्रियतां तद् अनन्तरम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc