भागवत पुराण · अध्याय 10.48
भ्प्_10.48.001।0 श्री-शुक उवाच
अथ विज्ञाय भगवान् सर्वात्मा सर्व-दर्शनः ।
सैरन्ध्र्याः काम-तप्तायाः प्रियम् इच्छन् गृहं ययौ
महार्होपस्करैर् आढ्यं कामोपायोपबृंहितम् ।
मुक्ता-दाम-पताकाभिर् वितान-शयनासनैः ।
धूपैः सुरभिभिर् दीपैः स्रग्-गन्धैर् अपि मण्डितम्
गृहं तम् आयान्तम् अवेक्ष्य सासनात् सद्यः समुत्थाय हि जात-सम्भ्रमा ।
यथोपसङ्गम्य सखीभिर् अच्युतं सभाजयाम् आस सद्-आसनादिभिः
तथोद्धवः साधुतयाभिपूजितो न्यषीदद् उर्व्याम् अभिमृश्य चासनम् ।
कृष्णो ऽपि तूर्णं शयनं महा-धनं विवेश लोकाचरितान्य् अनुव्रतः
सा मज्जनालेप-दुकूल-भूषण स्रग्-गन्ध-ताम्बूल-सुधासवादिभिः ।
प्रसाधितात्मोपससार माधवं स-व्रीड-लीलोत्स्मित-विभ्रमेक्षितैः
आहूय कान्तां नव-सङ्गम-ह्रिया विशङ्कितां कङ्कण-भूषिते करे ।
प्रगृह्य शय्याम् अधिवेश्य रामया रेमे ऽनुलेपार्पण-पुण्य-लेशया
सानङ्ग-तप्त-कुचयोर् उरसस् तथाक्ष्णोर् $ जिघ्रन्त्य् अनन्त-चरणेन रुजो मृजन्ती &अम्प्;
दोर्भ्यां स्तनान्तर-गतं परिरभ्य कान्तम् % आनन्द-मूर्तिम् अजहाद् अति-दीर्घ-तापम् ॥ भ्प्_10.48.007* ॥
सैवं कैवल्य-नाथं तं प्राप्य दुष्प्राप्यम् ईश्वरम् ।
अङ्ग-रागार्पणेनाहो दुर्भगेदम् अयाचत
सहोष्यताम् इह प्रेष्ठ दिनानि कतिचिन् मया ।
रमस्व नोत्सहे त्यक्तुं सङ्गं ते ऽम्बुरुहेक्षण
तस्यै काम-वरं दत्त्वा मानयित्वा च मान-दः ।
सहोद्धवेन सर्वेशः स्व-धामागमद् ऋद्धिमत्
दुरार्ध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् ।
यो वृणीते मनो-ग्राह्यम् असत्त्वात् कुमनीष्य् असौ
अक्रूर-भवनं कृष्णः सह-रामोद्धवः प्रभुः ।
किञ्चिच् चिकीर्षयन् प्रागाद् अक्रूर-प्रीय-काम्यया
स तान् नर-वर-श्रेष्ठान् आराद् वीक्ष्य स्व-बान्धवान् ।
प्रत्युत्थाय प्रमुदितः परिष्वज्याभिनन्द्य च
ननाम कृष्णं रामं च स तैर् अप्य् अभिवादितः ।
पूजयाम् आस विधि-वत् कृतासन-परिग्रहान्
पादावनेजनीर् आपो धारयन् शिरसा नृप ।
अर्हणेनाम्बरैर् दिव्यैर् गन्ध-स्रग्-भूषणोत्तमैः
अर्चित्वा शिरसानम्य पादाव् अङ्क-गतौ मृजन् ।
प्रश्रयावनतो ऽक्रूरः कृष्ण-रामाव् अभाषत
दिष्ट्या पापो हतः कंसः सानुगो वाम् इदं कुलम् ।
भवद्भ्याम् उद्धृतं कृच्छ्राद् दुरन्ताच् च समेधितम्
युवां प्रधान-पुरुषौ जगद्-धेतू जगन्-मयौ ।
भवद्भ्यां न विना किञ्चित् परम् अस्ति न चापरम्
आत्म-सृष्टम् इदं विश्वम् अन्वाविश्य स्व-शक्तिभिः ।
ईयते बहुधा ब्रह्मन् श्रु त-प्रत्यक्ष-गोचरम्
यथा हि भूतेषु चराचरेषु मह्य्-आदयो योनिषु भान्ति नाना ।
एवं भवान् केवल आत्म-योनिष्व् आत्मात्म-तन्त्रो बहुधा विभाति
सृजस्य् अथो लुम्पसि पासि विश्वं रजस्-तमः-सत्त्व-गुणैः स्व-शक्तिभिः ।
