भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.29

10.29.001

भ्प्_10.29.001।0 श्री-बादरायणिर् उवाच
भगवान् अपि ता रातृईः शारदोत्फुल्ल-मल्लिकाः ।
वीक्ष्य रन्तुं मनश् चक्रे योग-मायाम् उपाश्रितः

10.29.002

तदोडुराजः ककुभः करैर् मुखं प्राच्या विलिम्पन्न् अरुणेन शन्तमैः ।
स चर्षणीनाम् उदगाच् छुचो मृजन् प्रियः प्रियाया इव दीर्घ-दर्शनः

10.29.004

दृष्ट्वा कुमुद्वन्तम् अखण्ड-मण्डलं $ रमाननाभं नव-कुङ्कुमारुणम् &अम्प्;
वनं च तत्-कोमल-गोभी रञ्जितं % जगौ कलं वाम-दृशां मनोहरम् ॥ भ्प्_10.29.003* ॥
निशम्य गीतां तद् अनङ्ग-वर्धनं व्रज-स्त्रियः कृष्ण-गृहीत-मानसाः ।
आजग्मुर् अन्योन्यम् अलक्षितोद्यमाः स यत्र कान्तो जव-लोल-कुण्डलाः

10.29.005

दुहन्त्यो ऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः ।
पयो ऽधिश्रित्य संयावम् अनुद्वास्यापरा ययुः

10.29.006

परिवेषयन्त्यस् तद् धित्वा पाययन्त्यः शिशून् पयः ।
शुश्रूषन्त्यः पतीन् काश्चिद् अश्नन्त्यो ऽपास्य भोजनम्

10.29.007

लिम्पन्त्यः प्रमृजन्त्यो ऽन्या अञ्जन्त्यः काश्च लोचने ।
व्यत्यस्त-वस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः

10.29.008

ता वार्यमाणाः पतिभिः पितृभिर् भ्रातृ-बन्धुभिः ।
गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः

10.29.009

अन्तर्-गृह-गताः काश्चिद् गोप्यो ऽलब्ध-विनिर्गमाः ।
कृष्णं तद्-भावना-युक्ता दध्युर् मीलित-लोचनाः

10.29.010

दुःसह-प्रेष्ठ-विरह- तीव्र-ताप-धुताशुभाः ।
ध्यान-प्राप्ताच्युताश्लेष- निर्वृत्या क्षीण-मङ्गलाः

10.29.011

तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः ।
जहुर् गुण-मयं देहं सद्यः प्रक्षीण-बन्धनाः

10.29.012

भ्प्_10.29.012।0 श्री-परीक्षिद् उवाच
कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने ।
गुण-प्रवाहोपरमस् तासां गुण-धियां कथम्

10.29.013

भ्प्_10.29.013।0 श्री-शुक उवाच
उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथा गतः ।
द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः

10.29.014

नृणां निःश्रेयसार्थाय व्यक्तिर् भगवतो नृप ।
अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः

10.29.015

कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव च ।
नित्यं हरौ विदधतो यान्ति तन्-मयतां हि ते

10.29.016

न चैवं विस्मयः कार्यो भवता भगवत्य् अजे ।
योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते

10.29.017

ता दृष्ट्वान्तिकम् आयाता भगवान् व्रज-योषितः ।
अवदद् वदतां श्रेष्ठो वाचः पेशैर् विमोहयन्

10.29.018

भ्प्_10.29.018।0 श्री-भगवान् उवाच
स्वागतं वो महा-भागाः प्रियं किं करवाणि वः ।
व्रजस्यानामयं कच्चिद् ब्रूतागमन-कारणम्

10.29.019

रजन्य् एषा घोर-रूपा घोर-सत्त्व-निषेविता ।
प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सु-मध्यमाः

10.29.020

मातरः पितरः पुत्रा भ्रातरः पतयश् च वः ।
विचिन्वन्ति ह्य् अपश्यन्तो मा कृढ्वं बन्धु-साध्वसम्

10.29.021

दृष्टं वनं कुसुमितं राकेश-कर-रञ्जितम् ।
यमुनानिल-लीलैजत् तरु-पल्लव-शोभितम्

10.29.022

तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः ।
क्रन्दन्ति वत्सा बालाश् च तान् पाययत दुह्यत

10.29.023

अथ वा मद्-अभिस्नेहाद् भवत्यो यन्त्रिताशयाः ।
आगता ह्य् उपपन्नं वः प्रीयन्ते मयि जन्तवः

10.29.024

भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्य् अमायया ।
तद्-बन्धूनां च कल्याणः प्रजानां चानुपोषणम्

10.29.025

दुःशीलो दुर्भगो वृद्धो जडो रोग्य् अधनो ऽपि वा ।
पतिः स्त्रीभिर् न हातव्यो लोकेप्सुभिर् अपातकी

10.29.026

अस्वर्ग्यम् अयशस्यं च फल्गु कृच्छ्रं भयावहम् ।
जुगुप्सितं च सर्वत्र ह्य् औपपत्यं कुल-स्त्रियः

10.29.027

श्रवणाद् दर्शनाद् ध्यानान् मयि भावो ऽनुकीर्तनात् ।
न तथा सन्निकर्षेण प्रतियात ततो गृहान्

10.29.028

भ्प्_10.29.028।0 श्री-शुक उवाच
इति विप्रियम् आकर्ण्य गोप्यो गोविन्द-भाषितम् ।
विषण्णा भग्न-सङ्कल्पाश् चिन्ताम् आपुर् दुरत्ययाम्

10.29.031

कृत्वा मुखान्य् अव शुचः श्वसनेन शुष्यद् $ बिम्बाधराणि चरणेन भुवः लिखन्त्यः &अम्प्;
अस्रैर् उपात्त-मसिभिः कुच-कुङ्कुमानि % तस्थुर् मृजन्त्य उरु-दुःख-भराः स्म तूष्णीम् ॥ भ्प्_10.29.029* ॥
प्रेष्ठं प्रियेतरम् इव प्रतिभाषमाणं $ कृष्णं तद्-अर्थ-विनिवर्तित-सर्व-कामाः &
प्रेष्ठं प्रियेतरम् इव प्रतिभाषमाणं $ कृष्णं तद्-अर्थ-विनिवर्तित-सर्व-कामाः &
नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् % संरम्भ-गद्गद-गिरो ऽब्रुवतानुरक्ताः ॥ भ्प्_10.29.030*

10.29.042

0 श्री-गोप्य ऊचुः
मैवं विभो ऽर्हति भवान् गदितुं नृ-शंसं $ सन्त्यज्य सर्व-विषयांस् तव पाद-मूलम् &
मैवं विभो ऽर्हति भवान् गदितुं नृ-शंसं $ सन्त्यज्य सर्व-विषयांस् तव पाद-मूलम् &
भक्ता भजस्व दुरवग्रह मा त्यजास्मान् % देवो यथादि-पुरुषो भजते मुमुक्षून् ॥ भ्प्_10.29.031* ॥
यत् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग $ स्त्रीणां स्व-धर्म इति धर्म-विदा त्वयोक्तम् &
यत् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग $ स्त्रीणां स्व-धर्म इति धर्म-विदा त्वयोक्तम् &
अस्त्व् एवम् एतद् उपदेश-पदे त्वयीशे % प्रेष्ठो भवांस् तनु-भृतां किल बन्धुर् आत्मा ॥ भ्प्_10.29.032* ॥
कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् $ नित्य-प्रिये पति-सुतादिभिर् आर्ति-दैः किम् &
कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् $ नित्य-प्रिये पति-सुतादिभिर् आर्ति-दैः किम् &
तन् नः प्रसीद परमेश्वर मा स्म छिन्द्या % आशां धृतां त्वयि चिराद् अरविन्द-नेत्र ॥ भ्प्_10.29.033* ॥
चित्तं सुखेन भवतापहृतं गृहेषु $ यन् निर्विशत्य् उत कराव् अपि गृह्य-कृत्ये &
चित्तं सुखेन भवतापहृतं गृहेषु $ यन् निर्विशत्य् उत कराव् अपि गृह्य-कृत्ये &
पादौ पदं न चलतस् तव पाद-मूलाद् % यामः कथं व्रजम् अथो करवाम किं वा ॥ भ्प्_10.29.034* ॥
सिञ्चाङ्ग नस् त्वद्-अधरामृत-पूरकेण $ हासावलोक-कल-गीत-ज-हृच्-छयाग्निम् &
सिञ्चाङ्ग नस् त्वद्-अधरामृत-पूरकेण $ हासावलोक-कल-गीत-ज-हृच्-छयाग्निम् &
नो चेद् वयं विरहजाग्न्य्-उपयुक्त-देहा % ध्यानेन याम पदयोः पदवीं सखे ते ॥ भ्प्_10.29.035* ॥
यर्ह्य् अम्बुजाक्ष तव पाद-तलं रमाया $ दत्त-क्षणं क्वचिद् अरण्य-जन-प्रियस्य &
यर्ह्य् अम्बुजाक्ष तव पाद-तलं रमाया $ दत्त-क्षणं क्वचिद् अरण्य-जन-प्रियस्य &
अस्प्राक्ष्म तत्-प्रभृति नान्य-समक्षम् अञ्जः % स्थातुंस् त्वयाभिरमिता बत पारयामः ॥ भ्प्_10.29.036* ॥
श्रीर् यत् पदाम्बुज-रजश् चकमे तुलस्या $ लब्ध्वापि वक्षसि पदं किल भृत्य-जुष्टम् &
श्रीर् यत् पदाम्बुज-रजश् चकमे तुलस्या $ लब्ध्वापि वक्षसि पदं किल भृत्य-जुष्टम् &
यस्याः स्व-वीक्षण उतान्य-सुर-प्रयासस् % तद्वद् वयं च तव पाद-रजः प्रपन्नाः ॥ भ्प्_10.29.037* ॥
तन् नः प्रसीद वृजिनार्दन ते ऽन्घ्रि-मूलं $ प्राप्ता विसृज्य वसतीस् त्वद्-उपासनाशाः &
तन् नः प्रसीद वृजिनार्दन ते ऽन्घ्रि-मूलं $ प्राप्ता विसृज्य वसतीस् त्वद्-उपासनाशाः &
त्वत्-सुन्दर-स्मित-निरीक्षण-तीव्र-काम % तप्तात्मनां पुरुष-भूषण देहि दास्यम् ॥ भ्प्_10.29.038* ॥
वीक्ष्यालकावृत-मुखं तव कुण्दल-श्री $ गण्ड-स्थलाधर-सुधं हसितावलोकम् &
वीक्ष्यालकावृत-मुखं तव कुण्दल-श्री $ गण्ड-स्थलाधर-सुधं हसितावलोकम् &
दत्ताभयं च भुज-दण्ड-युगं विलोक्य % वक्षः श्रियैक-रमणं च भवाम दास्यः ॥ भ्प्_10.29.039* ॥
का स्त्र्य् अङ्ग ते कल-पदायत-वेणु-गीत- $ सम्मोहितार्य-चरितान् न चलेत् त्रि-लोक्याम् &
का स्त्र्य् अङ्ग ते कल-पदायत-वेणु-गीत- $ सम्मोहितार्य-चरितान् न चलेत् त्रि-लोक्याम् &
त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं % यद् गो-द्विज-द्रुम-मृगाः पुलकान्य् अबिभ्रन् ॥ भ्प्_10.29.040* ॥
व्यक्तं भवान् व्रज-भयार्ति-हरो ऽभिजातो $ देवो यथादि-पुरुषः सुर-लोक-गोप्ता &
व्यक्तं भवान् व्रज-भयार्ति-हरो ऽभिजातो $ देवो यथादि-पुरुषः सुर-लोक-गोप्ता &
तन् नो निधेहि कर-पङ्कजम् आर्त-बन्धो % तप्त-स्तनेषु च शिरःसु च किङ्करीणाम् ॥ भ्प्_10.29.041*
0 श्री-शुक उवाच
इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः ।
प्रहस्य स-दयं गोपीर् आत्मारामो ऽप्य् अरीरमत्

10.29.043

ताभिः समेताभिर् उदार-चेष्टितः प्रियेक्षणोत्फुल्ल-मुखीभिर् अच्युतः ।
उदार-हास-द्विज-कुन्द-दीधतिर् व्यरोचतैणाङ्क इवोडुभिर् वृतः

10.29.044

उपगीयमान उद्गायन् वनिता-शत-यूथपः ।
मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम्

10.29.045

नद्याः पुलिनम् आविश्य गोपीभिर् हिम-वालुकम् ।
जुष्टं तत्-तरलानन्दि कुमुदामोद-वायुना

10.29.046

बाहु-प्रसार-परिरम्भ-करालकोरु नीवी-स्तनालभन-नर्म-नखाग्र-पातैः ।
क्ष्वेल्यावलोक-हसितैर् व्रज-सुन्दरीणाम् उत्तम्भयन् रति-पतिं रमयां चकार

10.29.047

एवं भगवतः कृष्णाल् लब्ध-माना महात्मनः ।
आत्मानं मेनिरे स्त्रीणां मानिन्यो ह्य् अधिकं भुवि

10.29.048

तासां तत्-सौभग-मदं वीक्ष्य मानं च केशवः ।
प्रशमाय प्रसादाय तत्रैवान्तरधीयत

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc