भागवत पुराण · अध्याय 10.31
भ्प्_10.31.001।0 गोप्य ऊचुः
जयति ते ऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वद् अत्र हि ।
दयित दृश्यतां दिक्षु तावकास् त्वयि धृतासवस् त्वां विचिन्वते
शरद्-उदाशये साधु-जात-सत्- सरसिजोदर-श्री-मुषा दृशा ।
सुरत-नाथ ते ऽशुल्क-दासिका वर-द निघ्नतो नेह किं वधः
विष-जलाप्ययाद् व्याल-राक्षसाद् वर्ष-मारुताद् वैद्युतानलात् ।
वृष-मयात्मजाद् विश्वतो भयाद् ऋषभ ते वयं रक्षिता मुहुः
न खलु गोपीका-नन्दनो भवान् अखिल-देहिनाम् अन्तरात्म-दृक् ।
विखनसार्थितो विश्व-गुप्तये सख उदेयिवान् सात्वतां कुले
विरचिताभयं वृष्णि-धूर्य ते चरणम् ईयुषां संसृतेर् भयात् ।
कर-सरोरुहं कान्त काम-दं शिरसि धेहि नः श्री-कर-ग्रहम्
व्रज-जनार्ति-हन् वीर योषितां निज-जन-स्मय-ध्वंसन-स्मित ।
भज सखे भवत्-किङ्करीः स्म नो जलरुहाननं चारु दर्शय
प्रणत-देहिनां पाप-कर्षणं तृण-चरानुगं श्री-निकेतनम् ।
फणि-फणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्-छयम्
मधुरया गिरा वल्गु-वाक्यया बुध-मनोज्ञया पुष्करेक्षण ।
विधि-करीर् इमा वीर मुह्यतीर् अधर-सीधुनाप्याययस्व नः
तव कथामृतं तप्त-जीवनं कविभिर् ईडितं कल्मषापहम् ।
श्रवण-मङ्गलं श्रीमद् आततं भुवि गृणन्ति ये भूरि-दा जनाः
प्रहसितं प्रिय-प्रेम-वीक्षणं विहरणं च ते ध्यान-मङ्गलम् ।
रहसि संविदो या हृदि स्पृशः कुहक नो मनः क्षोभयन्ति हि
चलसि यद् व्रजाच् चारयन् पशून् नलिन-सुन्दरं नाथ ते पदम् ।
शिल-तृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति
दिन-परिक्षये नील-कुन्तलैर् वनरुहाननं बिभ्रद् आवृतम् ।
घन-रजस्वलं दर्शयन् मुहुर् मनसि नः स्मरं वीर यच्छसि
प्रणत-काम-दं पद्मजार्चितं धरणि-मण्डनं ध्येयम् आपदि ।
चरण-पङ्कजं शन्तमं च ते रमण नः स्तनेष्व् अर्पयाधि-हन्
सुरत-वर्धनं शोक-नाशनं स्वरित-वेणुना सुष्ठु चुम्बितम् ।
इतर-राग-विस्मारणं नृणां वितर वीर नस् ते ऽधरामृतम्
अटति यद् भवान् अह्नि काननं त्रुटि युगायते त्वाम् अपश्यताम् ।
कुटिल-कुन्तलं श्री-मुखं च ते जड उदीक्षतां पक्ष्म-कृद् दृशाम्
पति-सुतान्वय-भ्रातृ-बान्धवान् अतिविलङ्घ्य ते ऽन्त्य् अच्युतागताः ।
गति-विदस् तवोद्गीत-मोहिताः कितव योषितः कस् त्यजेन् निशि
रहसि संविदं हृच्-छयोदयं प्रहसिताननं प्रेम-वीक्षणम् ।
बृहद्-उरः श्रियो वीक्ष्य धाम ते मुहुर् अति-स्पृहा मुह्यते मनः
व्रज-वनौकसां व्यक्तिर् अङ्ग ते वृजिन-हन्त्र्य् अलं विश्व-मङ्गलम् ।
त्यज मनाक् च नस् त्वत्-स्पृहात्मनां स्व-जन-हृद्-रुजां यन् निषूदनम्
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0