भागवत पुराण · अध्याय 10.38
भ्प्_10.38.001।0 श्री-शुक उवाच
अक्रूरो ऽपि च तां रात्रिं मधु-पुर्यां महा-मतिः ।
उषित्वा रथम् आस्थाय प्रययौ नन्द-गोकुलम्
गच्छन् पथि महा-भागो भगवत्य् अम्बुजेक्षणे ।
भक्तिं पराम् उपगत एवम् एतद् अचिन्तयत्
किं मयाचरितं भद्रं किं तप्तं परमं तपः ।
किं वाथाप्य् अर्हते दत्तं यद् द्रक्ष्याम्य् अद्य केशवम्
ममैतद् दुर्लभं मन्य उत्तमः-श्लोक-दर्शनम् ।
विषयात्मनो यथा ब्रह्म- कीर्तनं शूद्र-जन्मनः
मैवं ममाधमस्यापि स्याद् एवाच्युत-दर्शनम् ।
ह्रियमाणः कल-नद्या क्वचित् तरति कश्चन
ममाद्यामङ्गलं नष्टं फलवांश् चैव मे भवः ।
यन् नमस्ये भगवतो योगि-ध्येयान्घ्रि-पङ्कजम्
कंसो बताद्याकृत मे ऽत्य्-अनुग्रहं द्रक्ष्ये ऽङ्घ्रि-पद्मं प्रहितो ऽमुना हरेः ।
कृतावतारस्य दुरत्ययं तमः पूर्वे ऽतरन् यन्-नख-मण्डल-त्विषा
यद् अर्चितं ब्रह्म-भवादिभिः सुरैः $ श्रिया च देव्या मुनिभिः स-सात्वतैः &अम्प्;
गो-चारणायानुचरैश् चरद् वने % यद् गोपिकानां कुच-कुङ्कुमाङ्कितम् ॥ भ्प्_10.38.008* ॥
द्रक्ष्यामि नूनं सु-कपोल-नासिकं स्मितावलोकारुण-कञ्ज-लोचनम् ।
मुखं मुकुन्दस्य गुडालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगाः
अप्य् अद्य विष्णोर् मनुजत्वम् ईयुषो भारावताराय भुवो निजेच्छया ।
लावण्य-धाम्नो भवितोपलम्भनं मह्यं न न स्यात् फलम् अञ्जसा दृशः
य ईक्षिताहं-रहितो ऽप्य् असत्-सतोः स्व-तेजसापास्त-तमो-भिदा-भ्रमः ।
स्व-माययात्मन् रचितैस् तद्-ईक्षया प्राणाक्ष-धीभिः सदनेष्व् अभीयते
यस्याखिलामीव-हभिः सु-मङ्गलैः वाचो विमिश्रा गुण-कर्म-जन्मभिः ।
प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् यास् तद्-विरक्ताः शव-शोभना मताः
स चावतीर्णः किल सत्वतान्वये स्व-सेतु-पालामर-वर्य-शर्म-कृत् ।
यशो वितन्वन् व्रज आस्त ईश्वरो गायन्ति देवा यद् अशेष-मङ्गलम्
तं त्व् अद्य नूनं महतां गतिं गुरुं $ त्रैलोक्य-कान्तं दृशिमन्-महोत्सवम् &अम्प्;
रूपं दधानं श्रिय ईप्सितास्पदं % द्रक्ष्ये ममासन्न् उषसः सु-दर्शनाः ॥ भ्प्_10.38.014* ॥
अथावरूढः सपदीशयो रथात् प्रधान-पुंसोश् चरणं स्व-लब्धये ।
धिया धृतं योगिभिर् अप्य् अहं ध्रुवं नमस्य आभ्यां च सखीन् वनौकसः
अप्य् अङ्घ्रि-मूले पतितस्य मे विभुः $ शिरस्य् अधास्यन् निज-हस्त-पङ्कजम् &अम्प्;
दत्ताभयं काल-भुजाङ्ग-रंहसा % प्रोद्वेजितानां शरणैषिणां णृनाम् ॥ भ्प्_10.38.016* ॥
समर्हणं यत्र निधाय कौशिकस् तथा बलिश् चाप जगत्-त्रयेन्द्रताम् ।
यद् वा विहारे व्रज-योषितां श्रमं स्पर्शेन सौगन्धिक-गन्ध्य् अपानुदत्
न मय्य् उपैष्यत्य् अरि-बुद्धिम् अच्युतः $ कंसस्य दूतः प्रहितो ऽपि विश्व-दृक् &अम्प्;
यो ऽन्तर् बहिश् चेतस एतद् ईहितं % क्षेत्र-ज्ञ ईक्षत्य् अमलेन चक्षुषा ॥ भ्प्_10.38.018* ॥
अप्य् अङ्घ्रि-मूले ऽवहितं कृताञ्जलिं $ माम् ईक्षिता स-स्मितम् आर्द्रया दृशा &
अप्य् अङ्घ्रि-मूले ऽवहितं कृताञ्जलिं $ माम् ईक्षिता स-स्मितम् आर्द्रया दृशा &
सपद्य् अपध्वस्त-समस्त-किल्बिषो % वोढा मुदं वीत-विशङ्क ऊर्जिताम् ॥ भ्प्_10.38.019* ॥
