भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.45

10.45.001

भ्प्_10.45.001।0 श्री-शुक उवाच
पितराव् उपलब्धार्थौ विदित्वा पुरुषोत्तमः ।
मा भूद् इति निजां मायां ततान जन-मोहिनीम्

10.45.002

उवाच पितराव् एत्य साग्रजः सात्वनर्षभः ।
प्रश्रयावनतः प्रीणन्न् अम्ब तातेति सादरम्

10.45.003

नास्मत्तो युवयोस् तात नित्योत्कण्ठितयोर् अपि ।
बाल्य-पौगण्ड-कैशोराः पुत्राभ्याम् अभवन् क्वचित्

10.45.004

न लब्धो दैव-हतयोर् वासो नौ भवद्-अन्तिके ।
यां बालाः पितृ-गेह-स्था विन्दन्ते लालिता मुदम्

10.45.005

सर्वार्थ-सम्भवो देहो जनितः पोषितो यतः ।
न तयोर् याति निर्वेशं पित्रोर् मर्त्यः शतायुषा

10.45.006

यस् तयोर् आत्मजः कल्प आत्मना च धनेन च ।
वृत्तिं न दद्यात् तं प्रेत्य स्व-मांसं खादयन्ति हि

10.45.007

मातरं पितरं वृद्धं भार्यां साध्वीं सुतम् शिशुम् ।
गुरुं विप्रं प्रपन्नं च कल्पो ऽबिभ्रच् छ्वसन्-मृतः

10.45.008

तन् नाव् अकल्पयोः कंसान् नित्यम् उद्विग्न-चेतसोः ।
मोघम् एते व्यतिक्रान्ता दिवसा वाम् अनर्चतोः

10.45.009

तत् क्षन्तुम् अर्हथस् तात मातर् नौ पर-तन्त्रयोः ।
अकुर्वतोर् वां शुश्रूषां क्लिष्टयोर् दुर्हृदा भृशम्

10.45.010

भ्प्_10.45.010।0 श्री-शुक उवाच
इति माया-मनुष्यस्य हरेर् विश्वात्मनो गिरा ।
मोहिताव् अङ्कम् आरोप्य परिष्वज्यापतुर् मुदम्

10.45.011

सिञ्चन्ताव् अश्रु-धाराभिः स्नेह-पाशेन चावृतौ ।
न किञ्चिद् ऊचतू राजन् बाष्प-कण्ठौ विमोहितौ

10.45.012

एवम् आश्वास्य पितरौ भगवान् देवकी-सुतः ।
मातामहं तूग्रसेनं यदूनाम् अकरोन् णृपम्

10.45.013

आह चास्मान् महा-राज प्रजाश् चाज्ञप्तुम् अर्हसि ।
ययाति-शापाद् यदुभिर् नासितव्यं नृपासने

10.45.014

मयि भृत्य उपासीने भवतो विबुधादयः ।
बलिं हरन्त्य् अवनताः किम् उतान्ये नराधिपाः

10.45.015

सर्वान् स्वान् ज्ञति-सम्बन्धान् दिग्भ्यः कंस-भयाकुलान् ।
यदु-वृष्ण्य्-अन्धक-मधु दाशार्ह-कुकुरादिकान्

10.45.016

सभाजितान् समाश्वास्य विदेशावास-कर्शितान् ।
न्यवासयत् स्व-गेहेषु वित्तैः सन्तर्प्य विश्व-कृत्

10.45.017

कृष्ण-सङ्कर्षण-भुजैर् गुप्ता लब्ध-मनोरथाः ।
गृहेषु रेमिरे सिद्धाः कृष्ण-राम-गत-ज्वराः

10.45.018

वीक्षन्तो ऽहर् अहः प्रीता मुकुन्द-वदनाम्बुजम् ।
नित्यं प्रमुदितं श्रीमत् स-दय-स्मित-वीक्षणम्

10.45.019

तत्र प्रवयसो ऽप्य् आसन् युवानो ऽति-बलौजसः ।
पिबन्तो ऽक्षैर् मुकुन्दस्य मुखाम्बुज-सुधां मुहुः

10.45.020

अथ नन्दं समसाद्य भगवान् देवकी-सुतः ।
सङ्कर्षणश् च राजेन्द्र परिष्वज्येदम् ऊचतुः

10.45.021

पितर् युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम् ।
पित्रोर् अभ्यधिका प्रीतिर् आत्मजेष्व् आत्मनो ऽपि हि

10.45.022

स पिता सा च जननी यौ पुष्णीतां स्व-पुत्र-वत् ।
शिशून् बन्धुभिर् उत्सृष्टान् अकल्पैः पोष-रक्षणे

10.45.023

यात यूयं व्रजंन् तात वयं च स्नेह-दुःखितान् ।
ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम्

10.45.024

एवं सान्त्वय्य भगवान् नन्दं स-व्रजम् अच्युतः ।
वासो-ऽलङ्कार-कुप्याद्यैर् अर्हयाम् आस सादरम्

10.45.025

इत्य् उक्तस् तौ परिष्वज्य नन्दः प्रणय-विह्वलः ।
पूरयन्न् अश्रुभिर् नेत्रे सह गोपैर् व्रजं ययौ

10.45.026

अथ शूर-सुतो राजन् पुत्रयोः समकारयत् ।
पुरोधसा ब्राह्मणैश् च यथावद् द्विज-संस्कृतिम्

10.45.027

तेभ्यो ऽदाद् दक्षिणा गावो रुक्म-मालाः स्व्-अलङ्कृताः ।
स्व्-अलङ्कृतेभ्यः सम्पूज्य स-वत्साः क्षौम-मालिनीः

