भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.27

10.27.001

देवे वर्षति यज्ञ-विप्लव-रुषा वज्रास्म-वर्षानिलैः $ सीदत्-पाल-पशु-स्त्रिय् आत्म-शरणं दृष्ट्वानुकम्प्य् उत्स्मयन् &अम्प्;
उत्पाट्यैक-करेण शैलम् अबलो लीलोच्छिलीन्ध्रं यथा % बिभ्रद् गोष्ठम् अपान् महेन्द्र-मद-भित् प्रीयान् न इन्द्रो गवाम् ॥ भ्प्_10.26.025*
0 श्री-शुक उवाच
गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे ।
गो-लोकाद् आव्रजत् कृष्णं सुरभिः शक्र एव च

10.27.002

विविक्त उपसङ्गम्य व्रीडीतः कृत-हेलनः ।
पस्पर्श पादयोर् एनं किरीटेनार्क-वर्चसा

10.27.003

दृष्ट-श्रुतानुभावो ऽस्य कृष्णस्यामित-तेजसः ।
नष्ट-त्रि-लोकेश-मद इदम् आह कृताञ्जलिः

10.27.004

भ्प्_10.27.004।0 इन्द्र उवाच
विशुद्ध-सत्त्वं तव धाम शान्तं तपो-मयं ध्वस्त-रजस्-तमस्कम् ।
माया-मयो ऽयं गुण-सम्प्रवाहो न विद्यते ते ग्रहणानुबन्धः

10.27.005

कुतो नु तद्-धेतव ईश तत्-कृता लोभादयो ये ऽबुध-लिन्ग-भावाः ।
तथापि दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यै खल-निग्रहाय

10.27.006

पिता गुरुस् त्वं जगताम् अधीशो दुरत्ययः काल उपात्त-दण्डः ।
हिताय चेच्छा-तनुभिः समीहसे मानं विधुन्वन् जगद्-ईश-मानिनाम्

10.27.007

ये मद्-विधाज्ञा जगद्-ईश-मानिनस् त्वां वीक्ष्य काले ऽभयम् आशु तन्-मदम् ।
हित्वार्य-मार्गं प्रभजन्त्य् अपस्मया ईहा खलानाम् अपि ते ऽनुशासनम्

10.27.008

स त्वं ममैश्वर्य-मद-प्लुतस्य कृतागसस् ते ऽविदुषः प्रभावम् ।
क्षन्तुं प्रभो ऽथार्हसि मूढ-चेतसो मैवं पुनर् भून् मतिर् ईश मे ऽसती

10.27.009

तवावतारो ऽयम् अधोक्षजेह भुवो भराणाम् उरु-भार-जन्मनाम् ।
चमू-पतीनाम् अभवाय देव भवाय युष्मच्-चरणानुवर्तिनाम्

10.27.010

नमस् तुभ्यं भगवते पुरुषाय महात्मने ।
वासुदेवाय कृष्णाय सात्वतां पतये नमः

10.27.011

स्वच्छन्दोपात्त-देहाय विशुद्ध-ज्ञान-मूर्तये ।
सर्वस्मै सर्व-बीजाय सर्व-भूतात्मने नमः

10.27.012

मयेदं भगवन् गोष्ठ- नाशायासार-वायुभिः ।
चेष्टितं विहते यज्ञे मानिना तीव्र-मन्युना

10.27.013

त्वयेशानुगृहीतो ऽस्मि ध्वस्त-स्तम्भो वृथोद्यमः ।
ईश्वरं गुरुम् आत्मानं त्वाम् अहं शरणं गतः

10.27.014

भ्प्_10.27.014।0 श्री-शुक उवाच
एवं सङ्कीर्तितः कृष्णो मघोना भगवान् अमुम् ।
मेघ-गम्भीरया वाचा प्रहसन्न् इदम् अब्रवीत्

10.27.015

भ्प्_10.27.015।0 श्री-भगवान् उवाच
मया ते ऽकारि मघवन् मख-भङ्गो ऽनुगृह्णता ।
मद्-अनुस्मृतये नित्यं मत्तस्येन्द्र-श्रिया भृशम्

10.27.016

माम् ऐश्वर्य-श्री-मदान्धो दण्ड पाणिं न पश्यति ।
तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्य् अनुग्रहम्

10.27.017

गम्यतां शक्र भद्रं वः क्रियतां मे ऽनुशासनम् ।
स्थीयतां स्वाधिकारेषु युक्तैर् वः स्तम्भ-वर्जितैः

10.27.018

अथाह सुरभिः कृष्णम् अभिवन्द्य मनस्विनी ।
स्व-सन्तानैर् उपामन्त्र्य गोप-रूपिणम् ईश्वरम्

10.27.019

भ्प्_10.27.019।0 सुरभिर् उवाच
कृष्ण कृष्ण महा-योगिन् विश्वात्मन् विश्व-सम्भव ।
भवता लोक-नाथेन स-नाथा वयम् अच्युत

10.27.020

त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्-पते ।
भवाय भव गो-विप्र देवानां ये च साधवः

10.27.021

इन्द्रं नस् त्वाभिषेक्ष्यामो ब्रह्मणा चोदिता वयम् ।
अवतीर्णो ऽसि विश्वात्मन् भूमेर् भारापनुत्तये

10.27.022

भ्प्_10.27.022।0 शृई-शुक उवाच
एवं कृष्णम् उपामन्त्र्य सुरभिः पयसात्मनः ।
जलैर् आकाश-गङ्गाया ऐरावत-करोद्धृतैः

10.27.023

इन्द्रः सुरर्षिभिः साकं चोदितो देव-मातृभिः ।
अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात्

10.27.024

तत्रागतास् तुम्बुरु-नारदादयो गन्धर्व-विद्याधर-सिद्ध-चारणाः ।
जगुर् यशो लोक-मलापहं हरेः सुराङ्गनाः सन्ननृतुर् मुदान्विताः

10.27.025

तं तुष्टुवुर् देव-निकाय-केतवो ह्य् अवाकिरंश् चाद्भुत-पुष्प-वृष्टिभिः ।
लोकाः परां निर्वृतिम् आप्नुवंस् त्रयो गावस् तदा गाम् अनयन् पयो-द्रुताम्

10.27.026

नाना-रसौघाः सरितो वृक्षा आसन् मधु-स्रवाः ।
अकृष्ट-पच्यौषधयो गिरयो ऽबिभ्रन् उन् मणीन्

10.27.027

कृष्णे ऽभिषिक्त एतानि सर्वाणि कुरु-नन्दन ।
निर्वैराण्य् अभवंस् तात क्रूराण्य् अपि निसर्गतः

10.27.028

इति गो-गोकुल-पतिं गोविन्दम् अभिषिच्य सः ।
अनुज्ञातो ययौ शक्रो वृतो देवादिभिर् दिवम्

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc