भागवत पुराण · अध्याय 10.30
भ्प्_10.30.001।0 श्री-शुक उवाच
अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः ।
अतप्यंस् तम् अचक्षाणाः करिण्य इव यूथपम्
गत्यानुराग-स्मित-विभ्रमेक्षितैर् मनो-रमालाप-विहार-विभ्रमैः ।
आक्षिप्त-चित्ताः प्रमदा रमा-पतेस् तास् ता विचेष्टा जगृहुस् तद्-आत्मिकाः
गति-स्मित-प्रेक्षण-भाषणादिषु प्रियाः प्रियस्य प्रतिरूढ-मूर्तयः ।
असाव् अहं त्व् इत्य् अबलास् तद्-आत्मिका न्यवेदिषुः कृष्ण-विहार-विभ्रमाः
गायन्त्य उच्चैर् अमुम् एव संहता विचिक्युर् उन्मत्तक-वद् वनाद् वनम् ।
पप्रच्छुर् आकाश-वद् अन्तरं बहिर् भूतेषु सन्तं पुरुषं वनस्पतीन्
दृष्टो वः कच्चिद् अश्वत्थ प्लक्ष न्यग्रोध नो मनः ।
नन्द-सूनुर् गतो हृत्वा प्रेम-हासावलोकनैः
कच्चित् कुरबकाशोक- नाग-पुन्नाग-चम्पकाः ।
रामानुजो मानिनीनाम् इतो दर्प-हर-स्मितः
कच्चित् तुलसि कल्याणि गोविन्द-चरण-प्रिये ।
सह त्वालि-कुलैर् बिभ्रद् दृष्टस् ते ऽति-प्रियो ऽच्युतः
मालत्य् अदर्शि वः कच्चिन् मल्लिके जाति-यूथिके ।
प्रीतिं वो जनयन् यातः कर-स्पर्शेन माधवः
चूत-प्रियाल-पनसासन-कोविदार जम्ब्व्-अर्क-बिल्व-बकुलाम्र-कदम्ब-नीपाः ।
ये ऽन्ये परार्थ-भवका यमुनोपकूलाः शंसन्तु कृष्ण-पदवीं रहितात्मनां नः
किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि- $ स्पर्शोत्सवोत्पुलकिताङ्ग-नहैर् विभासि &अम्प्;
अप्य् अङ्घ्रि-सम्भव उरुक्रम-विक्रमाद् वा % आहो वराह-वपुषः परिरम्भणेन ॥ भ्प्_10.30.010* ॥
अप्य् एण-पत्न्य् उपगतः प्रिययेह गात्रैस् $ तन्वन् दृशां सखि सु-निर्वृतिम् अच्युतो वः &
अप्य् एण-पत्न्य् उपगतः प्रिययेह गात्रैस् $ तन्वन् दृशां सखि सु-निर्वृतिम् अच्युतो वः &
कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः % कुन्द-स्रजः कुल-पतेर् इह वाति गन्धः ॥ भ्प्_10.30.011* ॥
बाहुं प्रियांस उपधाय गृहीत-पद्मो $ रामानुजस् तुलसिकालि-कुलैर् मदान्धैः &
बाहुं प्रियांस उपधाय गृहीत-पद्मो $ रामानुजस् तुलसिकालि-कुलैर् मदान्धैः &
अन्वीयमान इह वस् तरवः प्रणामं % किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ भ्प्_10.30.012* ॥
पृच्छतेमा लता बाहून् अप्य् आश्लिष्टा वनस्पतेः ।
नूनं तत्-करज-स्पृष्टा बिभ्रत्य् उत्पुलकान्य् अहो
इत्य् उन्मत्त-वचो गोप्यः कृष्णान्वेषण-कातराः ।
लीला भगवतस् तास् ता ह्य् अनुचक्रुस् तद्-आत्मिकाः
कस्याचित् पूतनायन्त्याः कृष्णायन्त्य् अपिबत् स्तनम् ।
तोकयित्वा रुदत्य् अन्या पदाहन् शकटायतीम्
दैत्यायित्वा जहारान्याम् एको कृष्णार्भ-भावनाम् ।
रिङ्गयाम् आस काप्य् अङ्घ्री कर्षन्ती घोष-निःस्वनैः
कृष्ण-रामायिते द्वे तु गोपायन्त्यश् च काश्चन ।
वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम्
आहूय दूर-गा यद्वत् कृष्णस् तम् अनुवर्ततीम् ।
वेणुं क्वणन्तीं क्रीडन्तीम् अन्याः शंसन्ति साध्व् इति
कस्याञ्चित् स्व-भुजं न्यस्य चलन्त्य् आहापरा ननु ।
कृष्णो ऽहं पश्यत गतिं ललिताम् इति तन्-मनाः
मा भैष्ट वात-वर्षाभ्यां तत्-त्राणं विहितं मय ।
इत्य् उक्त्वैकेन हस्तेन यतन्त्य् उन्निदधे ऽम्बरम्
आरुह्यैका पदाक्रम्य शिरस्य् आहापरां नृप ।
दुष्टाहे गच्छ जातो ऽहं खलानाम् ननु दण्ड-कृत्
तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् ।
चक्षूंष्य् आश्व् अपिदध्वं वो विधास्ये क्षेमम् अञ्जसा
बद्धान्यया स्रजा काचित् तन्वी तत्र उलूखले ।
बध्नामि भाण्ड-भेत्तारं हैयङ्गव-मुषं त्व् इति ।
भीता सु-दृक् पिधायास्यं भेजे भीति-विडम्बनम्
एवं कृष्णं पृच्छमाना व्र्ण्दावन-लतास् तरून् ।
व्यचक्षत वनोद्देशे पदानि परमात्मनः
पदानि व्यक्तम् एतानि नन्द-सूनोर् महात्मनः ।
लक्ष्यन्ते हि ध्वजाम्भोज- वज्राङ्कुश-यवादिभिः
तैस् तैः पदैस् तत्-पदवीम् अन्विच्छन्त्यो ऽग्रतोऽबलाः ।
वध्वाः पदैः सु-पृक्तानि विलोक्यार्ताः समब्रुवन्
कस्याः पदानि चैतानि याताया नन्द-सूनुना ।
अंस-न्यस्त-प्रकोष्ठायाः करेणोः करिणा यथा
अनयाराधितो नूनं भगवान् हरिर् ईश्वरः ।
यन् नो विहाय गोविन्दः प्रीतो याम् अनयद् रहः
धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्य्-अब्ज-रेणवः ।
यान् ब्रह्मेशौ रमा देवी दधुर् मूर्ध्न्य् अघ-नुत्तये
तस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् यैकापहृत्य गोपीनाम् रहो भुन्क्ते ऽच्युताधरम् ।
न लक्ष्यन्ते पदान्य् अत्र तस्या नूनं तृणाङ्कुरैः खिद्यत्-सुजाताङ्घ्रि-तलाम् उन्निन्ये प्रेयसीं प्रियः
इमान्य् अधिक-मग्नानि पदानि वहतो वधूम् ।
गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः ।
अत्रावरोपिता कान्ता पुष्प-हेतोर् महात्मना
अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः ।
प्रपदाक्रमण एते पश्यतासकले पदे
केश-प्रसाधनं त्व् अत्र कामिन्याः कामिना कृतम् ।
तानि चूडयता कान्ताम् उपविष्टम् इह ध्रुवम्
रेमे तया चात्म-रत आत्मारामो ऽप्य् अखण्डितः ।
कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम्
इत्य् एवं दर्शयन्त्यस् ताश् चेरुर् गोप्यो विचेतसः ।
यां गोपीम् अनयत् कृष्णो विहायान्याः स्त्रियो वने
सा च मेने तदात्मानं वरिष्ठं सर्व-योषिताम् ।
हित्वा गोपीः काम-याना माम् असौ भजते प्रियः
ततो गत्वा वनोद्देशं दृप्ता केशवम् अब्रवीत् ।
न पारये ऽहं चलितुं नय मां यत्र ते मनः
एवम् उक्तः प्रियाम् आह स्कन्ध आरुह्यताम् इति ।
ततश् चान्तर्दधे कृष्णः सा वधूर् अन्वतप्यत
हा नाथ रमण प्रेष्ठ क्वासि क्वासि महा-भुज ।
दास्यास् ते कृपणाया मे सखे दर्शय सन्निधिम्
भ्प्_10.30.040।0 श्री-शुक उवाच
अन्विच्छन्त्यो भगवतो मार्गं गोप्यो ऽविदूरितः ।
ददृशुः प्रिय-विश्लेषान् मोहितां दुःखितां सखीम्
तया कथितम् आकर्ण्य मान-प्राप्तिं च माधवात् ।
अवमानं च दौरात्म्याद् विस्मयं परमं ययुः
ततो ऽविशन् वनं चन्द्र ज्योत्स्ना यावद् विभाव्यते ।
तमः प्रविष्टम् आलक्ष्य ततो निववृतुः स्त्रियः
तन्-मनस्कास् तद्-अलापास् तद्-विचेष्टास् तद्-आत्मिकाः ।
तद्-गुणान् एव गायन्त्यो नात्मगाराणि सस्मरुः
पुनः पुलिनम् आगत्य कालिन्द्याः कृष्ण-भावनाः ।
समवेता जगुः कृष्णं तद्-आगमन-काङ्क्षिताः
मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0