भागवत पुराण · अध्याय 10.32
यत् ते सुजात-चरणाम्बुरुहं स्तनेषु $ भीताः शनैः प्रिय दधीमहि कर्कशेषु &अम्प्;
तेनाटवीम् अटसि तद् व्यथते न किं स्वित् % कूर्पादिभिर् भ्रमति धीर् भवद्-आयुषां नः ॥ भ्प्_10.31.019*
0 श्री-शुक उवाच
इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश् च चित्रधा ।
रुरुदुः सु-स्वरं राजन् कृष्ण-दर्शन-लालसाः
तासाम् आविरभूच् छौरिः स्मयमान-मुखाम्बुजः ।
पीताम्बर-धरः स्रग्वी साक्षान् मन्मथ-मन्मथः
तं विलोक्यागतं प्रेष्ठं प्रीत्य्-उत्फुल्ल-दृशो ऽबलाः ।
उत्तस्थुर् युगपत् सर्वास् तन्वः प्राणम् इवागतम्
काचित् कराम्बुजं शौरेर् जगृहे ऽञ्जलिना मुदा ।
काचिद् दधार तद्-बाहुम् अंसे चन्दन-भूषितम्
काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बूल-चर्वितम् ।
एका तद्-अङ्घ्रि-कमलं सन्तप्ता स्तनयोर् अधात्
एका भ्रु-कुटिम् आबध्य प्रेम-संरम्भ-विह्वला ।
घ्नन्तीवैक्षत् कटाक्षेपैः सन्दष्ट-दशन-च्छदा
अपरानिमिषद्-दृग्भ्यां जुषाणा तन्-मुखाम्बुजम् ।
आपीतम् अपि नातृप्यत् सन्तस् तच्-चरणं यथा
तं काचिन् नेत्र-रन्ध्रेण हृदि कृत्वा निमील्य च ।
पुलकाङ्ग्य् उपगुह्यास्ते योगीवानन्द-सम्प्लुता
सर्वास् ताः केशवालोक- परमोत्सव-निर्वृताः ।
जहुर् विरह-जं तापं प्राज्ञं प्राप्य यथा जनाः
ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो वृतः ।
व्यरोचताधिकं तात पुरुषः शक्तिभिर् यथा
ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः ।
विकसत्-कुन्द-मन्दार सुरभ्य्-अनिल-षट्पदम्
शरच्-चन्द्रांशु-सन्दोह- ध्वस्त-दोषा-तमः शिवम् ।
कृष्णाया हस्त-तरला चित-कोमल-वालुकम्
तद्-दर्शनाह्लाद-विधूत-हृद्-रुजो मनोरथान्तं श्रुतयो यथा ययुः ।
स्वैर् उत्तरीयैः कुच-कुङ्कुमाङ्कितैर् अचीकॢपन्न् आसनम् आत्म-बन्धवे
तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्-हृदि कल्पितासनः ।
चकास गोपी-परिषद्-गतो ऽर्चितस् त्रैलोक्य-लक्ष्म्य्-एक-पदं वपुर् दधत्
सभाजयित्वा तम् अनङ्ग-दीपनं सहास-लीलेक्षण-विभ्रम-भ्रुवा ।
संस्पर्शनेनाङ्क-कृताङ्घ्रि-हस्तयोः संस्तुत्य ईषत् कुपिता बभाषिरे
भ्प्_10.32.016।0 श्री-गोप्य ऊचुः
भजतो ऽनुभजन्त्य् एक एक एतद्-विपर्ययम् ।
नोभयांश् च भजन्त्य् एक एतन् नो ब्रूहि साधु भोः
भ्प्_10.32.017।0 श्री-भगवान् उवाच
मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते ।
न तत्र सौहृदं धर्मः स्वार्थार्थं तद् धि नान्यथा
भजन्त्य् अभजतो ये वै करुणाः पितरौ यथा ।
धर्मो निरपवादो ऽत्र सौहृदं च सु-मध्यमाः
भजतो ऽपि न वै केचिद् भजन्त्य् अभजतः कुतः ।
आत्मारामा ह्य् आप्त-कामा अकृत-ज्ञा गुरु-द्रुहः
नाहं तु सख्यो भजतो ऽपि जन्तून् भजाम्य् अमीषाम् अनुवृत्ति-वृत्तये ।
यथाधनो लब्ध-धने विनष्टे तच्-चिन्तयान्यन् निभृतो न वेद
एवं मद्-अर्थोज्झित-लोक-वेद स्वानाम् हि वो मय्य् अनुवृत्तये ऽबलाः ।
मयापरोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत् प्रियं प्रियाः
न पारये ऽहं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः ।
या माभजन् दुर्जर-गेह-शृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0