भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.33

10.33.001

भ्प्_10.33.001।0 श्री-शुक उवाच
इत्थं भगवतो गोप्यः श्रुत्वा वाचः सु-पेशलाः ।
जहुर् विरह-जं तापं तद्-अङ्गोपचिताशिषः

10.33.002

तत्रारभत गोविन्दो रास-क्रीडाम् अनुव्रतैः ।
स्त्री-रत्नैर् अन्वितः प्रीतैर् अन्योन्याबद्ध-बाहुभिः

10.33.003_1

रासोत्सवः सम्प्रवृत्तो गोपी-मण्डल-मण्डितः ।
योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर् द्वयोः ।
प्रविष्टेन गृहीतानां कण्ठे स्व-निकटं स्त्रियः

10.33.003_2

यं मन्येरन् नभस् तावद् विमान-शत-सङ्कुलम् ।
दिवौकसां स-दाराणाम् औत्सुक्यापहृतात्मनाम्

10.33.004

ततो दुन्दुभयो नेदुर् निपेतुः पुष्प-वृष्टयः ।
जगुर् गन्धर्व-पतयः स-स्त्रीकास् तद्-यशो ऽमलम्

10.33.005

वलयानां नूपुराणां किङ्किणीनां च योषिताम् ।
स-प्रियाणाम् अभूच् छब्दस् तुमुलो रास-मण्डले

10.33.006

तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः ।
मध्ये मणीनां हैमानां महा-मरकतो यथा

10.33.008

पाद-न्यासैर् भुज-विधुतिभिः स-स्मितैर् भ्रू-विलासैर् $ भज्यन् मध्यैश् चल-कुच-पटैः कुण्डलैर् गण्ड-लोलैः &अम्प्;
स्विद्यन्-मुख्यः कवर-रसनाग्रन्थयः कृष्ण-वध्वो % गायन्त्यस् तं तडित इव ता मेघ-चक्रे विरेजुः ॥ भ्प्_10.33.007* ॥
उच्चैर् जगुर् नृत्यमाना रक्त-कण्ठ्यो रति-प्रियाः ।
कृष्णाभिमर्श-मुदिता यद्-गीतेनेदम् आवृतम्

10.33.009

काचित् समं मुकुन्देन स्वर-जातीर् अमिश्रिताः ।
उन्निन्ये पूजिता तेन प्रीयता साधु साध्व् इति ।
तद् एव ध्रुवम् उन्निन्ये तस्यै मानं च बह्व् अदात्

10.33.010

काचिद् रास-परिश्रान्ता पार्श्व-स्थस्य गदा-भृतः ।
जग्राह बाहुना स्कन्धं श्लथद्-वलय-मल्लिका

10.33.011

तत्रैकांस-गतं बाहुं कृष्णस्योत्पल-सौरभम् ।
चन्दनालिप्तम् आघ्राय हृष्ट-रोमा चुचुम्ब ह

10.33.012

कस्याश्चिन् नाट्य-विक्षिप्त कुण्डल-त्विष-मण्डितम् ।
गण्डं गण्डे सन्दधत्याः प्रादात् ताम्बूल-चर्वितम्

10.33.013

नृत्यती गायती काचित् कूजन् नूपुर-मेखला ।
पार्श्व-स्थाच्युत-हस्ताब्जं श्रान्ताधात् स्तनयोः शिवम्

10.33.014

गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्त-वल्लभम् ।
गृहीत-कण्ठ्यस् तद्-दोर्भ्यां गायन्त्यस् तम् विजह्रिरे

10.33.016

कर्णोत्पलालक-विटङ्क-कपोल-घर्म- $ वक्त्र-श्रियो वलय-नूपुर-घोष-वाद्यैः &अम्प्;
गोप्यः समं भगवता ननृतुः स्व-केश- % स्रस्त-स्रजो भ्रमर-गायक-रास-गोष्ठ्याम् ॥ भ्प्_10.33.015* ॥
एवं परिष्वङ्ग-कराभिमर्श- स्निग्धेक्षणोद्दाम-विलास-हासैः ।
रेमे रमेशो व्रज-सुन्दरीभिर् यथार्भकः स्व-प्रतिबिम्ब-विभ्रमः

10.33.017

तद्-अङ्ग-सङ्ग-प्रमुदाकुलेन्द्रियाः केशान् दुकूलं कुच-पट्टिकां वा ।
नाञ्जः प्रतिव्योढुम् अलं व्रज-स्त्रियो विस्रस्त-मालाभरणाः कुरूद्वह

10.33.018

कृष्ण-विक्रीडितं वीक्ष्य मुमुहुः खे-चर-स्त्रियः ।
कामार्दिताः शशाङ्कश् च स-गणो विस्मितो ऽभवत्

10.33.019

कृत्वा तावन्तम् आत्मानं यावतीर् गोप-योषितः ।
रेमे स भगवांस् ताभिर् आत्मारामो ऽपि लीलया

10.33.020

तासां रति-विहारेण श्रान्तानां वदनानि सः ।
प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना

10.33.024

गोप्यः स्फुरत्-पुरट-कुण्डल-कुन्तल-त्विड्- $ गण्ड-श्रिया सुधित-हास-निरीक्षणेन &अम्प्;
मानं दधत्य ऋषभस्य जगुः कृतानि % पुण्यानि तत्-कर-रुह-स्पर्श-प्रमोदाः ॥ भ्प्_10.33.021* ॥
ताभिर् युतः श्रमम् अपोहितुम् अङ्ग-सङ्ग- $ घृष्ट-स्रजः स कुच-कुङ्कुम-रञ्जितायाः &
ताभिर् युतः श्रमम् अपोहितुम् अङ्ग-सङ्ग- $ घृष्ट-स्रजः स कुच-कुङ्कुम-रञ्जितायाः &
गन्धर्व-पालिभिर् अनुद्रुत आविशद् वाः % श्रान्तो गजीभिर् इभ-राड् इव भिन्न-सेतुः ॥ भ्प्_10.33.022* ॥
सो ऽम्भस्य् अलं युवतिभिः परिषिच्यमानः $ प्रेम्णेक्षितः प्रहसतीभिर् इतस् ततो ऽङ्ग &
सो ऽम्भस्य् अलं युवतिभिः परिषिच्यमानः $ प्रेम्णेक्षितः प्रहसतीभिर् इतस् ततो ऽङ्ग &
वैमानिकैः कुसुम-वर्षिभिर् ईद्यमानो % रेमे स्वयं स्व-रतिर् अत्र गजेन्द्र-लीलः ॥ भ्प्_10.33.023* ॥
ततश् च कृष्णोपवने जल-स्थल प्रसून-गन्धानिल-जुष्ट-दिक्-तटे ।
चचार भृङ्ग-प्रमदा-गणावृतो यथा मद-च्युद् द्विरदः करेणुभिः

10.33.025

एवं शशाङ्कांशु-विराजिता निशाः स सत्य-कामो ऽनुरताबला-गणः ।
सिषेव आत्मन्य् अवरुद्ध-सौरतः सर्वाः शरत्-काव्य-कथा-रसाश्रयाः

10.33.026

भ्प्_10.33.026।0 श्री-परीक्षिद् उवाच
संस्थापनाय धर्मस्य प्रशमायेतरस्य च ।
अवतीर्णो हि भगवान् अंशेन जगद्-ईश्वरः

10.33.027

स कथं धर्म-सेतूनां वक्ता कर्ताभिरक्षिता ।
प्रतीपम् आचरद् ब्रह्मन् पर-दाराभिमर्शनम्

10.33.028

आप्त-कामो यदु-पतिः कृतवान् वै जुगुप्सितम् ।
किम्-अभिप्राय एतन् नः शंशयं छिन्धि सु-व्रत

10.33.029

भ्प्_10.33.029।0 श्री-शुक उवाच
धर्म-व्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।
तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा

10.33.030

नैतत् समाचरेज् जातु मनसापि ह्य् अनीश्वरः ।
विनश्यत्य् आचरन् मौढ्याद् यथारुद्रो ऽब्धि-जं विषम्

10.33.031

ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् ।
तेषां यत् स्व-वचो-युक्तं बुद्धिमांस् तत् समाचरेत्

10.33.032

कुशलाचरितेनैषाम् इह स्वार्थो न विद्यते ।
विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो

10.33.033

किम् उताखिल-सत्त्वानां तिर्यङ्-मर्त्य-दिवौकसाम् ।
ईशितुश् चेशितव्यानां कुशलाकुशलान्वयः

10.33.035

यत्-पाद-पङ्कज-पराग-निषेव-तृप्ता $ योग-प्रभाव-विधुताखिल-कर्म-बन्धाः &अम्प्;
स्वैरं चरन्ति मुनयो ऽपि न नह्यमानास् % तस्येच्छयात्त-वपुषः कुत एव बन्धः ॥ भ्प्_10.33.034* ॥
गोपीनां तत्-पतीनां च सर्वेषाम् एव देहिनाम् ।
यो ऽन्तश् चरति सो ऽध्यक्षः क्रीडनेनेह देह-भाक्

10.33.036

अनुग्रहाय भक्तानां मानुषं देहम् आस्थितः ।
भजते तादृशीः क्रीड याः श्रुत्वा तत्-परो भवेत्

10.33.037

नासूयन् खलु कृष्णाय मोहितास् तस्य मायया ।
मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः

10.33.038

ब्रह्म-रात्र उपावृत्ते वासुदेवानुमोदिताः ।
अनिच्छन्त्यो ययुर् गोप्यः स्व-गृहान् भगवत्-प्रियाः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc