भाषा

ENहिગુ
ग्रंथ पाठ

भागवत पुराण · अध्याय 10.26

10.26.001

भ्प्_10.26.001।0 श्री-शुक उवाच
एवं-विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते ।
अतद्-वीर्य-विदः प्रोचुः समभ्येत्य सु-विस्मिताः

10.26.002

बालकस्य यद् एतानि कर्माण्य् अत्य्-अद्भुतानि वै ।
कथम् अर्हत्य् असौ जन्म ग्राम्येष्व् आत्म-जुगुप्सितम्

10.26.003

यः सप्त-हायनो बालः करेणैकेन लीलया ।
कथं बिभ्रद् गिरि-वरं पुष्करं गज-राड् इव

10.26.004

तोकेनामीलिताक्षेण पूतनाया महौजसः ।
पीतः स्तनः सह प्राणैः कालेनेव वयस् तनोः

10.26.005

हिन्वतो ऽधः शयानस्य मास्यस्य चरणाव् उदक् ।
अनो ऽपतद् विपर्यस्तं रुदतः प्रपदाहतम्

10.26.006

एक-हायन आसीनो ह्रियमाणो विहायसा ।
दैत्येन यस् तृणावर्तम् अहन् कण्ठ-ग्रहातुरम्

10.26.007

क्वचिद् धैयङ्गव-स्तैन्ये मात्रा बद्ध उदूखले ।
गच्छन्न् अर्जुनयोर् मध्ये बाहुभ्यां ताव् अपातयत्

10.26.008

वने सञ्चारयन् वत्सान् स-रामो बालकैर् वृतः ।
हन्तु-कामं बकं दोर्भ्यां मुखतो ऽरिम् अपाटयत्

10.26.009

वत्सेषु वत्स-रूपेण प्रविशन्तं जिघांसया ।
हत्वा न्यपातयत् तेन कपित्थानि च लीलया

10.26.010

हत्वा रासभ-दैतेयं तद्-बन्धूंश् च बलान्वितः ।
चक्रे ताल-वनं क्षेमं परिपक्व-फलान्वितम्

10.26.011

प्रलम्बं घातयित्वोग्रं बलेन बल-शालिना ।
अमोचयद् व्रज-पशून् गोपांश् चारण्य-वह्नितः

10.26.012

आशी-विषतमाहीन्द्रं दमित्वा विमदं ह्रदात् ।
प्रसह्योद्वास्य यमुनां चक्रे ऽसौ निर्विषोदकाम्

10.26.013

दुस्त्यजश् चानुरागो ऽस्मिन् सर्वेषां नो व्रजौकसाम् ।
नन्द ते तनये ऽस्मासु तस्याप्य् औत्पत्तिकः कथम्

10.26.014

क्व सप्त-हायनो बालः क्व महाद्रि-विधारणम् ।
ततो नो जायते शङ्का व्रज-नाथ तवात्मजे

10.26.015

भ्प्_10.26.015।0 श्री-नन्द उवाच
श्रूयतां मे वचो गोपा व्येतु शङ्का च वो ऽर्भके ।
एनम् कुमारम् उद्दिश्य गर्गो मे यद् उवाच ह

10.26.016

वर्णास् त्रयः किलास्यासन् गृह्णतो ऽनु-युगं तनूः ।
शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः

10.26.017

प्रागयं वसुदेवस्य क्वचिज् जातस् तवात्मजः ।
वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते

10.26.018

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।
गुण -कर्मानुरूपाणि तान्य् अहं वेद नो जनाः

10.26.019

एष वः श्रेय आधास्यद् गोप-गोकुल-नन्दनः ।
अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ

10.26.020

पुरानेन व्रज-पते साधवो दस्यु-पीडिताः ।
अराजके रक्ष्यमाणा जिग्युर् दस्यून् समेधिताः

10.26.021

य एतस्मिन् महा-भागे प्रीतिं कुर्वन्ति मानवाः ।
नारयो ऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः

10.26.022

तस्मान् नन्द कुमारो ऽयं नारायण-समो गुणैः ।
श्रिया कीर्त्यानुभावेन तत्-कर्मसु न विस्मयः

10.26.023

इत्य् अद्धा मां समादिश्य गर्गे च स्व-गृहं गते ।
मन्ये नारायणस्यांशं कृष्णम् अक्लिष्ट-कारिणम्

10.26.024

इति नन्द-वचः श्रुत्वा गर्ग-गीतं तं व्रजौकसः ।
मुदिता नन्दम् आनर्चुः कृष्णं च गत-विस्मयाः

मूल पाठ: Bhāgavatapurāṇa · Data entry Ulrich Stiehl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc