भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.50

10.50.001

भ्प्_10.50.001।0 श्री-शुक उवाच
अस्तिः प्राप्तिश् च कंसस्य महिष्यौ भरतर्षभ ।
मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर् गृहान्

10.50.002

पित्रे मगध-राजाय जरासन्धाय दुःखिते ।
वेदयां चक्रतुः सर्वम् आत्म-वैधव्य-कारणम्

10.50.003

स तद् अप्रियम् आकर्ण्य शोकामर्ष-युतो नृप ।
अयादवीं महीं कर्तुं चक्रे परमम् उद्यमम्

10.50.004

अक्षौहिणीभिर् विंशत्या तिसृभिश् चापि संवृतः ।
यदु-राजधानीं मथुरां न्यरुधत् सर्वतो दिशम्

10.50.005

निरीक्ष्य तद्-बलं कृष्ण उद्वेलम् इव सागरम् ।
स्व-पुरं तेन संरुद्धं स्व-जनं च भयाकुलम्

10.50.006

चिन्तयाम् आस भगवान् हरिः कारण-मानुषः ।
तद्-देश-कालानुगुणं स्वावतार-प्रयोजनम्

10.50.007

हनिष्यामि बलं ह्य् एतद् भुवि भारं समाहितम् ।
मागधेन समानीतं वश्यानां सर्व-भूभुजाम्

10.50.008

अक्षौहिणीभिः सङ्ख्यातं भटाश्व-रथ-कुञ्जरैः ।
मागधस् तु न हन्तव्यो भूयः कर्ता बलोद्यमम्

10.50.009

एतद्-अर्थो ऽवतारो ऽयं भू-भार-हरणाय मे ।
संरक्षणाय साधूनां कृतो ऽन्येषां वधाय च

10.50.010

अन्यो ऽपि धर्म-रक्षायै देहः संभ्रियते मया ।
विरामायाप्य् अधर्मस्य काले प्रभवतः क्वचित्

10.50.011

एवं ध्यायति गोविन्द आकाशात् सूर्य-वर्चसौ ।
रथाव् उपस्थितौ सद्यः स-सूतौ स-परिच्छदौ

10.50.012

आयुधानि च दिव्यानि पुराणानि यदृच्छया ।
दृष्ट्वा तानि हृषीकेशः सङ्कर्षणम् अथाब्रवीत्

10.50.013

पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो ।
एष ते रथ आयातो दयितान्य् आयुधानि च

10.50.014

एतद्-अर्थं हि नौ जन्म साधूनाम् ईश शर्म-कृत् ।
त्रयो-विंशत्य्-अनीकाख्यं भूमेर् भारम् अपाकुरु

10.50.015

एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् ।
निर्जग्मतुः स्वायुधाढ्यौ बलेनाल्पीयसा वृतौ

10.50.016

शङ्खं दध्मौ विनिर्गत्य हरिर् दारुक-सारथिः ।
ततो ऽभूत् पर-सैन्यानां हृदि वित्रास-वेपथुः

10.50.017

ताव् आह मागधो वीक्ष्य हे कृष्ण पुरुषाधम ।
न त्वया योद्धुम् इच्छामि बालेनैकेन लज्जया ।
गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धु-हन्

10.50.018

तव राम यदि श्रद्धा युध्यस्व धैर्यम् उद्वह ।
हित्वा वा मच्-छरैश् छिन्नं देहं स्वर् याहि मां जहि

10.50.019

भ्प्_10.50.019।0 श्री-भगवान् उवाच
न वै शूरा विकत्थन्ते दर्शयन्त्य् एव पौरुषम् ।
न गृह्णीमो वचो राजन्न् आतुरस्य मुमूर्षतः

10.50.020

भ्प्_10.50.020।0 श्री-शुक उवाच
जरा-सुतस् ताव् अभिसृत्य माधवौ महा-बलौघेन बलीयसावृनोत् ।
स-सैन्य-यान-ध्वज-वाजि-सारथी सूर्यानलौ वायुर् इवाभ्र-रेणुभिः

10.50.022

सुपर्ण-ताल-ध्वज-चिहित्नौ रथाव् $ अलक्षयन्त्यो हरि-रामयोर् मृधे &अम्प्;
स्त्रियः पुराट्टालक-हर्म्य-गोपुरं % समाश्रिताः सम्मुमुहुः शुचार्दितः ॥ भ्प्_10.50.021* ॥
हरिः परानीक-पयोमुचां मुहुः शिलीमुखात्य्-उल्बण-वर्ष-पीडितम् ।
स्व-सैन्यम् आलोक्य सुरासुरार्चितं व्यस्फूर्जयच् छार्ङ्ग-शरासनोत्तमम्

10.50.024

गृह्णन् निशङ्गाद् अथ सन्दधच् छरान् $ विकृष्य मुञ्चन् शित-बाण-पूगान् &अम्प्;
निघ्नन् रथान् कुञ्जर-वाजि-पत्तीन् % निरन्तरं यद्वद् अलात-चक्रम् ॥ भ्प्_10.50.023* ॥
निर्भिन्न-कुम्भाः करिणो निपेतुर् अनेकशो ऽश्वाः शर-वृक्ण-कन्धराः ।
रथा हताश्व-ध्वज-सूत-नायकाः पदायतश् छिन्न-भुजोरु-कन्धराः

10.50.025

सञ्छिद्यमान-द्विपदेभ-वाजिनाम् अङ्ग-प्रसूताः शतशो ऽसृग्-आपगाः ।
भुजाहयः पूरुष-शीर्ष-कच्छपा हत-द्विप-द्वीप-हय ग्रहाकुलाः

10.50.026

करोरु-मीना नर-केश-शैवला धनुस्-तरङ्गायुध-गुल्म-सङ्कुलाः ।
अच्छूरिकावर्त-भयानका महा- मणि-प्रवेकाभरणाश्म-शर्कराः

10.50.027

प्रवर्तिता भीरु-भयावहा मृधे मनस्विनां हर्ष-करीः परस्परम् ।
विनिघ्नतारीन् मुषलेन दुर्मदान् सङ्कर्षणेनापरीमेय-तेजसा

10.50.028

बलं तद् अङ्गार्णव-दुर्ग-भैरवं दुरन्त-पारं मगधेन्द्र-पालितम् ।
क्षयं प्रणीतं वसुदेव-पुत्रयोर् विक्रीडितं तज् जगद्-ईशयोः परम्

10.50.030

स्थित्य्-उद्भवान्तं भुवन-त्रयस्य यः $ समीहिते ऽनन्त-गुणः स्व-लीलया &अम्प्;
न तस्य चित्रं पर-पक्ष-निग्रहस् % तथापि मर्त्यानुविधस्य वर्ण्यते ॥ भ्प्_10.50.029* ॥
जग्राह विरथं रामो जरासन्धं महा-बलम् ।
हतानीकावशिष्टासुं सिंहः सिंहम् इवौजसा

10.50.031

बध्यमानं हतारातिं पाशैर् वारुण-मानुषैः ।
वारयाम् आस गोविन्दस् तेन कार्य-चिकीर्षया

10.50.032

सा मुक्तो लोक-नाथाभ्यां व्रीडितो वीर-सम्मतः ।
तपसे कृत-सङ्कल्पो वारितः पथि राजभिः

10.50.033

वाक्यैः पवित्रार्थ-पदैर् नयनैः प्राकृतैर् अपि ।
स्व-कर्म-बन्ध-प्राप्तो ऽयं यदुभिस् ते पराभवः

10.50.034

हतेषु सर्वानीकेषु नृपो बार्हद्रथस् तदा ।
उपेक्षितो भगवता मगधान् दुर्मना ययौ

10.50.035

मुकुन्दो ऽप्य् अक्षत-बलो निस्तीर्णारि-बलार्णवः ।
विकीर्यमाणः कुसुमैस् त्रीदशैर् अनुमोदितः

10.50.036

माथुरैर् उपसङ्गम्य विज्वरैर् मुदितात्मभिः ।
उपगीयमान-विजयः सूत-मागध-वन्दिभिः

10.50.037

शङ्ख-दुन्दुभयो नेदुर् भेरी-तूर्याण्य् अनेकशः ।
वीणा-वेणु-मृदङ्गानि पुरं प्रविशति प्रभौ

10.50.038

सिक्त-मार्गां हृष्ट-जनां पताकाभिर् अभ्यलङ्कृताम् ।
निर्घुष्टां ब्रह्म-घोषेण कौतुकाबद्ध-तोरणाम्

10.50.039

निचीयमानो नारीभिर् माल्य-दध्य्-अक्षताङ्कुरैः ।
निरीक्ष्यमाणः स-स्नेहं प्रीत्य्-उत्कलित-लोचनैः

10.50.040

आयोधन-गतं वित्तम् अनन्तं वीर-भूषणम् ।
यदु-राजाय तत् सर्वम् आहृतं प्रादिशत् प्रभुः

10.50.041

एवं सप्तदश-कृत्वस् तावत्य् अक्षौहिणी-बलः ।
युयुधे मागधो राजा यदुभिः कृष्ण-पालितैः

10.50.042

अक्षिण्वंस् तद्-बलं सर्वं वृष्णयः कृष्ण-तेजसा ।
हतेषु स्वेष्व् अनीकेषु त्यक्तो ऽगाद् अरिभिर् नृपः

10.50.043

अष्टादशम सङ्ग्राम आगामिनि तद्-अन्तरा ।
नारद-प्रेषितो वीरो यवनः प्रत्यदृश्यत

10.50.044

रुरोध मथुराम् एत्य तिसृभिर् म्लेच्छ-कोटिभिः ।
नृ-लोके चाप्रतिद्वन्द्वो वृष्णीन् श्रुत्वात्म-सम्मितान्

10.50.045

तं दृष्ट्वाचिन्तयत् कृष्णः सङ्कर्षण सहायवान् ।
अहो यदूनां वृजिनं प्राप्तं ह्य् उभयतो महत्

10.50.046

यवनो ऽयं निरुन्धे ऽस्मान् अद्य तावन् महा-बलः ।
मागधो ऽप्य् अद्य वा श्वो वा परश्वो वागमिष्यति

10.50.047

आवयोः युध्यतोर् अस्य यद्य् आगन्ता जरा-सुतः ।
बन्धून् हनिष्यत्य् अथ वा नेष्यते स्व-पुरं बली

10.50.048

तस्माद् अद्य विधास्यामो दुर्गं द्विपद-दुर्गमम् ।
तत्र ज्ञातीन् समाधाय यवनं घातयामहे

10.50.049

इति सम्मन्त्र्य भगवान् दुर्गं द्वादश-योजनम् ।
अन्तः-समुद्रे नगरं कृत्स्नाद्भुतम् अचीकरत्

10.50.050

दृश्यते यत्र हि त्वाष्ट्रं विज्ञानं शिल्प-नैपुणम् ।
रथ्या-चत्वर-वीथीभिर् यथा-वास्तु विनिर्मितम्

10.50.051

सुर-द्रुम-लतोद्यान- विचित्रोपवनान्वितम् ।
हेम-शृङ्गैर् दिवि-स्पृग्भिः स्फटिकाट्टाल-गोपुरैः

10.50.052

राजतारकुटैः कोष्ठैर् हेम-कुम्भैर् अलङ्कृतैः ।
रत्न-कूतैर् गृहैर् हेमैर् महा-मारकत-स्थलैः

10.50.053

वास्तोष्पतीनां च गृहैर् वल्लभीभिश् च निर्मितम् ।
चातुर्-वर्ण्य-जनाकीर्णं यदु-देव-गृहोल्लसत्

10.50.054

सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद् धरेः ।
यत्र चावस्थितो मर्त्यो मर्त्य-धर्मैर् न युज्यते

10.50.055

श्यामैक-वर्णान् वरुणो हयान् शुक्लान् मनो-जवान् ।
अष्टौ निधि-पतिः कोशान् लोक-पालो निजोदयान्

10.50.056

यद् यद् भगवता दत्तम् आधिपत्यं स्व-सिद्धये ।
सर्वं प्रत्यर्पयाम् आसुर् हरौ भूमि-गते नृप

10.50.057

तत्र योग-प्रभावेन नीत्वा सर्व-जनं हरिः ।
प्रजा-पालेन रामेण कृष्णः समनुमन्त्रितः ।
निर्जगाम पुर-द्वारात् पद्म-माली निरायुधः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc