भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.44

10.44.001

भ्प्_10.44.001।0 श्री-शुक उवाच
एवं चर्चित-सङ्कल्पो भगवान् मधुसूदनः ।
आससादाथ चणूरं मुष्ट्तिकं रोहिणी-सुतः

10.44.002

हस्ताभ्यां हस्तयोर् बद्ध्वा पद्भ्याम् एव च पादयोः ।
विचकर्षतुर् अन्योन्यं प्रसह्य विजिगीषया

10.44.003

अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी ।
शिरः शीर्ष्णोरसोरस् ताव् अन्योन्यम् अभिजघ्नतुः

10.44.004

परिभ्रामण-विक्षेप- परिरम्भावपातनैः ।
उत्सर्पणापसर्पणैश् चान्योन्यं प्रत्यरुन्धताम्

10.44.005

उत्थापनैर् उन्नयनैश् चालनैः स्थापनैर् अपि ।
परस्परं जिगीषन्ताव् अपचक्रतुर् आत्मनः

10.44.006

तद् बलाबलवद् युद्धं समेताः सर्व-योषितः ।
ऊचुः परस्परं राजन् सानुकम्पा वरूथशः

10.44.007

महान् अयं बताधर्म एषां राज-सभा-सदाम् ।
ये बलाबलवद् युद्धं राज्ञो ऽन्विच्छन्ति पश्यतः

10.44.008

क्व वज्र-सार-सर्वाङ्गौ मल्लौ शैलेन्द्र-सन्निभौ ।
क्व चाति-सुकुमाराङ्गौ किशोरौ नाप्त-यौवनौ

10.44.009

धर्म-व्यतिक्रमो ह्य् अस्य समाजस्य ध्रुवं भवेत् ।
यत्राधर्मः समुत्तिष्ठेन् न स्थेयं तत्र कर्हिचित्

10.44.010

न सभां प्रविशेत् प्राज्ञः सभ्य-दोषान् अनुस्मरन् ।
अब्रुवन् विब्रुवन्न् अज्ञो नरः किल्बिषम् अश्नुते

10.44.011

वल्गतः शत्रुम् अभितः कृष्णस्य वदनाम्बुजम् ।
वीक्ष्यतां श्रम-वार्य्-उप्तं पद्म-कोशम् इवाम्बुभिः

10.44.012

किं न पश्यत रामस्य मुखम् आताम्र-लोचनम् ।
मुष्टिकं प्रति सामर्षं हास-संरम्भ-शोभितम्

10.44.015

पुण्या बत व्रज-भुवो यद् अयं नृ-लिङ्ग $ गूढः पुराण-पुरुषो वन-चित्र-माल्यः &अम्प्;
गाः पालयन् सह-बलः क्वणयंश् च वेणुं % विक्रीदयाञ्चति गिरित्र-रमार्चिताङ्घ्रिः ॥ भ्प्_10.44.013* ॥
गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं $ लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् &
गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं $ लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् &
दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् % एकान्त-धाम यशसः श्रीय ऐश्वरस्य ॥ भ्प्_10.44.014* ॥
या दोहने ऽवहनने मथनोपलेप प्रेङ्खेङ्खनार्भ-रुदितोक्षण-मार्जनादौ ।
गायन्ति चैनम् अनुरक्त-धियो ऽश्रु-कण्ठ्यो धन्या व्रज-स्त्रिय उरुक्रम-चित्त-यानाः

10.44.017

प्रातर् व्रजाद् व्रजत आविशतश् च सायं $ गोभिः समं क्वणयतो ऽस्य निशम्य वेणुम् &अम्प्;
निर्गम्य तूर्णम् अबलाः पथि भूरि-पुण्याः % पश्यन्ति स-स्मित-मुखं स-दयावलोकम् ॥ भ्प्_10.44.016* ॥
एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः ।
शत्रुं हन्तुं मनश् चक्रे भगवान् भरतर्षभ

10.44.018

स-भयाः स्त्री-गिरः श्रुत्वा पुत्र-स्नेह-शुचातुरौ ।
पितराव् अन्वतप्येतां पुत्रयोर् अबुधौ बलम्

10.44.019

तैस् तैर् नियुद्ध-विधिभिर् विविधैर् अच्युतेतरौ ।
युयुधाते यथान्योन्यं तथैव बल-मुष्टिकौ

10.44.020

भगवद्-गात्र-निष्पातैर् वज्र-नीष्पेष-निष्ठुरैः ।
चाणूरो भज्यमानाङ्गो मुहुर् ग्लानिम् अवाप ह

10.44.021

स श्येन-वेग उत्पत्य मुष्टी-कृत्य कराव् उभौ ।
भगवन्तं वासुदेवं क्रुद्धो वक्षस्य् अबाधत

10.44.022

नाचलत् तत्-प्रहारेण मालाहत इव द्विपः ।
बाह्वोर् निगृह्य चाणूरं बहुशो भ्रामयन् हरिः

10.44.023

भू-पृष्ठे पोथयाम् आस तरसा क्षीण जीवितम् ।
विस्रस्ताकल्प-केश-स्रग् इन्द्र-ध्वज इवापतत्

