भागवत पुराण · अध्याय 10.39
भ्प्_10.39.001।0 श्री-शुक उवाच
सुखोपविष्टः पर्यङ्के रम-कृष्णोरु-मानितः ।
लेभे मनोरथान् सर्वान् पथि यान् स चकार ह
किम् अलभ्यं भगवति प्रसन्ने श्री-निकेतने ।
तथापि तत्-परा राजन् न हि वाञ्छन्ति किञ्चन
सायन्तनाशनं कृत्वा भगवान् देवकी-सुतः ।
सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच् चिकीर्षितम्
भ्प्_10.39.004।0 श्री-भगवान् उवाच
तात सौम्यागतः कच्चित् स्व्-आगतं भद्रम् अस्तु वः ।
अपि स्व-ज्ञाति-बन्धूनाम् अनमीवम् अनामयम्
किं नु नः कुशलं पृच्छे एधमाने कुलामये ।
कंसे मातुल-नाम्नाङ्ग स्वानां नस् तत्-प्रजासु च
अहो अस्मद् अभूद् भूरि पित्रोर् वृजिनम् आर्ययोः ।
यद्-धेतोः पुत्र-मरणं यद्-धेतोर् बन्धनं तयोः
दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम् ।
सञ्जातं वर्ण्यतां तात तवागमन-कारणम्
भ्प्_10.39.008।0 श्री-शुक उवाच
पृष्टो भगवता सर्वं वर्णयाम् आस माधवः ।
वैरानुबन्धं यदुषु वसुदेव-वधोद्यमम्
यत्-सन्देशो यद्-अर्थं वा दूतः सम्प्रेषितः स्वयम् ।
यद् उक्तं नारदेनास्य स्व-जन्मानकदुन्दुभेः
श्रुत्वाक्रूर-वचः कृष्णो बलश् च पर-वीर-हा ।
प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतुः
गोपान् समादिशत् सो ऽपि गृह्यतां सर्व-गो-रसः ।
उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च
यास्यामः श्वो मधु-पुरीं दास्यामो नृपते रसान् ।
द्रक्ष्यामः सु-महत् पर्व यान्ति जानपदाः किल ।
एवम् आघोषयत् क्षत्रा नन्द-गोपः स्व-गोकुले
गोप्यस् तास् तद् उपश्रुत्य बभूवुर् व्यथिता भृशम् ।
राम-कृष्णौ पुरीं नेतुम् अक्रूरं व्रजम् आगतम्
काश्चित् तत्-कृत-हृत्-ताप श्वास-म्लान-मुख-श्रियः ।
स्रंसद्-दुकूल-वलय केश-ग्रन्थ्यश् च काश्चन
अन्याश् च तद्-अनुध्यान निवृत्ताशेष-वृत्तयः ।
नाभ्यजानन्न् इमं लोकम् आत्म-लोकं गता इव
स्मरन्त्यश् चापराः शौरेर् अनुराग-स्मितेरिताः ।
हृदि-स्पृशश् चित्र-पदा गिरः सम्मुमुहुः स्त्रियः
गतिं सु-ललितां चेष्टां स्निग्ध-हासावलोकनम् ।
शोकापहानि नर्माणि प्रोद्दाम-चरितानि च
चिन्तयन्त्यो मुकुन्दस्य भीता विरह-कातराः ।
समेताः सङ्घशः प्रोचुर् अश्रु-मुख्यो ऽच्युताशयाः
भ्प्_10.39.019।0 श्री-गोप्य ऊचुः
अहो विधातस् तव न क्वचिद् दया संयोज्य मैत्र्या प्रणयेन देहिनः ।
तांश् चाकृतार्थान् वियुनङ्क्ष्य् अपार्थकं विक्रीडितं ते ऽर्भक-चेष्टितं यथा
यस् त्वं प्रदर्श्यासित-कुन्तलावृतं $ मुकुन्द-वक्त्रं सु-कपोलम् उन्-नसम् &अम्प्;
शोकापनोद-स्मित-लेश-सुन्दरं % करोषि पारोक्ष्यम् असाधु ते कृतम् ॥ भ्प्_10.39.020* ॥
क्रूरस् त्वम् अक्रूर-समाख्यया स्म नश् $ चक्षुर् हि दत्तं हरसे बताज्ञ-वत् &
क्रूरस् त्वम् अक्रूर-समाख्यया स्म नश् $ चक्षुर् हि दत्तं हरसे बताज्ञ-वत् &
येनैक-देशे ऽखिल-सर्ग-सौष्ठवं % त्वदीयम् अद्राक्ष्म वयं मधु-द्विषः ॥ भ्प्_10.39.021* ॥
न नन्द-सूनुः क्षण-भङ्ग-सौहृदः $ समीक्षते नः स्व-कृतातुरा बत &
न नन्द-सूनुः क्षण-भङ्ग-सौहृदः $ समीक्षते नः स्व-कृतातुरा बत &
विहाय गेहान् स्व-जनान् सुतान् पतींस् % तद्-दास्यम् अद्धोपगता नव-प्रियः ॥ भ्प्_10.39.022* ॥
सुखं प्रभाता रजनीयम् आशिषः सत्या बभूवुः पुर-योषितां ध्रुवम् ।
याः संप्रविष्टस्य मुखं व्रजस्-पतेः पास्यन्त्य् अपाङ्गोत्कलित-स्मितासवम्
तासां मुकुन्दो मधु-मञ्जु-भाषितैर् $ गृहीत-चित्तः पर-वान् मनस्व्य् अपि &अम्प्;
कथं पुनर् नः प्रतियास्यते ऽबला % ग्राम्याः सलज्ज-स्मित-विभ्रमैर् भ्रमन् ॥ भ्प्_10.39.024* ॥
अद्य ध्रुवं तत्र दृशो भविष्यते दाशार्ह-भोजान्धक-वृष्णि-सात्वताम् ।
महोत्सवः श्री-रमणं गुणास्पदं द्रक्ष्यन्ति ये चाध्वनि देवकी-सुतम्
मैतद्-विधस्याकरुणस्य नाम भूद् अक्रूर इत्य् एतद् अतीव दारुणः ।
यो ऽसाव् अनाश्वास्य सु-दुःखितम् जनं प्रियात् प्रियं नेष्यति पारम् अध्वनः
अनार्द्र-धीर् एष समास्थितो रथं तम् अन्व् अमी च त्वरयन्ति दुर्मदाः ।
गोपा अनोभिः स्थविरैर् उपेक्षितं दैवं च नो ऽद्य प्रतिकूलम् ईहते
निवारयामः समुपेत्य माधवं किं नो ऽकरिष्यन् कुल-वृद्ध-बान्धवाः ।
मुकुन्द-सङ्गान् निमिषार्ध-दुस्त्यजाद् दैवेन विध्वंसित-दीन-चेतसाम्
यस्यानुराग-ललित-स्मित-वल्गु-मन्त्र $ लीलावलोक-परिरम्भण-रास-गोष्ठाम् &अम्प्;
नीताः स्म नः क्षणम् इव क्षणदा विना तं % गोप्यः कथं न्व् अतितरेम तमो दुरन्तम् ॥ भ्प्_10.39.029* ॥
यो ऽह्नः क्षये व्रजम् अनन्त-सखः परीतो $ गोपैर् विशन् खुर-रजश्-छुरितालक-स्रक् &
यो ऽह्नः क्षये व्रजम् अनन्त-सखः परीतो $ गोपैर् विशन् खुर-रजश्-छुरितालक-स्रक् &
वेणुं क्वणन् स्मित-कताक्ष-निरीक्षणेन % चित्तं क्षिणोत्य् अमुम् ऋते नु कथं भवेम ॥ भ्प्_10.39.030*
0 श्री-शुक उवाच
एवं ब्रुवाणा विरहातुरा भृशं व्रज-स्त्रियः कृष्ण-विषक्त-मानसाः ।
विसृज्य लज्जां रुरुदुः स्म सु-स्वरं गोविन्द दामोदर माधवेति
स्त्रीणाम् एवं रुदन्तीनाम् उदिते सवितर्य् अथ ।
अक्रूरश् चोदयाम् आस कृत-मैत्रादिको रथम्
गोपास् तम् अन्वसज्जन्त नन्दाद्याः शकटैस् ततः ।
आदायोपायनं भूरि कुम्भान् गो-रस-सम्भृतान्
गोप्यश् च दयितं कृष्णम् अनुव्रज्यानुरञ्जिताः ।
प्रत्यादेशं भगवतः काङ्क्षन्त्यश् चावतस्थिरे
तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाणे यदूत्तमः ।
सान्त्वयाम् अस स-प्रेमैर् आयास्य इति दौत्यकैः
यावद् आलक्ष्यते केतुर् यावद् रेणू रथस्य च ।
अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः
ता निराशा निववृतुर् गोविन्द-विनिवर्तने ।
विशोका अहनी निन्युर् गायन्त्यः प्रिय-चेष्टितम्
भगवान् अपि सम्प्राप्तो रामाक्रूर-युतो नृप ।
रथेन वायु-वेगेन कालिन्दीम् अघ-नाशिनीम्
तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणि-प्रभम् ।
वृक्ष-षण्डम् उपव्रज्य स-रामो रथम् आविशत्
अक्रूरस् ताव् उपामन्त्र्य निवेश्य च रथोपरि ।
कालिन्द्या ह्रदम् आगत्य स्नानं विधि-वद् आचरत्
निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् ।
ताव् एव ददृशे ऽक्रूरो राम-कृष्णौ समन्वितौ
तौ रथ-स्थौ कथम् इह सुताव् आनकदुन्दुभेः ।
तर्हि स्वित् स्यन्दने न स्त इत्य् उन्मज्ज्य व्यचष्ट सः
तत्रापि च यथा-पूर्वम् आसीनौ पुनर् एव सः ।
न्यमज्जद् दर्शनं यन् मे मृषा किं सलिले तयोः
भूयस् तत्रापि सो ऽद्राक्षीत् स्तूयमानम् अहीश्वरम् ।
सिद्ध-चारण-गन्धर्वैर् असुरैर् नत-कन्धरैः
सहस्र-शिरसं देवं सहस्र-फण-मौलिनम् ।
नीलाम्बरं विस-श्वेतं शृङ्गैः श्वेतम् इव स्थितम्
तस्योत्सङ्गे घन-स्यामं पीत-कौशेय-वाससम् ।
पुरुषं चतुर्-भुजं शान्तम् पद्म-पत्रारुणेक्षणम्
चारु-प्रसन्न-वदनं चारु-हास-निरीक्षणम् ।
सु-भ्रून्नसं चरु-कर्णं सु-कपोलारुणाधरम्
प्रलम्ब-पीवर-भुजं तुङ्गांसोरः-स्थल-श्रियम् ।
कम्बु-कण्ठं निम्न-नाभिं वलिमत्-पल्लवोदरम्
बृहत्-कति-तत-श्रोणि करभोरु-द्वयान्वितम् ।
चारु-जानु-युगं चारु जङ्घा-युगल-संयुतम्
तुङ्ग-गुल्फारुण-नख व्रात-दीधितिभिर् वृतम् ।
नवाङ्गुल्य्-अङ्गुष्ठ-दलैर् विलसत्-पाद-पङ्कजम्
सु-महार्ह-मणि-व्रात किरीट-कटकाङ्गदैः ।
कटि-सूत्र-ब्रह्म-सूत्र हार-नूपुर-कुण्डलैः
भ्राजमानं पद्म-करं शङ्ख-चक्र-गदा-धरम् ।
श्रीवत्स-वक्षसं भ्राजत् कौस्तुभं वन-मालिनम्
सुनन्द-नन्द-प्रमुखैः पर्षदैः सनकादिभिः ।
सुरेशैर् ब्रह्म-रुद्राद्यैर् नवभिश् च द्विजोत्तमैः
प्रह्राद-नारद-वसु प्रमुखैर् भागवतोत्तमैः ।
स्तूयमानं पृथग्-भावैर् वचोभिर् अमलात्मभिः
श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया ।
विद्ययाविद्यया शक्त्या मायया च निषेवितम्
विलोक्य सु-भृशं प्रीतो भक्त्या परमया युतः ।
हृष्यत्-तनूरुहो भाव- परिक्लिन्नात्म-लोचनः
गिरा गद्गदयास्तौषीत् सत्त्वम् आलम्ब्य सात्वतः ।
प्रणम्य मूर्ध्नावहितः कृताञ्जलि-पुटः शनैः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0