भागवत पुराण · अध्याय 10.49
भ्प्_10.49.001।0 श्री-शुक उवाच
स गत्वा हास्तिनपुरं पौरवेन्द्र-यशो-ऽङ्कितम् ।
ददर्श तत्राम्बिकेयं स-भीष्मं विदुरं पृथाम्
सह-पुत्रं च बाह्लीकं भारद्वाजं स-गौतमम् ।
कर्नं सुयोधनं द्रौणिं पाण्डवान् सुहृदो ऽपरान्
यथावद् उपसङ्गम्य बन्धुभिर् गान्दिनी-सुतः ।
सम्पृष्टस् तैः सुहृद्-वार्तां स्वयं चापृच्छद् अव्ययम्
उवास कतिचिन् मासान् राज्ञो वृत्त-विवित्सया ।
दुष्प्रजस्याल्प-सारस्य खल-च्छन्दानुवर्तिनः
तेज ओजो बलं वीर्यं प्रश्रयादींश् च सद्-गुणान् ।
प्रजानुरागं पार्थेषु न सहद्भिश् चिकीऋषितम्
कृतं च धार्तराष्ट्रैर् यद् गर-दानाद्य् अपेशलम् ।
आचख्यौ सर्वम् एवास्मै पृथा विदुर एव च
पृथा तु भ्रातरं प्राप्तम् अक्रूरम् उपसृत्य तम् ।
उवाच जन्म-निलयं स्मरन्त्य् अश्रु-कलेक्षणा
अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश् च मे ।
भगिन्यौ भ्रातृ-पुत्राश् च जामयः सख्य एव च
भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्त-वत्सलः ।
पैतृ-ष्वस्रेयान् स्मरति रामश् चाम्बुरुहेक्षणः
सपत्न-मध्ये शोचन्तीं वृकानां हरिणीम् इव ।
सान्त्वयिष्यति मां वाक्यैः पितृ-हीनांश् च बालकान्
कृष्ण कृष्ण महा-योगिन् विश्वात्मन् विश्व-भावन ।
प्रपन्नां पाहि गोविन्द शिशुभिश् चावसीदतीम्
नान्यत् तव पदाम्भोजात् पश्यामि शरणं नृणाम् ।
बिभ्यतां मृत्यु-संसाराद् ईस्वरस्यापवर्गिकात्
नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने ।
योगेश्वराय योगाय त्वाम् अहं शरणं गता
भ्प्_10.49.014।0 श्री-शुक उवाच
इत्य् अनुस्मृत्य स्व-जनं कृष्णं च जगद्-ईश्वरम् ।
प्रारुदद् दुःखिता राजन् भवतां प्रपितामही
सम-दुःख-सुखो ऽक्रूरो विदुरश् च महा-यशाः ।
सान्त्वयाम् आसतुः कुन्तीं तत्-पुत्रोत्पत्ति-हेतुभिः
यास्यन् राजानम् अभ्येत्य विषमं पुत्र-लालसम् ।
अवदत् सुहृदां मध्ये बन्धुभिः सौहृदोदितम्
भ्प्_10.49.017।0 अक्रूर उवाच
भो भो वैचित्रवीर्य त्वं कुरूणां कीर्ति-वर्धन ।
भ्रातर्य् उपरते पाण्डाव् अधुनासनम् आस्थितः
धर्मेण पालयन्न् उर्वीं प्रजाः शीलेन रञ्जयन् ।
वर्तमानः समः स्वेषु श्रेयः कीर्तिम् अवाप्स्यसि
अन्यथा त्व् आचरंल् लोके गर्हितो यास्यसे तमः ।
तस्मात् समत्वे वर्तस्व पाण्डवेष्व् आत्मजेषु च
नेह चात्यन्त-संवासः कस्यचित् केनचित् सह ।
राजन् स्वेनापि देहेन किम् उ जायात्मजादिभिः
एकः प्रसूयते जन्तुर् एक एव प्रलीयते ।
एको ऽनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम्
अधर्मोपचितं वित्तं हरन्त्य् अन्ये ऽल्प-मेधसः ।
सम्भोजनीयापदेशैर् जलानीव जलौकसः
पुष्णाति यान् अधर्मेण स्व-बुद्ध्या तम् अपण्डितम् ।
ते ऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः
स्वयं किल्बिषम् आदाय तैस् त्यक्तो नार्थ-कोविदः ।
असिद्धार्थो विशत्य् अन्धं स्व-धर्म-विमुखस् तमः
तस्माल् लोकम् इमं राजन् स्वप्न-माया-मनोरथम् ।
वीक्ष्यायम्यात्मनात्मानं समः शान्तो भव प्रभो
भ्प्_10.49.026।0 धृतराष्ट्र उवाच
यथा वदति कल्याणीं वाचं दान-पते भवान् ।
तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम्
तथापि सूनृता सौम्य हृदि न स्थीयते चले ।
पुत्रानुराग-विषमे विद्युत् सौदामनी यथा
ईश्वरस्य विधिं को नु विधुनोत्य् अन्यथा पुमान् ।
भूमेर् भारावताराय यो ऽवतीर्णो यदोः कुले
यो दुर्विमर्श-पथया निज-माययेदं $ सृष्ट्वा गुणान् विभजते तद्-अनुप्रविष्टः &अम्प्;
तस्मै नमो दुरवबोध-विहार-तन्त्र- % संसार-चक्र-गतये परमेश्वराय ॥ भ्प्_10.49.029*
0 श्री-शुक उवाच
इत्य् अभिप्रेत्य नृपतेर् अभिप्रायं स यादवः ।
सुहृद्भिः समनुज्ञातः पुनर् यदु-पुरीम् अगात्
शशंस राम-कृष्णाभ्यां धृतराष्ट्र-विचेष्टितम् ।
पाण्दवान् प्रति कौरव्य यद्-अर्थं प्रेषितः स्वयम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0