सुहृत्तमं ज्ञातिम् अनन्य-दैवतं दोर्भ्यां बृहद्भ्यां परिरप्स्यते ऽथ माम् ।
आत्मा हि तीर्थी-क्रियते तदैव मे बन्धश् च कर्मात्मक उच्छ्वसित्य् अतः
लब्ध्वाङ्ग-सङ्गम् प्रणतम् कृताञ्जलिं $ मां वक्ष्यते ऽक्रूर ततेत्य् उरुश्रवाः &अम्प्;
तदा वयं जन्म-भृतो महीयसा % नैवादृतो यो धिग् अमुष्य जन्म तत् ॥ भ्प्_10.38.021* ॥
न तस्य कश्चिद् दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा ।
तथापि भक्तान् भजते यथा तथा सुर-द्रुमो यद्वद् उपाश्रितो ऽर्थ-दः
किं चाग्रजो मावनतं यदूत्तमः स्मयन् परिष्वज्य गृहीतम् अञ्जलौ ।
गृहं प्रवेष्याप्त-समस्त-सत्कृतं सम्प्रक्ष्यते कंस-कृतं स्व-बन्धुषु
भ्प्_10.38.024।0 श्री-शुक उवाच
इति सञ्चिन्तयन् कृष्णं श्वफल्क-तनयो ऽध्वनि ।
रथेन गोकुलं प्राप्तः सूर्यश् चास्त-गिरिं नृप
पदानि तस्याखिल-लोक-पाल- किरीट-जुष्टामल-पाद-रेणोः ।
ददर्श गोष्ठे क्षिति-कौतुकानि विलक्षितान्य् अब्ज-यवाङ्कुशाद्यैः
तद्-दर्शनाह्लाद-विवृद्ध-सम्भ्रमः $ प्रेम्णोर्ध्व-रोमाश्रु-कलाकुलेक्षणः &अम्प्;
रथाद् अवस्कन्द्य स तेष्व् अचेष्टत % प्रभोर् अमून्य् अङ्घ्रि-रजांस्य् अहो इति ॥ भ्प्_10.38.026* ॥
देहं-भृताम् इयान् अर्थो हित्वा दम्भं भियं शुचम् ।
सन्देशाद् यो हरेर् लिङ्ग- दर्शन-श्रवणादिभिः
ददर्श कृष्णं रामं च व्रजे गो-दोहनं गतौ ।
पीत-नीलाम्बर-धरौ शरद्-अम्बुरहेक्षणौ
किशोरौ श्यामल-श्वेतौ श्री-निकेतौ बृहद्-भुजौ ।
सु-मुखौ सुन्दर-वरौ बल-द्विरद-विक्रमौ
ध्वज-वज्राङ्कुशाम्भोजैश् चिह्नितैर् अङ्घ्रिभिर् व्रजम् ।
शोभयन्तौ महात्मानौ सानुक्रोश-स्मितेक्षणौ
उदार-रुचिर-क्रीडौ स्रग्विणौ वन-मालिनौ ।
पुण्य-गन्धानुलिप्ताङ्गौ स्नातौ विरज-वाससौ
प्रधान-पुरुषाव् आद्यौ जगद्-धेतू जगत्-पती ।
अवतीर्णौ जगत्य्-अर्थे स्वांशेन बल-केशवौ
दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया ।
यथा मारकतः शैलो रौप्यश् च कनकाचितौ
रथात् तूर्णम् अवप्लुत्य सो ऽक्रूरः स्नेह-विह्वलः ।
पपात चरणोपान्ते दण्ड-वद् राम-कृष्णयोः
भगवद्-दर्शनाह्लाद- बाष्प-पर्याकुलेक्षणः ।
पुलकचिताङ्ग औत्कण्ठ्यात् स्वाख्याने नाशकन् नृप
भगवांस् तम् अभिप्रेत्य रथाङ्गाङ्कित-पाणिना ।
परिरेभे ऽभ्युपाकृष्य प्रीतः प्रणत-वत्सलः
सङ्कर्षणश् च प्रणतम् उपगुह्य महा-मनाः ।
गृहीत्वा पाणिना पाणी अनयत् सानुजो गृहम्
पृष्ट्वाथ स्व्-आगतं तस्मै निवेद्य च वरासनम् ।
प्रक्षाल्य विधि-वत् पादौ मधु-पर्कार्हणम् आहरत्
निवेद्य गां चातिथये संवाह्य श्रान्तम् आडृतः ।
अन्नं बहु-गुणं मेध्यं श्रद्धयोपाहरद् विभुः
तस्मै भुक्तवते प्रीत्या रामः परम-धर्म-वित् ।
मख-वासैर् गन्ध-माल्यैः परां प्रीतिं व्यधात् पुनः
पप्रच्छ सत्-कृतं नन्दः कथं स्थ निरनुग्रहे ।
कंसे जीवति दाशार्ह सौन-पाला इवावयः
यो ऽवधीत् स्व-स्वसुस् तोकान् क्रोशन्त्या असु-तृप् खलः ।
किं नु स्वित् तत्-प्रजानां वः कुशलं विमृशामहे
इत्थं सूनृतया वाचा नन्देन सु-सभाजितः ।
अक्रूरः परिपृष्टेन जहाव् अध्व-परिश्रमम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0