भागवत पुराण · अध्याय 10.47
भ्प्_10.47.001।0 श्री-शुक उवाच
तं वीक्ष्य कृषानुचरं व्रज-स्त्रियः $ प्रलम्ब-बाहुं नव-कञ्ज-लोचनम् &
तं वीक्ष्य कृषानुचरं व्रज-स्त्रियः $ प्रलम्ब-बाहुं नव-कञ्ज-लोचनम् &
पीताम्बरं पुष्कर-मालिनं लसन्- % मुखारविन्दं परिमृष्ट-कुण्डलम् ॥ भ्प्_10.47.001* ॥
सु-विस्मिताः को ऽयम् अपीव्य-दर्शनः $ कुतश् च कस्याच्युत-वेष-भूषणः &
सु-विस्मिताः को ऽयम् अपीव्य-दर्शनः $ कुतश् च कस्याच्युत-वेष-भूषणः &
इति स्म सर्वाः परिवव्रुर् उत्सुकास् % तम् उत्तमः-श्लोक-पदाम्बुजाश्रयम् ॥ भ्प्_10.47.002* ॥
तं प्रश्रयेणावनताः सु-सत्-कृतं स-व्रीड-हासेक्षण-सूनृतादिभिः ।
रहस्य् अपृच्छन्न् उपविष्टम् आसने विज्ञाय सन्देश-हरं रमा-पतेः
जानीमस् त्वां यदु-पतेः पार्षदं समुपागतम् ।
भर्त्रेह प्रेषितः पित्रोर् भवान् प्रिय-चिकीर्षया
अन्यथा गो-व्रजे तस्य स्मरणीयं न चक्ष्महे ।
स्नेहानुबन्धो बन्धूनां मुनेर् अपि सु-दुस्त्यजः
अन्येष्व् अर्थ-कृता मैत्री यावद्-अर्थ-विडम्बनम् ।
पुम्भिः स्त्रीषु कृता यद्वत् सुमनःस्व् इव षट्पदैः
निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः ।
अधीत-विद्या आचार्यम् ऋत्विजो दत्त-दक्षिणम्
खगा वीत-फलं वृक्षं भुक्त्वा चातिथयो गृहम् ।
दग्धं मृगास् तथारण्यं जारा भुक्त्वा रतां स्त्रियम्
इति गोप्यो हि गोविन्दे गत-वाक्-काय-मानसाः ।
कृष्ण-दूते समायाते उद्धवे त्यक्त-लौकिकाः
गायन्त्यः प्रीय-कर्माणि रुदन्त्यश् च गत-ह्रियः ।
तस्य संस्मृत्य संस्मृत्य यानि कैशोर-बाल्ययोः
काचिन् मधुकरं दृष्ट्वा ध्यायन्ती कृष्ण-सङ्गमम् ।
प्रिय-प्रस्थापितं दूतं कल्पयित्वेदम् अब्रवीत्
भ्प्_10.47.012।0 गोप्य् उवाच
मधुप कितव-बन्धो मा स्पृशङ्घ्रिं सपत्न्याः $ कुच-विलुलित-माला-कुङ्कुम-श्मश्रुभिर् नः &
मधुप कितव-बन्धो मा स्पृशङ्घ्रिं सपत्न्याः $ कुच-विलुलित-माला-कुङ्कुम-श्मश्रुभिर् नः &
वहतु मधु-पतिस् तन्-मानिनीनां प्रसादं % यदु-सदसि विडम्ब्यं यस्य दूतस् त्वम् ईदृक् ॥ भ्प्_10.47.012* ॥
सकृद् अधर-सुधां स्वां मोहिनीं पाययित्वा $ सुमनस इव सद्यस् तत्यजे ऽस्मान् भवादृक् &
सकृद् अधर-सुधां स्वां मोहिनीं पाययित्वा $ सुमनस इव सद्यस् तत्यजे ऽस्मान् भवादृक् &
परिचरति कथं तत्-पाद-पद्मं नु पद्मा % ह्य् अपि बत हृत-चेता ह्य् उत्तमः-श्लोक-जल्पैः ॥ भ्प्_10.47.013* ॥
किम् इह बहु षड्-अङ्घ्रे गायसि त्वं यदूनाम् $ अधिपतिम् अगृहाणाम् अग्रतो नः पुराणम् &
किम् इह बहु षड्-अङ्घ्रे गायसि त्वं यदूनाम् $ अधिपतिम् अगृहाणाम् अग्रतो नः पुराणम् &
विजय-सख-सखीनां गीयतां तत्-प्रसङ्गः % क्षपित-कुच-रुजस् ते कल्पयन्तीष्टम् इष्टाः ॥ भ्प्_10.47.014* ॥
दिवि भुवि च रसायां काः स्त्रियस् तद्-दुरापाः $ कपट-रुचिर-हास-भ्रू-विजृम्भस्य याः स्युः &
दिवि भुवि च रसायां काः स्त्रियस् तद्-दुरापाः $ कपट-रुचिर-हास-भ्रू-विजृम्भस्य याः स्युः &
चरण-रज उपास्ते यस्य भूतिर् वयं का % अपि च कृपण-पक्षे ह्य् उत्तमः-श्लोक-शब्दः ॥ भ्प्_10.47.015* ॥
विसृज शिरसि पादं वेद्म्य् अहं चातु-कारैर् $ अनुनय-विदुषस् ते ऽभ्येत्य दौत्यैर् मुकुन्दात् &
विसृज शिरसि पादं वेद्म्य् अहं चातु-कारैर् $ अनुनय-विदुषस् ते ऽभ्येत्य दौत्यैर् मुकुन्दात् &
स्व-कृत इह विषृष्टापत्य-पत्य्-अन्य-लोका % व्यसृजद् अकृत-चेताः किं नु सन्धेयम् अस्मिन् ॥ भ्प्_10.47.016* ॥
मृगयुर् इव कपीन्द्रं विव्यधे लुब्ध-धर्मा $ स्त्रियम् अकृत विरूपां स्त्री-जितः काम-यानाम् &
मृगयुर् इव कपीन्द्रं विव्यधे लुब्ध-धर्मा $ स्त्रियम् अकृत विरूपां स्त्री-जितः काम-यानाम् &
बलिम् अपि बलिम् अत्त्वावेष्टयद् ध्वाङ्क्ष-वद् यस् % तद् अलम् असित-सख्यैर् दुस्त्यजस् तत्-कथार्थः ॥ भ्प्_10.47.017* ॥
यद्-अनुचरित-लीला-कर्ण-पीयूष-विप्रुट्- $ सकृद्-अदन-विधूत-द्वन्द्व-धर्मा विनष्टाः &
यद्-अनुचरित-लीला-कर्ण-पीयूष-विप्रुट्- $ सकृद्-अदन-विधूत-द्वन्द्व-धर्मा विनष्टाः &
सपदि गृह-कुटुम्बं दीनम् उत्सृज्य दीना % बहव इह विहङ्गा भिक्षु-चर्यां चरन्ति ॥ भ्प्_10.47.018* ॥
वयम् ऋतम् इव जिह्म-व्याहृतं श्रद्दधानाः $ कुलिक-रुतम् इवाज्ञाः कृष्ण-वध्वो हरिण्यः &
वयम् ऋतम् इव जिह्म-व्याहृतं श्रद्दधानाः $ कुलिक-रुतम् इवाज्ञाः कृष्ण-वध्वो हरिण्यः &
ददृशुर् असकृद् एतत् तन्-नख-स्पर्श-तीव्र % स्मर-रुज उपमन्त्रिन् भण्यताम् अन्य-वार्ता ॥ भ्प्_10.47.019* ॥
प्रिय-सख पुनर् आगाः प्रेयसा प्रेषितः किं $ वरय किम् अनुरुन्धे माननीयो ऽसि मे ऽङ्ग &
प्रिय-सख पुनर् आगाः प्रेयसा प्रेषितः किं $ वरय किम् अनुरुन्धे माननीयो ऽसि मे ऽङ्ग &
नयसि कथम् इहास्मान् दुस्त्यज-द्वन्द्व-पार्श्वं % सततम् उरसि सौम्य श्रीर् वधूः साकम् आस्ते ॥ भ्प्_10.47.020* ॥
अपि बत मधु-पुर्याम् आर्य-पुत्रो ऽधुनास्ते $ स्मरति स पितृ-गेहान् सौम्य बन्धूंश् च गोपान् &
अपि बत मधु-पुर्याम् आर्य-पुत्रो ऽधुनास्ते $ स्मरति स पितृ-गेहान् सौम्य बन्धूंश् च गोपान् &
क्वचिद् अपि स कथा नः किङ्करीणां गृणीते % भुजम् अगुरु-सुगन्धं मूर्ध्न्य् अधास्यत् कदा नु ॥ भ्प्_10.47.021*
0 श्री-शुक उवाच
अथोद्धवो निशम्यैवं कृष्ण-दर्शन-लालसाः ।
सान्त्वयन् प्रिय-सन्देशैर् गोपीर् इदम् अभाषत
भ्प्_10.47.023।0 श्री-उद्धव उवाच
अहो यूयं स्म पूर्णार्था भवत्यो लोक-पूजिताः ।
वासुदेवे भगवति यासाम् इत्य् अर्पितं मनः
दान-व्रत-तपो-होम जप-स्वाध्याय-संयमैः ।
श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते
भगवत्य् उत्तमः-श्लोके भवतीभिर् अनुत्तमा ।
भक्तिः प्रवर्तिता दिष्ट्या मुनीनाम् अपि दुर्लभा
दिष्ट्या पुत्रान् पतीन् देहान् स्व-जनान् भवनानि च ।
हित्वावृनीत यूयं यत् कृष्णाख्यं पुरुषं परम्
सर्वात्म-भावो ऽधिकृतो भवतीनाम् अधोक्षजे ।
विरहेण महा-भागा महान् मे ऽनुग्रहः कृतः
श्रूयतां प्रिय-सन्देशो भवतीनां सुखावहः ।
यम् आदायागतो भद्रा अहं भर्तू रहस्-करः
भ्प्_10.47.029।0 श्री-भगवान् उवाच
भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् ।
यथा भूतानि भूतेषु खं वाय्व्-अग्निर् जलं मही ।
तथाहं च मनः-प्राण- भूतेन्द्रिय-गुणाश्रयः
आत्मन्य् एवात्मनात्मानं सृजे हन्म्य् अनुपालये ।
आत्म-मायानुभावेन भूतेन्द्रिय-गुणात्मना
आत्मा ज्ञान-मयः शुद्धो व्यतिरिक्तो ऽगुणान्वयः ।
सुषुप्ति-स्वप्न-जाग्रद्भिर् माया-वृत्तिभिर् ईयते
येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्न-वद् उत्थितः ।
तन् निरुन्ध्याद् इन्द्रियाणि विनिद्रः प्रत्यपद्यत
एतद्-अन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् ।
त्यागस् तपो दमः सत्यं समुद्रान्ता इवापगाः
यत् त्व् अहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् ।
मनसः सन्निकर्षार्थं मद्-अनुध्यान-काम्यया
यथा दूर-चरे प्रेष्ठे मन आविश्य वर्तते ।
स्त्रीणां च न तथा चेतः सन्निकृष्टे ऽक्षि-गोचरे
मय्य् आवेश्य मनः कृत्स्नं विमुक्ताशेष-वृत्ति यत् ।
अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ
या मया क्रीडता रात्र्यां वने ऽस्मिन् व्रज आस्थिताः ।
अलब्ध-रासाः कल्याण्यो मापुर् मद्-वीर्य-चिन्तया
भ्प्_10.47.038।0 श्री-शुक उवाच
एवं प्रियतमादिष्टम् आकर्ण्य व्रज-योषितः ।
ता ऊचुर् उद्धवं प्रीतास् तत्-सन्देशागत-स्मृतीः
भ्प्_10.47.039।0 गोप्य ऊचुः
दिष्ट्याहितो हतः कंसो यदूनां सानुगो ऽघ-कृत् ।
दिष्ट्याप्तैर् लब्ध-सर्वार्थैः कुशल्य् आस्ते ऽच्युतो ऽधुना
कच्चिद् गदाग्रजः सौम्य करोति पुर-योषिताम् ।
प्रीतिं नः स्निग्ध-सव्रीड- हासोदारेक्षणार्चितः
कथं रति-विशेष-ज्ञः प्रियश् च पुर-योषिताम् ।
नानुबध्येत तद्-वाक्यैर् विभ्रमैश् चानुभाजितः
अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् ।
गोष्ठि-मध्ये पुर-स्त्रीणाम् ग्राम्याः स्वैर-कथान्तरे
ताः किं निशाः स्मरति यासु तदा प्रियाभिर् $ वृन्दावने कुमुद-कुन्द-शशाङ्क-रम्ये &अम्प्;
रेमे क्वणच्-चरण-नूपुर-रास-गोष्ठ्याम् % अस्माभिर् ईडित-मनोज्ञ-कथः कदाचित् ॥ भ्प्_10.47.043* ॥
अप्य् एष्यतीह दाशार्हस् तप्ताः स्व-कृतया शुचा ।
सञ्जीवयन् नु नो गात्रैर् यथेन्द्रो वनम् अम्बुदैः
कस्मात् कृष्ण इहायाति प्राप्त-राज्यो हताहितः ।
नरेन्द्र-कन्या उद्वाह्य प्रीतः सर्व-सुहृद्-वृतः
किम् अस्माभिर् वनौकोभिर् अन्याभिर् वा महात्मनः ।
श्री-पतेर् आप्त-कामस्य क्रियेतार्थः कृतात्मनः
परं सौख्यं हि नैराश्यं स्वैरिण्य् अप्य् आह पिङ्गला ।
तज् जानतीनां नः कृष्णे तथाप्य् आशा दुरत्यया
क उत्सहेत सन्त्यक्तुम् उत्तमःश्लोक-संविदम् ।
अनिच्छतो ऽपि यस्य श्रीर् अङ्गान् न च्यवते क्वचित्
सरिच्-छैल-वनोद्देशा गावो वेणु-रवा इमे ।
सङ्कर्षण-सहायेन कृष्णेनाचरिताः प्रभो
पुनः पुनः स्मारयन्ति नन्द-गोप-सुतं बत ।
श्री-निकेतैस् तत्-पदकैर् विस्मर्तुं नैव शक्नुमः
गत्या ललितयोदार- हास-लीलावलोकनैः ।
माध्व्या गिरा हृत-धियः कथं तं विस्मराम हे
हे नाथ हे रमा-नाथ व्रज-नाथार्ति-नाशन ।
मग्नम् उद्धर गोविन्द गोकुलं वृजिनार्णवात्
भ्प्_10.47.053।0 श्री-शुक उवाच
ततस् ताः कृष्ण-सन्देशैर् व्यपेत-विरह-ज्वराः ।
उद्धवं पूजयां चक्रुर् ज्ञात्वात्मानम् अधोक्षजम्
उवास कतिचिन् मासान् गोपीनां विनुदन् शुचः ।
कृष्ण-लीला-कथां गायन् रमयाम् आस गोकुलम्
यावन्त्य् अहानि नन्दस्य व्रजे ऽवात्सीत् स उद्धवः ।
व्रजौकसां क्षण-प्रायाण्य् आसन् कृष्णस्य वार्तया
सरिद्-वन-गिरि-द्रोणीर् वीक्षन् कुसुमितान् द्रुमान् ।
कृष्णं संस्मारयन् रेमे हरि-दासो व्रजौकसाम्
दृष्ट्वैवम्-आदि गोपीनां कृष्णावेशात्म-विक्लवम् ।
उद्धवः परम-प्रीतस् ता नमस्यन्न् इदं जगौ
एताः परं तनु-भृतो भुवि गोप-वध्वो $ गोविन्द एव निखिलात्मनि रूढ-भावाः &अम्प्;
वाञ्छन्ति यद् भव-भियो मुनयो वयं च % किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य ॥ भ्प्_10.47.058* ॥
क्वेमाः स्त्रियो वन-चरीर् व्यभिचार-दुष्टाः $ कृष्णे क्व चैष परमात्मनि रूढ-भावः &
क्वेमाः स्त्रियो वन-चरीर् व्यभिचार-दुष्टाः $ कृष्णे क्व चैष परमात्मनि रूढ-भावः &
नन्व् ईश्वरो ऽनुभजतो ऽविदुषो ऽपि साक्षाच् % छ्रेयस् तनोत्य् अगद-राज इवोपयुक्तः ॥ भ्प्_10.47.059* ॥
नायं श्रियो ऽङ्ग उ नितान्त-रतेः प्रसादः $ स्वर्-योषितां नलिन-गन्ध-रुचां कुतो ऽन्याः &
नायं श्रियो ऽङ्ग उ नितान्त-रतेः प्रसादः $ स्वर्-योषितां नलिन-गन्ध-रुचां कुतो ऽन्याः &
रासोत्सवे ऽस्य भुज-दण्ड-गृहीत-कण्ठ- % लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् ॥ भ्प्_10.47.060* ॥
आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां $ वृन्दावने किम् अपि गुल्म-लतौषधीनाम् &
आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां $ वृन्दावने किम् अपि गुल्म-लतौषधीनाम् &
या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा % भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् ॥ भ्प्_10.47.061* ॥
या वै श्रियार्चितम् अजादिभिर् आप्त-कामैर् $ योगेश्वरैर् अपि यद् आत्मनि रास-गोष्ठ्याम् &
या वै श्रियार्चितम् अजादिभिर् आप्त-कामैर् $ योगेश्वरैर् अपि यद् आत्मनि रास-गोष्ठ्याम् &
कृष्णस्य तद् भगवतः चरणारविन्दं % न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ भ्प्_10.47.062* ॥
वन्दे नन्द-व्रज-स्त्रीणां पाद-रेणुम् अभीक्ष्णशः ।
यासां हरि-कथोद्गीतं पुनाति भुवन-त्रयम्
भ्प्_10.47.064।0 श्री-शुक उवाच
अथ गोपीर् अनुज्ञाप्य यशोदां नन्दम् एव च ।
गोपान् आमन्त्र्य दाशार्हो यास्यन्न् आरुरुहे रथम्
तं निर्गतं समासाद्य नानोपायन-पाणयः ।
नन्दादयो ऽनुरागेण प्रावोचन्न् अश्रु-लोचनाः
मनसो वृत्तयो नः स्युः कृष्ण पादाम्बुजाश्रयाः ।
वाचो ऽभिधायिनीर् नाम्नां कायस् तत्-प्रह्वणादिषु
कर्मभिर् भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया ।
मङ्गलाचरितैर् दानै रतिर् नः कृष्ण ईश्वरे
एवं सभाजितो गोपैः कृष्ण-भक्त्या नराधिप ।
उद्धवः पुनर् आगच्छन् मथुरां कृष्ण-पालिताम्
कृष्णाय प्रणिपत्याह भक्त्य्-उद्रेकं व्रजौकसाम् ।
वसुदेवाय रामाय राज्ञे चोपायनान्य् अदात्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0