10.45.028

याः कृष्ण-राम-जन्मर्क्षे मनो-दत्ता महा-मतिः ।
ताश् चाददाद् अनुस्मृत्य कंसेनाधर्मतो हृताः

10.45.029

ततश् च लब्ध-संस्कारौ द्विजत्वं प्राप्य सु-व्रतौ ।
गर्गाद् यदु-कुलाचार्याद् गायत्रं व्रतम् आस्थितौ

10.45.030

प्रभवौ सर्व-विद्यानां सर्व-ज्ञौ जगद्-ईश्वरौ ।
नान्य-सिद्धामलं ज्ञानं गूहमानौ नरेहितैः

10.45.031

अथो गुरु-कुले वासम् इच्छन्ताव् उपजग्मतुः ।
काश्यं सान्दीपनिं नाम ह्य् अवन्ति-पुर-वासिनम्

10.45.032

यथोपसाद्य तौ दान्तौ गुरौ वृत्तिम् अनिन्दिताम् ।
ग्राहयन्ताव् उपेतौ स्म भक्त्या देवम् इवादृतौ

10.45.033

तयोर् द्विज-वरस् तुष्टः शुद्ध-भावानुवृत्तिभिः ।
प्रोवाच वेदान् अखिलान् सङ्गोपनिषदो गुरुः

10.45.034

स-रहस्यं धनुर्-वेदं धर्मान् न्याय-पथांस् तथा ।
तथा चान्वीक्षिकीं विद्यां राज-नीतिं च षड्-विधाम्

10.45.035

सर्वं नर-वर-श्रेष्ठौ सर्व-विद्या-प्रवर्तकौ ।
सकृन् निगद-मात्रेण तौ सञ्जगृहतुर् नृप

10.45.036

अहो-रात्रैश् चतुः-षष्ट्या संयत्तौ तावतीः कलाः ।
गुरु-दक्षिणयाचार्यं छन्दयाम् आसतुर् नृप

10.45.039

द्विजस् तयोस् तं महिमानम् अद्भुतं $ संलोक्ष्य राजन्न् अति-मानुसीं मतिम् &अम्प्;
सम्मन्त्र्य पत्न्या स महार्णवे मृतं % बालं प्रभासे वरयां बभूव ह ॥ भ्प्_10.45.037* ॥
तेथेत्य् अथारुह्य महा-रथौ रथं $ प्रभासम् आसाद्य दुरन्त-विक्रमौ &
तेथेत्य् अथारुह्य महा-रथौ रथं $ प्रभासम् आसाद्य दुरन्त-विक्रमौ &
वेलाम् उपव्रज्य निषीदतुः क्षनं % सिन्धुर् विदित्वार्हनम् आहरत् तयोः ॥ भ्प्_10.45.038* ॥
तम् आह भगवान् आशु गुरु-पुत्रः प्रदीयताम् ।
यो ऽसाव् इह त्वया ग्रस्तो बालको महतोर्मिणा

10.45.040

भ्प्_10.45.040।0 श्री-समुद्र उवाच
न चाहार्षम् अहं देव दैत्यः पञ्चजनो महान् ।
अन्तर्-जल-चरः कृष्ण शङ्ख-रूप-धरो ऽसुरः

10.45.041

आस्ते तेनाहृतो नूनं तच् छ्रुत्वा सत्वरं प्रभुः ।
जलम् आविश्य तं हत्वा नापश्यद् उदरे ऽर्भकम्

10.45.042

तद्-अङ्ग-प्रभवं शङ्खम् आदाय रथम् आगमत् ।
ततः संयमनीं नाम यमस्य दयितां पुरीम्

10.45.043

गत्वा जनार्दनः शङ्खं प्रदध्मौ स-हलायुधः ।
शङ्ख-निर्ह्रादम् आकर्ण्य प्रजा-संयमनो यमः

10.45.044

तयोः सपर्यां महतीं चक्रे भक्त्य्-उपबृंहिताम् ।
उवाचावनतः कृष्णं सर्व-भूताशयालयम् ।
लीला-मनुष्ययोर् विष्णो युवयोः करवाम किम्

10.45.045

भ्प्_10.45.045।0 श्री-भगवान् उवाच
गुरु-पुत्रम् इहानीतं निज-कर्म-निबन्धनम् ।
आनयस्व महा-राज मच्-छासन-पुरस्कृतः

10.45.046

तथेति तेनोपानीतं गुरु-पुत्रं यदूत्तमौ ।
दत्त्वा स्व-गुरवे भूयो वृणीष्वेति तम् ऊचतुः

10.45.047

भ्प्_10.45.047।0 श्री-गुरुर् उवाच
सम्यक् सम्पादितो वत्स भवद्भ्यां गुरु-निष्क्रयः ।
को नु युष्मद्-विध-गुरोः कामानाम् अवशिष्यते

10.45.048

गच्छतं स्व-गृहं वीरौ कीर्तिर् वाम् अस्तु पावनी ।
छन्दांस्य् अयात-यामानि भवन्त्व् इह परत्र च

10.45.049

गुरुणैवम् अनुज्ञातौ रथेनानिल-रंहसा ।
आयातौ स्व-पुरं तात पर्जन्य-निनदेन वै

10.45.050

समनन्दन् प्रजाः सर्वा दृष्ट्वा राम-जनार्दनौ ।
अपश्यन्त्यो बह्व् अहानि नष्ट-लब्ध-धना इव

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc