भागवत पुराण · अध्याय 10.46
भ्प्_10.46.001।0 श्री-शुक उवाच
वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा ।
शिष्यो बृहस्पतेः साक्षाद् उद्धवो बुद्धि-सत्तमः
तम् आह भगवान् प्रेष्ठं भक्तम् एकान्तिनं क्वचित् ।
गृहीत्वा पाणिना पाणिं प्रपन्नार्ति-हरो हरिः
गच्छोद्धव व्रजं सौम्य पित्रोर् नौ प्रीतिम् आवह ।
गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय
ता मन्-मनस्का तृष्ट्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः ।
माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः ।
ये त्यक्त-लोक-धर्माश् च मद्-अर्थे तान् बिभर्म्य् अहम्
मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः ।
स्मरन्त्यो ऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः
धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन ।
प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः
भ्प्_10.46.007।0 श्री-शुक उवाच
इत्य् उक्त उद्धवो राजन् सन्देशं भर्तुर् आदृतः ।
आदाय रथम् आरुह्य प्रययौ नन्द-गोकुलम्
प्राप्तो नन्द-व्रजं श्रीमान् निम्लोचति विभावसौ ।
छन्न-यानः प्रविशतां पशूनां खुर-रेणुभिः
वासितार्थे ऽभियुध्यद्भिर् नादितं शुश्मिभिर् वृषैः ।
धावन्तीभिश् च वास्राभिर् उधो-भारैः स्व-वत्सकान्
इतस् ततो विलङ्घद्भिर् गो-वत्सैर् मण्डितं सितैः ।
गो-दोह-शब्दाभिरवं वेणूनां निःस्वनेन च
गायन्तीभिश् च कर्माणि शुभानि बल-कृष्णयोः ।
स्व्-अलङ्कृताभिर् गोपीभिर् गोपैश् च सु-विराजितम्
अग्न्य्-अर्कातिथि-गो-विप्र- पितृ-देवार्चनान्वितैः ।
धूप-दीपैश् च माल्यैश् च गोपावासैर् मनो-रमम्
सर्वतः पुष्पित-वनं द्विजालि-कुल-नादितम् ।
हंस-कारण्डवाकीर्णैः पद्म-षण्डैश् च मण्डितम्
तम् आगतं समागम्य कृष्णस्यानुचरं प्रियम् ।
नन्दः प्रीतः परिष्वज्य वासुदेव-धियार्चयत्
भोजितं परमान्नेन संविष्टं कशिपौ सुखम् ।
गत-श्रमं पर्यपृच्छत् पाद-संवाहनादिभिः
कच्चिद् अङ्ग महा-भाग सखा नः शूर-नन्दनः ।
आस्ते कुशल्य् अपत्याद्यैर् युक्तो मुक्तः सुहृद्-व्रतः
दिष्ट्या कंसो हतः पापः सानुगः स्वेन पाप्मना ।
साधूनां धर्म-शीलानां यदूनां द्वेष्टि यः सदा
अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन् ।
गोपान् व्रजं चात्म-नाथं गावो वृन्दावनं गिरिम्
अप्य् आयास्यति गोविन्दः स्व-जनान् सकृद् ईक्षितुम् ।
तर्हि द्रक्ष्याम तद्-वक्त्रं सु-नसं सु-स्मितेक्षणम्
दावाग्नेर् वात-वर्षाच् च वृष-सर्पाच् च रक्षिताः ।
दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सु-महात्मना
स्मरतां कृष्ण-वीर्याणि लीलापाङ्ग-निरीक्षितम् ।
हसितं भाषितं चाङ्ग सर्वा नः शिथिलाः क्रियाः
सरिच्-छैल-वनोद्देशान् मुकुन्द-पद-भूषितान् ।
आक्रीडान् ईक्ष्यमाणानां मनो याति तद्-आत्मताम्
मन्ये कृष्णं च रामं च प्राप्ताव् इह सुरोत्तमौ ।
सुराणां महद्-अर्थाय गर्गस्य वचनं यथा
कंसं नागायुत-प्राणं मल्लौ गज-पतिं यथा ।
अवधिष्टां लीलयैव पशून् इव मृगाधिपः
ताल-त्रयं महा-सारं धनुर् यष्टिम् इवेभ-राट् ।
बभञ्जैकेन हस्तेन सप्ताहम् अदधाद् गिरिम्
प्रलम्बो धेनुको ऽरिष्टस् तृणावर्तो बकादयः ।
दैत्याः सुरासुर-जितो हता येनेह लीलया
भ्प्_10.46.027।0 श्री-शुक उवाच
इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्त-धीः ।
अत्य्-उत्कण्ठो ऽभवत् तूष्णीं प्रेम-प्रसर-विह्वलः
यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च ।
शृण्वन्त्य् अश्रूण्य् अवास्राक्षीत् स्नेह-स्नुत-पयोधरा
तयोर् इत्थं भगवति कृष्णे नन्द-यशोदयोः ।
वीक्ष्यानुरागं परमं नन्दम् आहोद्धवो मुदा
भ्प्_10.46.030।0 श्री-उद्धव उवाच
युवां श्लाघ्यतमौ नूनं देहिनाम् इह मान-द ।
नारायणे ऽखिल-गुरौ यत् कृता मतिर् ईदृशी
एतौ हि विश्वस्य च बीज-योनी रामो मुकुन्दः पुरुषः प्रधानम् ।
अन्वीय भूतेषु विलक्षणस्य ज्ञानस्य चेशात इमौ पुराणौ
यस्मिन् जनः प्राण-वियोग-काले क्षनं समावेश्य मनो ऽविशुद्धम् ।
निर्हृत्य कर्माशयम् आशु याति परां गतिं ब्रह्म-मयो ऽर्क-वर्णः
तस्मिन् भवन्ताव् अखिलात्म-हेतौ नारायणे कारण-मर्त्य-मूर्तौ ।
भावं विधत्तां नितरां महात्मन् किं वावशिष्टं युवयोः सु-कृत्यम्
आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः ।
प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः
हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् ।
यद् आह वः समागत्य कृष्णः सत्यं करोति तत्
मा खिद्यतं महा-भागौ द्रक्ष्यथः कृष्णम् अन्तिके ।
अन्तर् हृदि स भूतानाम् आस्ते ज्योतिर् इवैधसि
न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियो वास्त्य् अमानिनः ।
नोत्तमो नाधमो वापि स-मानस्यासमो ऽपि वा
न माता न पिता तस्य न भार्या न सुतादयः ।
नात्मीयो न परश् चापि न देहो जन्म एव च
न चास्य कर्म वा लोके सद्-असन्-मिश्र-योनिषु ।
क्रीडार्थं सो ऽपि साधूनां परित्राणाय कल्पते
सत्त्वं रजस् तम इति भजते निर्गुणो गुणान् ।
क्रीडन्न् अतीतो ऽपि गुणैः सृजत्य् अवन् हन्त्य् अजः
यथा भ्रमरिका-दृष्ट्या भ्राम्यतीव महीयते ।
चित्ते कर्तरि तत्रात्मा कर्तेवाहं-धिया स्मृतः
युवयोर् एव नैवायम् आत्मजो भगवान् हरिः ।
सर्वेषाम् आत्मजो ह्य् आत्मा पिता माता स ईश्वरः
दृष्टं श्रुतं भूत-भवद्-भविष्यत् $ स्थास्नुश् चरिष्णुर् महद् अल्पकं च &अम्प्;
विनाच्युताद् वस्तु तरां न वाच्यं % स एव सर्वं परमात्म-भूतः ॥ भ्प्_10.46.043* ॥
एवं निशा सा ब्रुवतोर् व्यतीता नन्दस्य कृष्णानुचरस्य राजन् ।
गोप्यः समुत्थाय निरूप्य दीपान् वास्तून् समभ्यर्च्य दौधीन्य् अमन्थुन्
ता दीप-दीप्तैर् मणिभिर् विरेजू रज्जूर् विकर्षद्-भुज-कङ्कण-स्रजः ।
चलन्-नितम्ब-स्तन-हार-कुण्डल- त्विषत्-कपोलारुण-कुङ्कुमाननाः
उद्गायतीनाम् अरविन्द-लोचनं व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः ।
दध्नश् च निर्मन्थन-शब्द-मिश्रितो निरस्यते येन दिशाम् अमङ्गलम्
भगवत्य् उदिते सूर्ये नन्द-द्वारि व्रजौकसः ।
दृष्ट्वा रथं शातकौम्भं कस्यायम् इति चाब्रुवन्
अक्रूर आगतः किं वा यः कंसस्यार्थ-साधकः ।
येन नीतो मधु-पुरीं कृष्णः कमल-लोचनः
किं साधयिष्यत्य् अस्माभिर् भर्तुः प्रीतस्य निष्कृतिम् ।
ततः स्त्रीणां वदन्तीनाम् उद्धवो ऽगात् कृताह्निकः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0