10.44.024

तथैव मुष्टिकः पूर्वं स्व-मुष्ट्याभिहतेन वै ।
बलभद्रेण बलिना तलेनाभिहतो भृशम्

10.44.025

प्रवेपितः स रुधिरम् उद्वमन् मुखतो ऽर्दितः ।
व्यसुः पपातोर्व्य्-उपस्थे वाताहत इवाङ्घ्रिपः

10.44.026

ततः कूटम् अनुप्राप्तं रामः प्रहरतां वरः ।
अवधील् लीलया राजन् सावज्ञं वाम-मुष्टिना

10.44.027

तर्ह्य् एव हि शलः कृष्ण- प्रपदाहत-शीर्षकः ।
द्विधा विदीर्णस् तोशलक उभाव् अपि निपेततुः

10.44.028

चाणूरे मुष्टिके कूटे शले तोशलके हते ।
शेषाः प्रदुद्रुवुर् मल्लाः सर्वे प्राण-परीप्सवः

10.44.029

गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः ।
वाद्यमानेषु तूर्येषु वल्गन्तौ रुत-नूपुरौ

10.44.030

जनाः प्रजहृषुः सर्वे कर्मणा राम-कृष्णयोः ।
ऋते कंसं विप्र-मुख्याः साधवः साधु साध्व् इति

10.44.031

हतेषु मल्ल-वर्येषु विद्रुतेषु च भोज-राट् ।
न्यवारयत् स्व-तूर्याणि वाक्यं चेदम् उवाच ह

10.44.032

निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् ।
धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम्

10.44.033

वसुदेवस् तु दुर्मेधा हन्यताम् आश्व् असत्तमः ।
उग्रसेनः पिता चापि सानुगः पर-पक्ष-गः

10.44.034

एवं विकत्थमाने वै कंसे प्रकुपितो ऽव्ययः ।
लघिम्नोत्पत्य तरसा मञ्चम् उत्तुङ्गम् आरुहत्

10.44.035

तम् आविशन्तम् आलोक्य मृत्युम् आत्मन आसनात् ।
मनस्वी सहसोत्थाय जगृहे सो ऽसि-चर्मणी

10.44.036

तं खड्ग-पाणिं विचरन्तम् आशु श्येनं यथा दक्षिण-सव्यम् अम्बरे ।
समग्रहीद् दुर्विषहोग्र-तेजा यथोरगं तार्क्ष्य-सुतः प्रसह्य

10.44.037

प्रगृह्य केशेषु चलत्-किरीतं निपात्य रङ्गोपरि तुङ्ग-मञ्चात् ।
तस्योपरिष्टात् स्वयम् अब्ज-नाभः पपात विश्वाश्रय आत्म-तन्त्रः

10.44.038

तं सम्परेतं विचकर्ष भूमौ हरिर् यथेभं जगतो विपश्यतः ।
हा हेति शब्दः सु-महांस् तदाभूद् उदीरितः सर्व-जनैर् नरेन्द्र

10.44.039

स नित्यदोद्विग्न-धिया तम् ईश्वरं पिबन्न् अदन् वा विचरन् स्वपन् श्वसन् ।
ददर्श चक्रायुधम् अग्रतो यतस् तद् एव रूपं दुरवापम् आप

10.44.040

तस्यानुजा भ्रातरो ऽष्टौ कङ्क-न्यग्रोधकादयः ।
अभ्यधावन्न् अति-क्रुद्धा भ्रातुर् निर्वेश-कारिणः

10.44.041

तथाति-रभसांस् तांस् तु संयत्तान् रोहिणी-सुतः ।
अहन् परिघम् उद्यम्य पशून् इव मृगाधिपः

10.44.042

नेदुर् दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः ।
पुष्पैः किरन्तस् तं प्रीताः शशंसुर् ननृतुः स्त्रियः

10.44.043

तेषां स्त्रियो महा-राज सुहृन्-मरण-दुःखिताः ।
तत्राभीयुर् विनिघ्नन्त्यः शीर्षाण्य् अश्रु-विलोचनाः

10.44.044

शयानान् वीर-शयायां पतीन् आलिङ्ग्य शोचतीः ।
विलेपुः सु-स्वरं नार्यो विसृजन्त्यो मुहुः शुचः

10.44.045

हा नाथ प्रिय धर्म-ज्ञ करुणानाथ-वत्सल ।
त्वया हतेन निहता वयं ते स-गृह-प्रजाः

10.44.046

त्वया विरहिता पत्या पुरीयं पुरुषर्षभ ।
न शोभते वयम् इव निवृत्तोत्सव-मङ्गला

10.44.047

अनागसां त्वं भूतानां कृतवान् द्रोहम् उल्बणम् ।
तेनेमां भो दशां नीतो भूत-ध्रुक् को लभेत शम्

10.44.048

सर्वेषाम् इह भूतानाम् एष हि प्रभवाप्ययः ।
गोप्ता च तद्-अवध्यायी न क्वचित् सुखम् एधते

10.44.049

भ्प्_10.44.049।0 श्री-शुक उवाच
राज-योषित आश्वास्य भगवांल् लोक-भावनः ।
याम् आहुर् लौकिकीं संस्थां हतानां समकारयत्

10.44.050

मातरं पितरं चैव मोचयित्वाथ बन्धनात् ।
कृष्ण-रामौ ववन्दाते शिरसा स्पृश्य पादयोः

10.44.051

देवकी वसुदेवश् च विज्ञाय जगद्-ईश्वरौ ।
कृत-संवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc