भागवत पुराण · अध्याय 10.34
विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः $ श्रद्धान्वितो ऽनुशृणुयाद् अथ वर्णयेद् यः &अम्प्;
भक्तिं परां भगवति प्रतिलभ्य कामं % हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ भ्प्_10.33.039*
0 श्री-शुक उवाच
एकदा देव-यात्रायां गोपाला जात-कौतुकाः ।
अनोभिर् अनडुद्-युक्तैः प्रययुस् ते ऽम्बिका-वनम्
तत्र स्नात्वा सरस्वत्यां देवं पशु-पतिं विभुम् ।
आनर्चुर् अर्हणैर् भक्त्या देवीं च णृपते ऽम्बिकाम्
गावो हिरण्यं वासांसि मधु मध्व्-अन्नम् आदृताः ।
ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयताम् इति
ऊषुः सरस्वती-तीरे जलं प्राश्य यत-व्रताः ।
रजनीं तां महा-भागा नन्द-सुनन्दकादयः
कश्चिन् महान् अहिस् तस्मिन् विपिने ऽति-बुभुक्षितः ।
यदृच्छयागतो नन्दं शयानम् उर-गो ऽग्रसीत्
स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महान् अयम् ।
सर्पो मां ग्रसते तात प्रपन्नं परिमोचय
तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः ।
ग्रस्तं च दृष्ट्वा विभ्रान्ताः सर्पं विव्यधुर् उल्मुकैः
अलातैर् दह्यमानो ऽपि नामुञ्चत् तम् उरङ्गमः ।
तम् अस्पृशत् पदाभ्येत्य भगवान् सात्वतां पतिः
स वै भगवतः श्रीमत् पाद-स्पर्श-हताशुभः ।
भेजे सर्प-वपुर् हित्वा रूपं विद्याधरार्चितम्
तम् अपृच्छद् धृषीकेशः प्रणतं समवस्थितम् ।
दीप्यमानेन वपुषा पुरुषं हेम-मालिनम्
को भवान् परया लक्ष्म्या रोचते ऽद्भुत-दर्शनः ।
कथं जुगुप्सिताम् एतां गतिं वा प्रापितो ऽवशः
भ्प्_10.34.012।0 सर्प उवाच
अहं विद्याधरः कश्चित् सुदर्शन इति श्रुतः ।
श्रिया स्वरूप-सम्पत्त्या विमानेनाचरन् दिशः
ऋषीन् विरूपाङ्गिरसः प्राहसं रूप-दर्पितः ।
तैर् इमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना
शापो मे ऽनुग्रहायैव कृतस् तैः करुणात्मभिः ।
यद् अहं लोक-गुरुणा पदा स्पृष्टो हताशुभः
तं त्वाहं भव-भीतानां प्रपन्नानां भयापहम् ।
आपृच्छे शाप-निर्मुक्तः पाद-स्पर्शाद् अमीव-हन्
प्रपन्नो ऽस्मि महा-योगिन् महा-पुरुष सत्-पते ।
अनुजानीहि मां देव सर्व-लोकेश्वरेश्वर
ब्रह्म-दण्डाद् विमुक्तो ऽहं सद्यस् ते ऽच्युत दर्शनात् ।
यन्-नाम गृह्णन्न् अखिलान् श्रोतॄन् आत्मानम् एव च ।
सद्यः पुनाति किं भूयस् तस्य स्पृष्टः पदा हि ते
इत्य् अनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च ।
सुदर्शनो दिवं यातः कृच्छ्रान् नन्दश् च मोचितः
निशाम्य कृष्णस्य तद् आत्म-वैभवं $ व्रजौकसो विस्मित-चेतसस् ततः &अम्प्;
समाप्य तस्मिन् नियमं पुनर् व्रजं % णृपाययुस् तत् कथयन्त आदृताः ॥ भ्प्_10.34.019* ॥
कदाचिद् अथ गोविन्दो रामश् चाद्भुत-विक्रमः ।
विजह्रतुर् वने रात्र्यां मध्य-गौ व्रज-योषिताम्
उपगीयमानौ ललितं स्त्री-जनैर् बद्ध-सौहृदैः ।
स्व्-अलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजो-ऽम्बरौ
निशा-मुखं मानयन्ताव् उदितोडुप-तारकम् ।
मल्लिका-गन्ध-मत्तालि- जुष्टं कुमुद-वायुना
जगतुः सर्व-भूतानां मनः-श्रवण-मङ्गलम् ।
तौ कल्पयन्तौ युगपत् स्वर-मण्डल-मूर्च्छितम्
गोप्यस् तद्-गीतम् आकर्ण्य मूर्च्छिता नाविदन् नृप ।
स्रंसद्-दुकूलम् आत्मानं स्रस्त-केश-स्रजं ततः
एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्त-वत् ।
शङ्खचूड इति ख्यातो धनदानुचरो ऽभ्यगात्
तयोर् निरीक्षतो राजंस् तन्-नाथं प्रमदा-जनम् ।
क्रोशन्तं कालयाम् आस दिश्य् उदीच्याम् अशङ्कितः
क्रोशन्तं कृष्ण रामेति विलोक्य स्व-परिग्रहम् ।
यथा गा दस्युना ग्रस्ता भ्रातराव् अन्वधावताम्
मा भैष्टेत्य् अभयारावौ शाल-हस्तौ तरस्विनौ ।
आसेदतुस् तं तरसा त्वरितं गुह्यकाधमम्
स वीक्ष्य ताव् अनुप्राप्तौ काल-मृत्यू इवोद्विजन् ।
विषृज्य स्त्री-जनं मूढः प्राद्रवज् जीवितेच्छया
तम् अन्वधावद् गोविन्दो यत्र यत्र स धावति ।
जिहीर्षुस् तच्-छिरो-रत्नं तस्थौ रक्षन् स्त्रियो बलः
अविदूर इवाभ्येत्य शिरस् तस्य दुरात्मनः ।
जहार मुष्टिनैवाङ्ग सह-चूड-मणिं विभुः
शङ्खचूडं निहत्यैवं मणिम् आदाय भास्वरम् ।
अग्रजायाददात् प्रीत्या पश्यन्तीनां च योषिताम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0