भागवत पुराण · अध्याय 10.40
भ्प्_10.40.001।0 श्री-अक्रूर उवाच
नतो ऽस्म्य् अहं त्वाखिल-हेतु-हेतुं नारायणं पूरुषम् आद्यम् अव्ययम् ।
यन्-नाभि-जाताद् अरविन्द-कोषाद् ब्रह्माविरासीद् यत एष लोकः
भूस् तोयम् अग्निः पवनं खम् आदिर् महान् अजादिर् मन इन्द्रियाणि ।
सर्वेन्द्रियार्था विबुधाश् च सर्वे ये हेतवस् ते जगतो ऽङ्ग-भूताः
नैते स्वरूपं विदुर् आत्मनस् ते ह्य् अजादयो ऽनात्मतया गृहीतः ।
अजो ऽनुबद्धः स गुणैर् अजाया गुणात् परं वेद न ते स्वरूपम्
त्वां योगिनो यजन्त्य् अद्धा महा-पुरुषम् ईश्वरम् ।
साध्यात्मं साधिभूतं च साधिदैवं च साधवः
त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः ।
यजन्ते विततैर् यज्ञैर् नाना-रूपामराख्यया
एके त्वाखिल-कर्माणि सन्न्यस्योपशमं गताः ।
ज्ञानिनो ज्ञान-यज्ञेन यजन्ति ज्ञान-विग्रहम्
अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते ।
यजन्ति त्वन्-मयास् त्वां वै बहु-मूर्त्य्-एक-मूर्तिकम्
त्वाम् एवान्ये शिवोक्तेन मार्गेण शिव-रूपिणम् ।
बह्व्-आचार्य-विभेदेन भगवन्तर्न् उपासते
सर्व एव यजन्ति त्वां सर्व-देव-मयेश्वरम् ।
ये ऽप्य् अन्य-देवता-भक्ता यद्य् अप्य् अन्य-धियः प्रभो
यथाद्रि-प्रभवा नद्यः पर्जन्यापूरिताः प्रभो ।
विशन्ति सर्वतः सिन्धुं तद्वत् त्वां गतयो ऽन्ततः
सत्त्वं रजस् तम इति भवतः प्रकृतेर् गुणाः ।
तेषु हि प्राकृताः प्रोता आ-ब्रह्म-स्थावरादयः
तुभ्यं नमस् ते त्व् अविषक्त-दृष्टये $ सर्वात्मने सर्व-धियां च साक्षिणे &अम्प्;
गुण-प्रवाहो ऽयम् अविद्यया कृतः % प्रवर्तते देव-नृ-तिर्यग्-आत्मसु ॥ भ्प्_10.40.012* ॥
अग्निर् मुखं ते ऽवनिर् अङ्घ्रिर् ईक्षणं $ सूर्यो नभो नाभिर् अथो दिशः श्रुतिः &
अग्निर् मुखं ते ऽवनिर् अङ्घ्रिर् ईक्षणं $ सूर्यो नभो नाभिर् अथो दिशः श्रुतिः &
द्यौः कं सुरेन्द्रास् तव बाहवो ऽर्णवाः % कुक्षिर् मरुत् प्राण-बलं प्रकल्पितम् ॥ भ्प्_10.40.013* ॥
रोमाणि वृक्षौषधयः शिरोरुहा $ मेघाः परस्यास्थि-नखानि ते ऽद्रयः &
रोमाणि वृक्षौषधयः शिरोरुहा $ मेघाः परस्यास्थि-नखानि ते ऽद्रयः &
निमेषणं रात्र्य्-अहनी प्रजापतिर् % मेढ्रस् तु वृष्टिस् तव वीर्यम् इष्यते ॥ भ्प्_10.40.014* ॥
त्वय्य् अव्ययात्मन् पुरुषे प्रकल्पिता लोकाः स-पाला बहु-जीव-सङ्कुलाः ।
यथा जले सञ्जिहते जलौकसो ऽप्य् उदुम्बरे वा मशका मनो-मये
यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि ।
तैर् आमृष्ट-शुचो लोका मुदा गायन्ति ते यशः
नमः कारण-मत्स्याय प्रलयाब्धि-चराय च ।
हयशीर्ष्णे नमस् तुभ्यं मधु-कैटभ-मृत्यवे
अकूपाराय बृहते नमो मन्दर-धारिणे ।
क्षित्य्-उद्धार-विहाराय नमः शूकर-मूर्तये
नमस् ते ऽद्भुत-सिंहाय साधु-लोक-भयापह ।
वामनाय नमस् तुभ्यं क्रान्त-त्रिभुवनाय च
नमो भृगुणां पतये दृप्त-क्षत्र-वन-च्छिदे ।
नमस् ते रघु-वर्याय रावणान्त-कराय च
नमस् ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायनिरुद्धाय सात्वतां पतये नमः
नमो बुद्धाय शुद्धाय दैत्य-दानव-मोहिने ।
म्लेच्छ-प्राय-क्षत्र-हन्त्रे नमस् ते कल्कि-रूपिणे
भगवन् जीव-लोको ऽयं मोहितस् तव मायया ।
अहं ममेत्य् असद्-ग्राहो भ्राम्यते कर्म-वर्त्मसु
अहं चात्मात्मजागार- दारार्थ-स्वजनादिषु ।
भ्रमामि स्वप्न-कल्पेषु मूढः सत्य-धिया विभो
अनित्यानात्म-दुःखेषु विपर्यय-मतिर् ह्य् अहम् ।
द्वन्द्वारामस् तमो-विष्टो न जाने त्वात्मनः प्रियम्
यथाबुधो जलं हित्वा प्रतिच्छन्नं तद्-उद्भवैः ।
अभ्येति मृग-तृष्णां वै तद्वत् त्वाहं पराङ्-मुखः
नोत्सहे ऽहं कृपण-धीः काम-कर्म-हतं मनः ।
रोद्धुं प्रमाथिभिश् चाक्षैर् ह्रियमाणम् इतस् ततः
सो ऽहं तवाङ्घ्र्य्-उपगतो ऽस्म्य् असतां दुरापं $ तच् चाप्य् अहं भवद्-अनुग्रह ईश मन्ये &अम्प्;
पुंसो भवेद् यर्हि संसरणापवर्गस् % त्वय्य् अब्ज-नाभ सद्-उपासनया मतिः स्यात् ॥ भ्प्_10.40.028* ॥
नमो विज्ञान-मात्राय सर्व-प्रत्यय-हेतवे ।
पुरुषेश-प्रधानाय ब्रह्मणे ऽनन्त-शक्तये
नमस् ते वासुदेवाय सर्व-भूत-क्षयाय च ।
हृषीकेश नमस् तुभ्यं प्रपन्नं पाहि मां प्रभो
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0