भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.51

10.51.001

भ्प्_10.51.001।0 श्री-शुक उवाच
तं विलोक्य विनिष्क्रान्तम् उज्जिहानम् इवोडुपम् ।
दर्शनीयतमं श्यामं पीत-कौशेय-वाससम्

10.51.002

श्रीवत्स-वक्षसं भ्राजत् कौस्तुभामुक्त-कन्धरम् ।
पृथु-दीर्घ-चतुर्-बाहुं नव-कञ्जारुणेक्षणम्

10.51.003

नित्य-प्रमुदितं श्रीमत् सु-कपोलं शुचि-स्मितम् ।
मुखारविन्दं बिभ्राणं स्फुरन्-मकर-कुण्डलम्

10.51.004

वासुदेवो ह्य् अयम् इति पुमान् श्रीवत्स-लाञ्छनः ।
चतुर्-भुजो ऽरविन्दाक्षो वन-माल्य् अति-सुन्दरः

10.51.005

लक्षणैर् नारद-प्रोक्तैर् नान्यो भवितुम् अर्हति ।
निरायुधश् चलन् पद्भ्यां योत्स्ये ऽनेन निरायुधः

10.51.006

इति निश्चित्य यवनः प्राद्रवद् तं पराङ्-मुखम् ।
अन्वधावज् जिघृक्षुस् तं दुरापम् अपि योगिनाम्

10.51.007

हस्त-प्राप्तम् इवात्मानं हरीणा स पदे पदे ।
नीतो दर्शयता दूरं यवनेशो ऽद्रि-कन्दरम्

10.51.008

पलायनं यदु-कुले जातस्य तव नोचितम् ।
इति क्षिपन्न् अनुगतो नैनं प्रापाहताशुभः

10.51.009

एवं क्षिप्तो ऽपि भगवान् प्राविशद् गिरि-कन्दरम् ।
सो ऽपि प्रविष्टस् तत्रान्यं शयानं ददृशे नरम्

10.51.010

नन्व् असौ दूरम् आनीय शेते माम् इह साधु-वत् ।
इति मत्वाच्युतं मूढस् तं पदा समताडयत्

10.51.011

स उत्थाय चिरं सुप्तः शनैर् उन्मील्य लोचने ।
दिशो विलोकयन् पार्श्वे तम् अद्राक्षीद् अवस्थितम्

10.51.012

स तावत् तस्य रुष्टस्य दृष्टि-पातेन भारत ।
देह-जेनाग्निना दग्धो भस्म-साद् अभवत् क्षणात्

10.51.013

भ्प्_10.51.013।0 श्री-राजोवाच
को नाम स पुमान् ब्रह्मन् कस्य किं-वीर्य एव च ।
कस्माद् गुहां गतः शिष्ये किं-तेजो यवनार्दनः

10.51.014

भ्प्_10.51.014।0 श्री-शुक उवाच
स इक्ष्वाकु-कुले जातो मान्धातृ-तनयो महान् ।
मुचुकुन्द इति ख्यातो ब्रह्मण्यः सत्य-सङ्गरः

10.51.015

स याचितः सुर-गणैर् इन्द्राद्यैर् आत्म-रक्षणे ।
असुरेभ्यः परित्रस्तैस् तद्-रक्षां सो ऽकरोच् चिरम्

10.51.016

लब्ध्वा गुहं ते स्वः-पालं मुचुकुन्दम् अथाब्रुवन् ।
राजन् विरमतां कृच्छ्राद् भवान् नः परिपालनात्

10.51.017

नर-लोकं परित्यज्य राज्यं निहत-कण्टकम् ।
अस्मान् पालयतो वीर कामास् ते सर्व उज्झिताः

10.51.018

सुता महिष्यो भवतो ज्ञातयो ऽमात्य-मन्त्रिनः ।
प्रजाश् च तुल्य-कालीना नाधुना सन्ति कालिताः

10.51.019

कालो बलीयान् बलिनां भगवान् ईश्वरो ऽव्ययः ।
प्रजाः कालयते क्रीडन् पशु-पालो यथा पशून्

10.51.020

वरं वृणीष्व भद्रं ते ऋते कैवल्यम् अद्य नः ।
एक एवेश्वरस् तस्य भगवान् विष्णुर् अव्ययः

10.51.021

एवम् उक्तः स वै देवान् अभिवन्द्य महा-यशाः ।
अशयिष्ट गुहा-विष्टो निद्रया देव-दत्तया

10.51.022

यवने भस्म-सान् नीते भगवान् सात्वतर्षभः ।
आत्मानं दर्शयाम् आस मुचुकुन्दाय धीमते

10.51.023

तम् आलोक्य घन-श्यामं पीत-कौशेय-वाससम् ।
श्रीवत्स-वक्षसं भ्राजत् कौस्तुभेन विराजितम्

10.51.024

चतुर्-भुजं रोचमानं वैजयन्त्या च मालया ।
चारु-प्रसन्न-वदनं स्फुरन्-मकर-कुण्डलम्

10.51.025

प्रेक्षणीयं नृ-लोकस्य सानुराग-स्मितेक्षणम् ।
अपीव्य-वयसं मत्त- मृगेन्द्रोदार-विक्रमम्

10.51.026

पर्यपृच्छन् महा-बुद्धिस् तेजसा तस्य धर्षितः ।
शङ्कितः शनकै राजा दुर्धर्षम् इव तेजसा

10.51.027

भ्प्_10.51.027।0 श्री-मुचुकुन्द उवाच
को भवान् इह सम्प्राप्तो विपिने गिरि-गह्वरे ।
पद्भ्यां पद्म-पलाशाभ्यां विचरस्य् उरु-कण्टके

10.51.028

किं स्वित् तेजस्विनां तेजो भगवान् वा विभावसुः ।
सूर्यः सोमो महेन्द्रो वा लोक-पालो परो ऽपि वा

10.51.029

मन्ये त्वां देव-देवानां त्रयाणां पुरुषर्षभम् ।
यद् बाधसे गुहा-ध्वान्तं प्रदीपः प्रभया यथा

10.51.030

शुश्रूषताम् अव्यलीकम् अस्माकं नर-पुङ्गव ।
स्व-जन्म कर्म गोत्रं वा कथ्यतां यदि रोचते

10.51.031

वयं तु पुरुष-व्याघ्र ऐक्ष्वाकाः क्षत्र-बन्धवः ।
मुचुकुन्द इति प्रोक्तो यौवनाश्वात्मजः प्रभो

10.51.032

चिर-प्रजागर-श्रान्तो निद्रयापहतेन्द्रियः ।
शये ऽस्मिन् विजने कामं केनाप्य् उत्थापितो ऽधुना

10.51.033

सो ऽपि भस्मी-कृतो नूनम् आत्मीयेनैव पाप्मना ।
अनन्तरं भवान् श्रीमांल् लक्षितो ऽमित्र-शासनः

10.51.034

तेजसा ते ऽविषह्येण भूरि द्रष्टुं न शक्नुमः ।
हतौजसा महा-भाग माननीयो ऽसि देहिनाम्

10.51.035

एवं सम्भाषितो राज्ञा भगवान् भूत-भावनः ।
प्रत्याह प्रहसन् वाण्या मेघ-नाद-गभीरया

10.51.036

भ्प्_10.51.036।0 श्री-भगवान् उवाच
जन्म-कर्माभिधानानि सन्ति मे ऽङ्ग सहस्रशः ।
न शक्यन्ते ऽनुसङ्ख्यातुम् अनन्तत्वान् मयापि हि

10.51.037

क्वचिद् रजांसि विममे पार्थिवान्य् उरु-जन्मभिः ।
गुण-कर्माभिधानानि न मे जन्मानि कर्हिचित्

10.51.038

काल-त्रयोपपन्नानि जन्म-कर्माणि मे नृप ।
अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः

10.51.039

तथाप्य् अद्यतनान्य् अङ्ग शृनुष्व गदतो मम ।
विज्ञापितो विरिञ्चेन पुराहं धर्म-गुप्तये

10.51.040

भूमेर् भारायमाणानाम् असुराणां क्षयाय च ।
अवतीर्णो यदु-कुले गृह आनकदुन्दुभेः ।
वदन्ति वासुदेवेति वसुदेव-सुतं हि माम्

10.51.041

कालनेमिर् हतः कंसः प्रलम्बाद्याश् च सद्-द्विषः ।
अयं च यवनो दग्धो राजंस् ते तिग्म-चक्षुषा

10.51.042

सो ऽहं तवानुग्रहार्थं गुहाम् एताम् उपागतः ।
प्रार्थितः प्रचुरं पूर्वं त्वयाहं भक्त-वत्सलः

10.51.043

वरान् वृणीष्व राजर्षे सर्वान् कामान् ददामि ते ।
मां प्रसन्नो जनः कश्चिन् न भूयो ऽर्हति शोचितुम्

10.51.044

भ्प्_10.51.044।0 श्री-शुक उवाच
इत्य् उक्तस् तं प्रणम्याह मुचुकुन्दो मुदान्वितः ।
ज्ञात्वा नारायणं देवं गर्ग-वाक्यम् अनुस्मरन्

10.51.045

भ्प्_10.51.045।0 श्री-मुचुकुन्द उवाच
विमोहितो ऽयं जन ईश मायया त्वदीयया त्वां न भजत्य् अनर्थ-दृक् ।
सुखाय दुःख-प्रभवेषु सज्जते गृहेषु योषित् पुरुषश् च वञ्चितः

10.51.047

लब्ध्वा जनो दुर्लभम् अत्र मानुषं $ कथञ्चिद् अव्यङ्गम् अयत्नतो ऽनघ &अम्प्;
पादारविन्दं न भजत्य् असन्-मतिर् % गृहान्ध-कूपे पतितो यथा पशुः ॥ भ्प्_10.51.046* ॥
ममैष कालो ऽजित निष्फलो गतो राज्य-श्रियोन्नद्ध-मदस्य भू-पतेः ।
मर्त्यात्म-बुद्धेः सुत-दार-कोश-भूष्व् आसज्जमानस्य दुरन्त-चिन्तया

10.51.049

कलेवरे ऽस्मिन् घट-कुड्य-सन्निभे $ निरूढ-मानो नर-देव इत्य् अहम् &अम्प्;
वृतो रथेभाश्व-पदात्य्-अनीकपैर् % गां पर्यटंस् त्वागणयन् सु-दुर्मदः ॥ भ्प्_10.51.048* ॥
प्रमत्तम् उच्चैर् इतिकृत्य-चिन्तया प्रवृद्ध-लोभं विषयेषु लालसम् ।
त्वम् अप्रमत्तः सहसाभिपद्यसे क्षुल्-लेलिहानो ऽहिर् इवाखुम् अन्तकः

10.51.051

पुरा रथैर् हेम-परिष्कृतैश् चरन् $ मतं-गजैर् वा नर-देव-संज्ञितः &अम्प्;
स एव कालेन दुरत्ययेन ते % कलेवरो विट्-कृमि-भस्म-संज्ञितः ॥ भ्प्_10.51.050* ॥
निर्जित्य दिक्-चक्रम् अभूत-विग्रहो वरासन-स्थः सम-राज-वन्दितः ।
गृहेषु मैथुन्य-सुखेषु योषितां क्रीडा-मृगः पूरुष ईश नीयते

10.51.052

करोति कर्माणि तपः-सुनिष्ठितो निवृत्त-भोगस् तद्-अपेक्षयाददत् ।
पुनश् च भूयासम् अहं स्व-राड् इति प्रवृद्ध-तर्षो न सुखाय कल्पते

10.51.053

भवापवर्गो भ्रमतो यदा भवेज् जनस्य तर्ह्य् अच्युत सत्-समागमः ।
सत्-सङ्गमो यर्हि तदैव सद्-गतौ परावरेशे त्वयि जायते मतिः

10.51.054

मन्ये ममानुग्रह ईश ते कृतो राज्यानुबन्धापगमो यदृच्छया ।
यः प्रार्थ्यते साधुभिर् एक-चर्यया वनं विविक्षद्भिर् अखण्ड-भूमि-पैः

10.51.055

न कामये ऽन्यं तव पाद-सेवनाद् अकिञ्चन-प्रार्थ्यतमाद् वरं विभो ।
आराध्य कस् त्वां ह्य् अपवर्ग-दं हरे वृणीत आर्यो वरम् आत्म-बन्धनम्

10.51.056

तस्माद् विसृज्याशिष ईश सर्वतो रजस्-तमः-सत्त्व-गुणानुबन्धनाः ।
निरञ्जनं निर्गुणम् अद्वयं परं त्वां ज्ञाप्ति-मात्रं पुरुषं व्रजाम्य् अहम्

10.51.058

चिरम् इह वृजिनार्तस् तप्यमानो ऽनुतापैर् $ अवितृष-षड्-अमित्रो ऽलब्ध-शान्तिः कथञ्चित् &अम्प्;
शरण-द समुपेतस् त्वत्-पदाब्जं परात्मन् % अभयम् ऋतम् अशोकं पाहि मापन्नम् ईश ॥ भ्प्_10.51.057*
0 श्री-भगवान् उवाच
सार्वभौम महा-राज मतिस् ते विमलोर्जिता ।
वरैः प्रलोभितस्यापि न कामैर् विहता यतः

10.51.059

प्रलोभितो वरैर् यत् त्वम् अप्रमादाय विद्धि तत् ।
न धीर् एकान्त-भक्तानाम् आशीर्भिर् भिद्यते क्वचित्

10.51.060

युञ्जानानाम् अभक्तानां प्राणायामादिभिर् मनः ।
अक्षीण-वासनं राजन् दृश्यते पुनर् उत्थितम्

10.51.061

विचरस्व महीं कामं मय्य् आवेशित-मानसः ।
अस्त्व् एवं नित्यदा तुभ्यं भक्तिर् मय्य् अनपायिनी

10.51.062

क्षात्र-धर्म-स्थितो जन्तून् न्यवधीर् मृगयादिभिः ।
समाहितस् तत् तपसा जह्य् अघं मद्-उपाश्रितः

10.51.063

जन्मन्य् अनन्तरे राजन् सर्व-भूत-सुहृत्तमः ।
भूत्वा द्विज-वरस् त्वं वै माम् उपैष्यसि केवलम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc