भागवत पुराण · अध्याय 10.35
भ्प्_10.35.001।0 श्री-शुक उवाच
गोप्यः कृष्णे वनं याते तम् अनुद्रुत-चेतसः ।
कृष्ण-लीलाः प्रगायन्त्यो निन्युर् दुःखेन वासरान्
भ्प्_10.35.002।0 श्री-गोप्य ऊचुः
वाम-बाहु-कृत-वाम-कपोलो वल्गित-भ्रुर् अधरार्पित-वेणुम् ।
कोमलाङ्गुलिभिर् आश्रित-मार्गं गोप्य ईरयति यत्र मुकुन्दः
व्योम-यान-वनिताः सह सिद्धैर् विस्मितास् तद् उपधार्य स-लज्जाः ।
काम-मार्गण-समर्पित-चित्ताः कश्मलं ययुर् अपस्मृत-नीव्यः
हन्त चित्रम् अबलाः शृणुतेदं हार-हास उरसि स्थिर-विद्युत् ।
नन्द-सूनुर् अयम् आर्त-जनानां नर्म-दो यर्हि कूजित-वेणुः
वृन्दशो व्रज-वृषा मृग-गावो वेणु-वाद्य-हृत-चेतस आरात् ।
दन्त-दष्ट-कवला धृत-कर्णा निद्रिता लिखित-चित्रम् इवासन्
बर्हिण-स्तबक-धातु-पलाशैर् बद्ध-मल्ल-परिबर्ह-विडम्बः ।
कर्हिचित् स-बल आलि स गोपैर् गाः समाह्वयति यत्र मुकुन्दः
तर्हि भग्न-गतयः सरितो वै तत्-पदाम्बुज-रजो ऽनिल-नीतम् ।
स्पृहयतीर् वयम् इवाबहु-पुण्याः प्रेम-वेपित-भुजाः स्तिमितापः
अनुचरैः समनुवर्णित-वीर्य आदि-पूरुष इवाचल-भूतिः ।
वन-चरो गिरि-तटेषु चरन्तीर् वेणुनाह्वयति गाः स यदा हि
वन-लतास् तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्प-फलाढ्याः ।
प्रणत-भार-विटपा मधु-धाराः प्रेम-हृष्ट-तनवो ववृषुः स्म
दर्शनीय-तिलको वन-माला- दिव्य-गन्ध-तुलसी-मधु-मत्तैः ।
अलि-कुलैर् अलघु गीताम् अभीष्टम् आद्रियन् यर्हि सन्धित-वेणुः
सरसि सारस-हंस-विहङ्गाश् चारु-गीता-हृत-चेतस एत्य ।
हरिम् उपासत ते यत-चित्ता हन्त मीलित-दृशो धृत-मौनाः
सह-बलः स्रग्-अवतंस-विलासः सानुषु क्षिति-भृतो व्रज-देव्यः ।
हर्षयन् यर्हि वेणु-रवेण जात-हर्ष उपरम्भति विश्वम्
महद्-अतिक्रमण-शङ्कित-चेता मन्द-मन्दम् अनुगर्जति मेघः ।
सुहृदम् अभ्यवर्षत् सुमनोभिश् छायया च विदधत् प्रतपत्रम्
विविध-गोप-चरणेषु विदग्धो वेणु-वाद्य उरुधा निज-शिक्षाः ।
तव सुतः सति यदाधर-बिम्बे दत्त-वेणुर् अनयत् स्वर-जातीः
सवनशस् तद् उपधार्य सुरेशाः शक्र-शर्व-परमेष्ठि-पुरोगाः ।
कवय आनत-कन्धर-चित्ताः कश्मलं ययुर् अनिश्चित-तत्त्वाः
निज-पदाब्ज-दलैर् ध्वज-वज्र नीरजाङ्कुश-विचित्र-ललामैः ।
व्रज-भुवः शमयन् खुर-तोदं वर्ष्म-धुर्य-गतिर् ईडित-वेणुः
व्रजति तेन वयं स-विलास वीक्षणार्पित-मनोभव-वेगाः ।
कुज-गतिं गमिता न विदामः कश्मलेन कवरं वसनं वा
मणि-धरः क्वचिद् आगणयन् गा मालया दयित-गन्ध-तुलस्याः ।
प्रणयिनो ऽनुचरस्य कदांसे प्रक्षिपन् भुजम् अगायत यत्र
क्वणित-वेणु-रव-वञ्चित-चित्ताः कृष्णम् अन्वसत कृष्ण-गृहिण्यः ।
गुण-गणार्णम् अनुगत्य हरिण्यो गोपिका इव विमुक्त-गृहाशाः
कुन्द-दाम-कृत-कौतुक-वेषो गोप-गोधन-वृतो यमुनायाम् ।
नन्द-सूनुर् अनघे तव वत्सो नर्म-दः प्रणयिणां विजहार
मन्द-वायुर् उपवात्य् अनकूलं मानयन् मलयज-स्पर्शेन ।
वन्दिनस् तम् उपदेव-गणा ये वाद्य-गीत-बलिभिः परिवव्रुः
वत्सलो व्रज-गवां यद् अग-ध्रो वन्द्यमान-चरणः पथि वृद्धैः ।
कृत्स्न-गो-धनम् उपोह्य दिनान्ते गीत-वेणुर् अनुगेडित-कीर्तिः
उत्सवं श्रम-रुचापि दृशीनाम् उन्नयन् खुर-रजश्-छुरित-स्रक् ।
दित्सयैति सुहृद्-आसिष एष देवकी-जठर-भूर् उडु-राजः
मद-विघूर्णित-लोचन ईषत् मान-दः स्व-सुहृदां वन-माली ।
बदर-पाण्डु-वदनो मृदु-गण्डं मण्डयन् कनक-कुण्डल-लक्ष्म्या
यदु-पतिर् द्विरद-राज-विहारो यामिनी-पतिर् इवैष दिनान्ते ।
मुदित-वक्त्र उपयाति दुरन्तं मोचयन् व्रज-गवां दिन-तापम्
भ्प्_10.35.026।0 श्री-शुक उवाच
एवं व्रज-स्त्रियो राजन् कृष्ण-लीलानुगायतीः ।
रेमिरे ऽहःसु तच्-चित्तास् तन्-मनस्का महोदयाः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0