न बध्यसे तद्-गुण-कर्मभिर् वा ज्ञानात्मनस् ते क्व च बन्ध-हेतुः
देहाद्य्-उपाधेर् अनिरूपितत्वाद् भवो न साक्षान् न भिदात्मनः स्यात् ।
अतो न बन्धस् तव नैव मोक्षः स्याताम् निकामस् त्वयि नो ऽविवेकः
त्वयोदितो ऽयं जगतो हिताय यदा यदा वेद-पथः पुराणः ।
बाध्येत पाषण्ड-पथैर् असद्भिस् तदा भवान् सत्त्व-गुणं बिभर्ति
स त्वम् प्रभो ऽद्य वसुदेव-गृहे ऽवतीर्णः $ स्वांशेन भारम् अपनेतुम् इहासि भूमेः &अम्प्;
अक्षौहिणी-शत-वधेन सुरेतरांश- % राज्ञाम् अमुष्य च कुलस्य यशो वितन्वन् ॥ भ्प्_10.48.024* ॥
अद्येश नो वसतयः खलु भूरि-भागा $ यः सर्व-देव-पितृ-भूत-नृ-देव-मूर्तिः &
अद्येश नो वसतयः खलु भूरि-भागा $ यः सर्व-देव-पितृ-भूत-नृ-देव-मूर्तिः &
यत्-पाद-शौच-सलिलं त्रि-जगत् पुनाति % स त्वं जगद्-गुरुर् अधोक्षज याः प्रविष्टः ॥ भ्प्_10.48.025* ॥
कः पण्डितस् त्वद् अपरं शरणं समीयाद् $ भक्त-प्रियाद् ऋत-गिरः सुहृदः कृत-ज्ञात् &
कः पण्डितस् त्वद् अपरं शरणं समीयाद् $ भक्त-प्रियाद् ऋत-गिरः सुहृदः कृत-ज्ञात् &
सर्वान् ददाति सुहृदो भजतो ऽभिकामान् % आत्मानम् अप्य् उपचयापचयौ न यस्य ॥ भ्प्_10.48.026* ॥
दिष्ट्या जनार्दन भवान् इह नः प्रतीतो $ योगेश्वरैर् अपि दुराप-गतिः सुरेशैः &
दिष्ट्या जनार्दन भवान् इह नः प्रतीतो $ योगेश्वरैर् अपि दुराप-गतिः सुरेशैः &
छिन्ध्य् आशु नः सुत-कलत्र-धनाप्त-गेह- % देहादि-मोह-रशनां भवदीय-मायाम् ॥ भ्प्_10.48.027* ॥
इत्य् अर्चितः संस्तुतश् च भक्तेन भगवान् हरिः ।
अक्रूरं स-स्मितं प्राह गीर्भिः सम्मोहयन्न् इव
भ्प्_10.48.029।0 श्री-भगवान् उवाच
त्वं नो गुरुः पितृव्यश् च श्लाघ्यो बन्धुश् च नित्यदा ।
वयं तु रक्ष्याः पोष्याश् च अनुकम्प्याः प्रजा हि वः
भवद्-विधा महा-भागा निषेव्या अर्ह-सत्तमाः ।
श्रेयस्-कामैर् नृभिर् नित्यं देवाः स्वार्था न साधवः
न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः ।
ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः
स भवान् सुहृदां वै नः श्रेयान् श्रेयश्-चिकीर्षया ।
जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम्
पितर्य् उपरते बालाः सह मात्रा सु-दुःखिताः ।
आनीताः स्व-पुरं राज्ञा वसन्त इति शुश्रुम
तेषु राजाम्बिका-पुत्रो भ्रातृ-पुत्रेषु दीन-धीः ।
समो न वर्तते नूनं दुष्पुत्र-वश-गो ऽन्ध-दृक्
गच्छ जानीहि तद्-वृत्तम् अधुना साध्व् असाधु वा ।
विज्ञाय तद् विधास्यामो यथा शं सुहृदां भवेत्
इत्य् अक्रूरं समादिश्य भगवान् हरिर् ईश्वरः ।
सङ्कर्षणोद्धवाभ्यां वै ततः स्व-भवनं ययौ
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0