भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.28

10.28.001

भ्प्_10.28.001।0 श्री-बादरायणिर् उवाच
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।
स्नातुं नन्दस् तु कालिन्द्यां द्वादश्यां जलम् आविशत्

10.28.002

तं गृहीत्वानयद् भृत्यो वरुणस्यासुरो ऽन्तिकम् ।
अवज्ञायासुरीं वेलां प्रविष्टम् उदकं निशि

10.28.003

चुक्रुशुस् तम् अपश्यन्तः कृष्ण रामेति गोपकाः ।
भगवांस् तद् उपश्रुत्य पितरं वरुणाहृतम् ।
तद्-अन्तिकं गतो राजन् स्वानाम् अभय-दो विभुः

10.28.004

प्राप्तं वीक्ष्य हृषीकेशं लोक-पालः सपर्यया ।
महत्या पूजयित्वाह तद्-दर्शन-महोत्सवः

10.28.005

भ्प्_10.28.005।0 श्री-वरुण उवाच
अद्य मे निभृतो देहो ऽद्यैवार्थो ऽधिगतः प्रभो ।
त्वत्-पाद-भाजो भगवन्न् अवापुः पारम् अध्वनः

10.28.006

नमस् तुभ्यं भगवते ब्रह्मणे परमात्मने ।
न यत्र श्रूयते माया लोक-सृष्टि-विकल्पना

10.28.007

अजानता मामकेन मूढेनाकार्य-वेदिना ।
आनीतो ऽयं तव पिता तद् भवान् क्षन्तुम् अर्हति

10.28.008

ममाप्य् अनुग्रहं कृष्ण कर्तुम् अर्हस्य् अशेष-दृक् ।
गोविन्द नीयताम् एष पिता ते पितृ-वत्सल

10.28.009

भ्प्_10.28.009।0 श्री-शुक उवाच
एवं प्रसादितः कृष्णो भगवान् ईश्वरेश्वरः ।
आदायागात् स्व-पितरं बन्धूनां चावहन् मुदम्

10.28.010

नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोक-पाल-महोदयम् ।
कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितो ऽब्रवीत्

10.28.011

ते चौत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरम् ।
अपि नः स्व-गतिं सूक्ष्माम् उपाधास्यद् अधीश्वरः

10.28.012

इति स्वानां स भगवान् विज्ञायाखिल-दृक् स्वयम् ।
सङ्कल्प-सिद्धये तेषां कृपयैतद् अचिन्तयत्

10.28.013

जनो वै लोक एतस्मिन्न् अविद्या-काम-कर्मभिः ।
उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन्

10.28.014

इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः ।
दर्शयाम् आस लोकं स्वं गोपानां तमसः परम्

10.28.015

सत्यं ज्ञानम् अनन्तं यद् ब्रह्म-ज्योतिः सनातनम् ।
यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः

10.28.016

ते तु ब्रह्म-ह्रदम् नीता मग्नाः कृष्णेन चोद्धृताः ।
ददृशुर् ब्रह्मणो लोकं यत्राक्रूरो ऽध्यगात् पुरा

10.28.017

नन्दादयस् तु तं दृष्ट्वा परमानन्द-निवृताः ।
कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सु-विस्मिताः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc